तथोक्तवति गाङ्गेये परलोकाय दीक्षिते। अर्जुनो दुःखसंतप्तः सव्रीडमिदमब्रवीत्
गुरुणा कुरुवृद्धेन कृतप्रज्ञेन धीमता । पितामहेन संग्रामे कथं योद्धास्मि माधव
क्रीडता हि मया बाल्ये वासुदेव महामनाः । पांसुरूषितगात्रेण महात्मा परुषीकृतः
यस्याहमधिरुह्याङ्कं वालः किल गदाग्रज । तातेत्यवोचं पितरं पितुः पाण्डोर्महात्मनः
नाहं तातस्तव पितुस्तातोऽस्मि तव भारत । इति मामब्रवीद्बाल्ये यः स वध्यः कथं मया
कामं वध्यतु सैन्यं मे नाहं योत्स्ये महात्मना । जयो वास्तु वधो वा मे कथं वा कृष्ण मन्यसे
कथमस्माद्विधः कृष्ण जानन्धर्मं सनातनम् । न्यस्तशस्त्रे च वृद्धे च प्रहरेद्धि पितामहे
प्रतिज्ञाय वधं जिष्णो पुरा भीष्मस्य संयुगे। क्षत्रधर्मे स्थितः पार्थ कथं नैनं हनिष्यसि
पातयैनं रथात्पार्थ क्षत्रियं युद्धदुर्मदम् । नाहत्वा युधि गाङ्गेयं विजयस्ते भविष्यति
दृष्टमेतत्पुरा देवैर्भविष्यत्यवशस्य ते। यद्दृष्टं हि पुरा पार्थ तत्तथा न तदन्यथा
न हि भीष्मं दुराधर्षं व्यात्ताननमिवान्तकम् । त्वदन्यः शक्नुयाद्योद्धुमपि वज्रधरः स्वयम्
जहि भीष्मं स्थिरो भूत्वा शृणु चेदं वचो मम। यथोवाच पुरा शक्रं महाबुद्धिर्बृहस्पतिः
ज्यायांसमपि चेद्वृद्धं गुणैरपि समन्वितम् । आततायिनमायान्तं हन्याद्धातकमात्मनः
शाश्वतोऽयं स्थितो धर्मः क्षत्रियाणां धनञ्जय । योद्धव्यं रक्षितव्यं च यष्टव्यं चानसूयुभिः
शिखण्डी निधनं कृष्ण भीष्मस्य भविता ध्रुवम् । दृष्ट्वैव हि सदा भीष्मः पाञ्चाल्यं विनिवर्तते
ते वयं प्रमुखे तस्य पुरस्कृत्य शिखण्डिनम्। गाङ्गेयं पातयिष्याम उपायेनेति मे मतिः
अहमन्यान्महेष्वासान्वारयिष्यामि सायकैः । शिखण्ड्यपि युधां श्रेष्ठं भीष्ममेवाभियोधयेत्
श्रुतं हि कुरुमुख्यस्य नाहं हन्यां शिखण्डिनम् । कन्या ह्येषा पुरा भूत्वा पुरुषः समपद्यत
अर्जुनस्य वचः श्रुत्वा भीष्मस्य वधसंयुतम्। जहृषुर्हृष्टरोमाणः सकृष्णाः पाण्डवास्तदा
इत्येवं निश्चयं कृत्वा पाण्डवाः सहमाधवाः। अनुमान्य महात्मानं प्रययुर्हृष्टमानसाः। शयनानि यथा स्वानि भेजिरे पुरुषर्षभाः
कथं शिखण्डी गाङ्गेयमभ्यवर्तत संयुगे। पाण्डवाश्च कथं भीष्मं तन्ममाचक्ष्व सञ्जय
ततः प्रभाते विमले सूर्यस्योदयनं प्रति। ताड्यमानासु भेरीषु मृदङ्गेष्वानकेषु च
ध्मायमानेषु शङ्खेषु पाण्डरेषु समन्ततः । शिखण्डिनं पुरस्कृत्य निर्याप्ताः पाण्डवा युधि
कृत्वा व्यूहं महाराज सर्वशत्रुनिबर्हणम् । शिखण्डी सर्वसैन्यानामग्र आसीद्विशांपते
चक्ररक्षौ ततस्तस्य भीमसेनधनंजयौ । पृष्ठतो द्रौपदेयाश्च सौभद्रश्चैव वीर्यवान्
सात्यकिश्चेकितानश्च तेषां गोप्ता महारथः। धृष्टद्युम्नस्ततः पश्चात्पाञ्चालैरभिरक्षितः
ततो युधिष्ठिरो राजा यमाभ्यां सहितः प्रभुः। प्रययौ सिंहनादेन नादयन्भरतर्षभ
विराटस्तु ततः पश्चात्स्वेन सैन्येन संवृत्तः । द्रुपदश्च महाबाहो ततः पञ्चादुपाद्रवत्
केकया भ्रातरः पञ्च धृष्टकेतुश्च वीर्यवान् । जघनं पालयामासुः पाण्डवेयश्च राक्षसः
एवं व्यूह्य महासैन्यं पाण्डवास्तव वाहिनीम् । अभ्यद्रवन्त संग्रामे त्यक्त्वा जीवितमात्मनः