तथैव कुरवो राजन्भीष्मं कृत्वा महारथम् । अग्रतः सर्वसैन्यानां प्रययुः पाण्डवान्प्रति
पुत्रैस्तव दुराधर्षो रक्षितः सुमहाबलैः । ततो द्रोणो महेष्वासः पुत्रश्चास्य महाबलः
भगदत्तस्ततः पश्चाद्गजानीकेन संवृतः । कृपश्च कृतवर्मा च भगदत्तमनुव्रतौ
काम्भोजराजो बलवांस्ततः पश्चात्सुदक्षिणः । मागधश्च जयत्सेनः सौबलश्च बृहद्बलः
तथैवान्ये महेष्वासाः सुशर्मप्रमुखा नृपाः । जघनं पालयामासुस्तव सैन्यस्य भारत
दिवसेदिवसे प्राप्ते भीष्मः शान्तनवो युधि। आसुरानकरोद्व्यूहान्पैशाचानथ राक्षसान्
ततः प्रववृते युद्धं तव तेषां च भारत। अन्योन्यं निघ्नतां राजन्यमराष्ट्रविवर्धनम्
अर्जुनप्रमुखाः पार्थाः पुरस्कृत्य शिखण्डिनम्। भीष्मं युद्धेऽभ्यवर्तन्त किरन्तो विविधाञ्शरान्
तत्र भारत भीमेन ताडितास्तावकाः शरैः। रुधिरौघपरिक्लिन्नाः परलोकं ययुस्तदा
नकुलः सहदेवश्च सात्यकिश्च महारथः । तव सैनयं समासाद्य पीडयामासुरोजसा
ते वध्यामानाः समरे तावका भरतर्षभ । नाशक्नुवन्वारयितुं पाण्डवानां महद्बलम्
ततस्तु तावकं सैन्यं वध्यमानं समन्ततः। संप्राद्रवद्दशः दिशः काल्यमानं महारथैः
त्रातारं नाध्यगच्छन्त तावका भरतर्षभ । वध्यमानाः शितैर्बाणैः पाण्डवैः सह सृञ्जयैः
पीड्यमानं बलं दृष्ट्वा पार्थैर्भीष्मः पराक्रमी । यदकार्षीद्रणे क्रुद्धस्तन्ममाचक्ष्व सञ्जय
कथं वा पाण्डवा युद्धे प्रत्युद्याताः परंतपाः । निघ्नन्तो मामकान्वीरांस्तन्ममाचक्ष्व सञ्जय
आचक्षे ते महाराज यदकार्षीत्पिता तव। पीडिते तव पुत्रस्य सैन्ये पाण्डव सृञ्जयैः
प्रंहृष्टमनसः शूराः पाण्डवाः पाण्डुपूर्वज । अभ्यवर्तन्त निघ्नन्तस्तव पुत्रस्य वाहिनीम्
तं विनाशं मनुष्येन्द्र नरवारणवाजिनाम् । नामृष्यत तदा भीष्मः सैन्यघातं रणे परैः
स पाणडवान्महेष्वासः पञ्चालांश्चैव सृञ्जयान् । नाराचैर्वत्सदन्तैश्च शितैरञ्जलिकैस्तथा
अभ्यवर्षत दुर्धर्षस्त्यक्त्वा जीवितमात्मनः । स पाण्डवानां प्रवरान्पञ्च राजन्महारथान्
आत्तशस्त्रो रणे यत्नाद्वारयामास सायकैः । नानाशस्त्रास्त्रवर्षैस्तान्वीर्यामर्षप्रवेरितैः
निजघ्ने समरे क्रुद्धो हस्त्यश्वं चामितं बहु। रथिनोऽपातयद्राजन्रथेभ्यः पुरुषर्षभ
सादिनश्चाश्वपृष्ठेभ्यः पादातांश्च समागतान्
गजारोहान्गजेभ्यश्च परेषां जयकारिणः । तमेकं समरे भीष्मं त्वरमाणं महारथम्
पाण्डवाः समवर्तन्त वज्रहस्तमिवासुराः। शक्राशनिसमस्पर्शान्विमुञ्चन्निशिताञ्छरान्
दिक्ष्वदृश्यत सर्वासु घोरं सन्धारयन्वपुः। मण्डलीभूतमेवास्य नित्यं धनुरदृश्यत
संग्रामे युध्यमानस्य शक्रचापोपमं महत् ।। तदृष्ट्वा समरे कर्म पुत्रास्तव विशांपते
विस्मायं परमं गत्वा पितामहमपूजयन् । पार्था विमनसो भूत्वा प्रैक्षन्त पितरं तव
युध्यमानं रणे शूरं विप्रचित्तिमिवामराः । न चैनं वारयामासुर्व्यात्ताननमिवान्तकम्
दशमेऽहनि संप्राप्ते रथानीकं शिखण्डिनः । अदहन्निशितैर्बाणैः कृष्णवर्त्मेव काननम्