तानुवाच महाबाहुर्भीष्मः कुरुपितामहः । स्वागतं तव वार्ष्णेय स्वागतं ते धनञ्जय
स्वागतं धर्मपुत्राय भीमाय यमयोस्तथा। किं वा कार्यं करोम्यद्य युष्माकं प्रीतिवर्धनं
युद्धादन्यत्र हे वत्साः प्रीयन्तां मा विशङ्कथ ।' सर्वात्मनापि कर्तास्मि यदपि स्यात्सदुष्करम् । तथा ब्रुवाणं गाङ्गेयं प्रीतियुक्तं पुनःपुनः
उवाच राजा दीनात्मा प्रीतियुक्तमिदं वचः। कथं जयेम सर्वज्ञ कथं राज्यं लभेमहि
प्रजानां संशयो न स्यात्कथं तन्मे बद प्रभो । भवान्हि नो वधोपायं ब्रवीतु स्वयमात्मनः
भवन्तं समरे वीर विषहेम कथं वयम्। न हि ते सूक्ष्ममप्यस्ति रन्ध्रं कुरुपितामह
मण्डलेनैव धनुषा दृश्यसे संयुगे सदा। आददानं संदधानं विकर्षन्तं धनुर्न च
पश्यामस्त्वां महाबाहो रथे सूर्यमिवापरम् । रथाश्वनरनागानां हन्तारं परवीरहन्
कोऽथवोत्सहते जेतुं वां पुमान्भरतर्षभ । वर्षता शरवर्षाणि महान्ति पुरुषर्षभ
क्षयं निता हि पृतना संयुगे महती मम। यथा युधि जयेम त्वां यथा राज्यं भृशं मम
ततोऽब्रवीच्छान्तनवः पाण्डवान्पाण्डुपूर्वज
न कथंचन कौन्तेय मयि जीवति संयुगे। जयो भवति सर्वज्ञ सत्यमेतद्ब्रवीमि ते
निर्जिते मयि युद्धेन रणे जेष्यथ पाण्डवाः । क्षिप्रं मयि प्रहरत यदीच्छथ रणे जयम्
अनुजानामि वः पार्थाः प्रहरध्वं यथासुखम् । एवं हि सुकृतं मन्ये भवतां विदितो ह्यहम् । हते मयि हतं सर्वं तस्मादेवं विधीयताम्
ब्रूहि तस्मादुपायं नो यथा युद्धे जयेमहि। भवन्तं समरे क्रुद्धं दण्डहस्तमिवान्तकम्
शक्यो वज्रधरो जेतुं वरुणोऽथ यमस्तथा। न भवान्समरे शक्यः सेन्द्रैरपि सुरासुरैः
सत्यमेतन्महाबाहो यथा वदसि पाण्डव
नाहं जेतुं रणे शक्यः सेन्द्रैरपि सुरासुरैः। आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः । ततो मां न्यस्तशस्त्रं तु एते हन्युर्महारथाः
निक्षिप्तशस्त्रे पतिते विमुक्तकवचध्वजे । द्रवमाणे च भीते च तवास्मीति च वादिनि
स्त्रीजिते स्त्रीप्रधाने च स्त्रीप्रधायिनि धर्मज' स्त्रियां स्त्रीनामधेये च विकले चैकपुत्रिणि । अप्रसूते च षण्डे च न युद्धं रोचते मम
इमं मे शृणु राजेन्द्र संकल्पं पूर्वचिन्तितम् । असंकल्पध्वजं दृष्ट्वा न युध्येयं कदाचन
य एष द्रौपदो राजंस्तव सैन्ये महारथः । शिखण्डी समरामर्षी शूरश्च समितिंजयः
यथाऽभवच्च स्त्रीपूर्वं पश्चात्पुंस्त्वं समागतः। जानन्ति च भवन्तोऽपि सर्वमेतद्यथातथम्
अर्जुनः समरे शूरः पुरस्कृत्य शिखण्डीनम् । मामेव विशिखैस्तीक्ष्णैरभिद्रवतु दंशितः
असंकल्पध्वजे तस्मिन्स्त्रीपूर्वे च विशेषतः । न प्रहर्तुमभीप्सामि गृहीतेषु कथंचन
तदन्तरं समासाद्य पाण्डवो मां धनञ्जयः। शरैर्घातयतु क्षिप्रं समन्ताद्भरतर्षभ
न तं पश्यामि लोकेष मां हन्याद्यः समुद्यतम्। ऋते कृष्णान्महाभागात्पाण्डवाद्वा धनञ्जयात्
पार्षतं तु पुरोधाय क्लीबमद्य ममाग्रतः । आत्तशस्त्रो रणे यत्तो गृहीतवरकार्मुकः । मां पातयतु बीभत्सुरेवं तव जयो ध्रुवम्
एतत्कुरुष्व कौन्तेय यथोक्तं मम सुव्रत । ततो जेष्वसि संग्रामे धार्तराष्ट्रान्समागतान्
तेऽनुज्ञातास्ततः पार्था जग्मुः स्वशिबिरं प्रति। अभिवाद्य महात्मानं भीष्मं कुरुपितामहम्