तं शिखण्डी त्रिभिर्बाणैरभ्यविध्यत्सनान्तरे । आशीविषमिव क्रुद्धं कालसृष्टमिवान्तकम्
स तेनातिभृशं विद्धः प्रेक्ष्य भीष्मः शिखण्डिनम् । पुनर्नालोकयत्क्रुद्धः प्रहसन्निदमब्रवीत्
कामं प्रहर वा मा वा न त्वां योत्स्ये कथंचन । यैव हि त्वं कृता धात्रा सैव हि त्वं शिखण्डिनी
तस्य तद्वचनं श्रुत्वा शिखण्डी क्रोधमूर्च्छितः । उवाच भीष्मं समरे सृक्विणी परिलेलिहन्
जानामि त्वां महाबाहो क्षत्रियाणां भयंकरम् । मया श्रुतं च ते युद्धं जामदग्न्येन वै सह
दिव्यश्च ते प्रभावोऽयं मया च बहुशः श्रुतः । जनन्नपि प्रभावं ते योत्स्येऽद्याहं त्वया सह
पाण्डवानां प्रियं कुर्वन्नात्मनश्च नरोत्तम ।। अद्य त्वां योधयिष्यामि रणे पुरुषसत्तम
ध्रुवं च त्वां हनिष्यामि शपे सत्येन तेऽग्रतः । एतच्छ्रुत्वा च मद्वाक्यं यत्कृत्यं तत्समाचर
कामं युध्यस्व वा मा वा न मे जीवन्प्रमोक्ष्यसे । सुदृष्टः क्रियतां भीष्म लोकोऽयं समितिंजय
एवमुक्त्वा ततो भीष्मं पञ्चभिर्नतपर्वभिः। अविध्यत रणे भीष्मं प्रतुदन्वाक्यसायकैः
तस्य तद्वचनं श्रुत्वा सव्यसाची महारथः । कालोऽयमिति संचिन्त्य शिखण्डिनमचोदयत्
अहं त्वामनुयास्यामि परान्विद्रावयञ्शरैः । अभिद्रव सुसंरब्धो भीष्मं भीमपराक्रमम्
न हि ते संयुगे पीडां शक्ताः कर्तुं महाबलाः । तस्मादद्य महाबाहो यत्नाद्भीष्यमभिद्रव
अहत्वा समरे भीष्म यदि यास्यसि मारिष । अवहास्योऽस्य लोकस्य भविष्यसि मया सह
नावहास्या यथा वीर भवेम परमाहवे । तथा कुरु रणे यत्नं साधयस्व पितामहम्
कुरूंश्च सहितान्सर्वान्यतमानान्महारथान् । अहमावारयिष्यामि सावयस्व पितामहम्
द्रोणं च द्रोणपुत्रं च कृपं चाथ सुयोधनम् । चित्रसेनं विकर्णं च सैन्धवं च यजद्रथम्
विन्दानुविन्दावावन्त्यौ काम्भोजं च सुदक्षिणम् । भगदत्तं तथा शूरं मागदं च महाबलम्
सौमदत्तिं तथा शूरमार्श्यशृङ्गिं च राक्षसम् । त्रिगर्तराजं च रणे सह सर्वैर्महारथैः
अहमावारयिष्यामि वेलेव मकरालयम् । कुरूंश्च सहितान्सर्वान्युध्यमानान्महाबलान् । निवारयिष्यामि रणे साधयस्व पितामहम्
कथं शिखण्डी गाङ्गेयमभ्यधावत्पितामहम् । पाञ्चाल्यः समरे क्रुद्धो धर्मात्मानं यतव्रतम्
केऽरक्षन्पाण्डवानीके शिखण्डिनमुदायुधाः। त्वरमाणास्त्वराकाले जिगीषन्तो महारथाः
कथं शान्तनवो भीष्मः स तस्मिन्दशमेऽहनि। अयुध्यत महावीर्यः पाण्डवैः सह सृञ्जयैः
न मृष्यामि रणे भीष्मं प्रत्युद्यातं शिखण्डिना । कच्चिन्न रथमद्गोऽस्व धनुर्वाऽशीर्यतास्थतः
नाशीर्यत धनुश्चास्य रथभङ्गो न चाप्यभूत्। युध्यमानस्य संग्रामे भीष्मस्य भरतर्षभ। निघ्नतः समरे शत्रून्शरैः सन्नतपर्वभिः
अनेकशतसाहस्रावकानां महारथाः । तथा दन्तिगणा राजन्हायश्चैव सुसञ्जिताः
अभ्यवर्तन्त युद्धाय पुरस्कृत्य पितामहम्
यथाप्रतिज्ञं कौरव्य स चापि समिर्तिजयः । पार्यानामकरोद्भीष्मः सततं समिति क्षयम्
युध्यमानं महेष्वासं विनिघ्नन्तं पराञ्शरैः । पाञ्चालाः पाण्डवैः सार्ध सर्वतः पर्यवारयन्
दशमेऽहनि संप्राप्ते ततस्तां रिपुवाहिनीम् । कीर्यमाणां शितैर्बाणैः शतशोऽथ सहस्रशः