हनिष्यामि रणे भीष्ममाहूय पुरुषर्षभम् । पश्यतां धार्तराष्ट्राणां यदि नेच्छति फल्गुनः
यदि भीष्मे हते वीरे जयं पश्यसि पण्डव। हन्तास्म्येकरथेनाद्य कुरुवृद्धं पितामहम्
पश्य मे विक्रमं राजन्महेन्द्रस्येव संयुगे। विमुञ्चन्तं महास्त्रामि पातयिष्यामि तं रथात्
यः शत्रुः पाण्डुपुत्राणां मच्छत्रुः स न संशयः। मदर्था भवदर्था ये ये मदीयास्तवैव ते
तव भ्राता मम सखा संबन्धी शिष्य एव च । मांसान्युत्कृत्य दास्यामि फल्गुनार्थे महीपते
एष चापि नरव्याघ्रो मत्कृते जीवितं त्यजेत्। एष नः समयस्तात तारयेम परस्परम्
स मां नियुङ्क्ष्व राजेन्द्र यावत्सज्जो भवाम्यहम् । प्रतिज्ञातमुपप्लाव्ये यत्तत्पार्थेन पूर्वतः
पातयिष्यामि गाङ्गेयमित्युलूकस्य संनिधौ। परिरक्ष्यमिदं तावद्वचः पार्थस्य धीमतः
अनुज्ञातेन पार्थेन मया कार्यं न संशयः। अथवा फल्गुनस्यैष भारः परिमितो रणे
स हनिष्यति संग्रामे भीष्मं परपुरंजयम् । अशक्यमपि कुर्याद्धि रणे पार्थः समुद्यतः
त्रिदशान्वा समुद्युक्तान्सहितान्दैत्यदानवैः । निहन्त्यादर्जुनः सङ्ख्ये किमु भीष्मं नराधिप
विपरीतो महावीर्यो गतसत्वोऽल्पजीवनः । भीष्मः शान्तनवो नूनं कर्तव्यं नावबुध्यते
एवमेतन्महाबाहो यथा वदसि माधव। सर्वे ह्येते न पर्याप्तास्तव वेगविधारणे
नियतं समावाप्स्यामि सर्वमेतद्यथेप्सितम् । यस्य मे पुरुषव्याघ्र भवान्पक्षे व्यवस्थितः
सेन्द्रानपि रणे देवाञ्जयेयं जयतां वर। त्वया नाथेन गोविन्द किमु भीष्मं महारथम्
न तु त्वामनृतं कर्तुमुत्सहे स्वात्मगौरवात्। अयुध्यमानाः सहाय्यं यथोक्तं कुरु माधव
समयस्तु कृतः कश्चिन्मम भीष्मेण संयुगे। मन्त्रयिष्ये तवार्थाय न तु योत्स्ये कथंचन
दुर्योधनार्थं योत्स्यामि सत्यमेतदिति प्रभो। स हि राज्यस्य मे दाता मन्त्रस्यैव च माधव
तस्माद्देवव्रतं भूयो वधोपायार्थमात्मनः । भवता सहिताः सर्वे प्रयाम मधुसूदन
तद्वयं सहिता गत्वा भीष्ममाशु नरोत्तमम् । रुचिते तव पृच्छामि मन्त्रं वार्ष्णेय माचिरम्
स वक्ष्यति हितं वाक्यं सत्यमस्माज्जनार्दन। यथा च वक्ष्यते कृष्ण तथा कर्तास्मि संयुगे
स नो जयस्य दाता स्यान्मन्त्रस्य च दृढव्रतः । बालाः पित्रा विहीनाश्च तेन संवर्धिता वयम्
तं चेत्पितामहं वृद्धं हन्तुमिच्छामि माधव। पितुः पितरमिष्टं च धिगस्तु क्षत्रजीविकाम्
ततोऽब्रवीन्महाराज वार्ष्णेयः कुरुनन्दनम् । रोचते मे महाप्राज्ञ राजेन्द्र तव भाषितम्
देवव्रतः कृती भीष्मः प्रेक्षितेनापि निर्दहेत्। गम्यतां स्ववधोपायं प्रष्टुं सागरगासुतम्
वक्तमर्हति सत्यं स त्वया पृष्टो विशेषतः । ते वयं तत्र गच्छामः प्रष्टुं कुरुपितामहम्
गत्वा शान्तनवं वृद्धं मन्त्रं पृच्छाम भारत । स नो दास्यति मन्त्रं यं तेन योत्स्यामहे परान्
एवमामन्त्र्य ते वीराः पाण्डवाः पाण्डुपूर्वज। जग्मुस्ते सहिताः सर्वे वासुदेवश्च वीर्यवान्
विमुक्तशस्त्रकवचा भीष्मस्य सदनं प्रति। प्रविश्य च तदा भीष्मं शिरोभिः प्रणिपेदिरे
पूजयन्तो महाराज पाण्डवा भरतर्षभम् । प्रणम्य शिरसा चैनं भीष्मं शरणमभ्ययुः