विमृद्गतस्तस्य तु पाण्डुसेना- मस्तं जगामाथ सहस्ररश्मिः। ततो हि भीष्मः सबलान्ससैन्या- न्न्यवारयत्पाण्डुसुताञ्शरौघैः
मनोऽवहारं प्रति संबभूव
युध्यतामेव तेषां तु भास्करेऽस्तमुपागते। सन्ध्या समभवद्धोरा नापश्याम ततो रणम्
ततो युधिष्ठिरो राजा सन्ध्यां संदृश्य भारत। वध्यमानं च भीष्मेण त्यक्तास्त्रं भयविह्वलम्
स्वसैन्यं च परावृत्तं पलायनपरायणम्। भीष्मं च युधि संरब्धं पीडयन्तं महारथम्
सोमकांश्च जितान्दृष्ट्वा निरुत्साहान्महारथान्। ` निशामुखं च संप्रेक्ष्य घोररूपं भयानकम्।' चिन्तयित्वा ततो राज्ञामपहारमकारयत्
ततोऽपहारं सैन्यानां चक्रे राजा युधिष्ठिरः । तथैव तव सैन्यानामपहारे ह्यभूत्तदा
ततोऽपहारं सैन्यानां कृत्वा तत्र महारथाः । न्यविशन्त कुरुश्रेष्ठ संग्रामे क्षतविक्षताः
भीष्मस्य समरे कर्म चिन्तयानास्तु पाण्डवाः । नालभन्त तदा शान्तिं भीष्मबाणप्रपीडिताः
भीष्मोऽपि समरे जित्वा पाण्डवान्सह सृञ्जयान्। पूज्यमानस्तव सुतैर्वन्द्यमानश्च भारत
न्यविशत्कुरुभिः सार्धं हृष्टरूपैः समन्ततः । ततो रात्रिः समभवत्सर्वभूतप्रमोहिनी
तस्मिन्रात्रिमुखे घोरे पाण्डवा वृष्णिभिः सह । सृञ्जयाश्च दुराधर्षा मन्त्राय समुपाविशन्
आत्मनिःश्रेयसं सर्वे प्राप्तकालं महाबलाः। मन्त्रयामासुरव्यग्रा मन्त्रनिश्चयकोविदाः
ततो युधिष्ठिरो राजा मन्त्रयित्वा चिरं नृप । वासुदेवं समुद्वीक्ष्य वचनं चेदमाददे
कृष्ण पश्य माहात्मानं भीष्मं भीमपराक्रमम् । गजं नलवनानीव विमृद्गन्तं बलं मम
न चैवैनं महात्मानमुत्सहामो निरीक्षितुम् । लेलिह्यमानं सैन्येषु प्रवृद्धमिव पावकम्
यथा घोरो महानागस्तक्षको वै विषोल्बणः। तथा भीष्मो रणे क्रुद्धस्तीक्ष्णशस्त्रः प्रतापवान्
गृहीतचापः समरे प्रमुञ्चन्निशिताञ्छरान्। शक्यो जेतुं यमः क्रुद्धो वज्रपाणिश्च देवराट्
वरुणः पाशभृच्चापि सगदो वा धनेश्वरः । न तु भीष्मः सुसंक्रुद्धः शक्यो जेतुं महाहवे
सोऽहमेवं गते कृष्ण निमग्नः शोकसागरे। आत्मनो बुद्धिदौर्बल्याद्भीष्ममासाद्य संयुगे
वनं यास्यामि दुर्धर्ष श्रेयो वै तत्र मे गतम् । न युद्धं रोचते कृष्ण हन्ति भीष्मो हि नः सदा
यथा प्रज्वलितं वह्निं पतङ्गः समभिद्रवन्। एकतो मृत्युमभ्येति तथाऽहं भीष्ममेयिवान्
क्षयं नीतोऽस्मि वार्ष्णेय राज्यहेतोः पराक्रमी । भ्रातरश्चैव मे शुराः सायकैर्भृशपीडिताः
मत्कृते भ्रातृसौहार्दाद्राज्यभ्रष्टा वनं गताः। परिक्लिष्टा तथा कृष्णा मत्कृते मधुसूदन
जीवितं बहु मन्येऽहं जीवितं ह्यद्य दुर्लभम्। जीवितस्याद्य शेषेण चरिष्ये धर्ममुत्तमम्
यदि तेऽहमनुग्राह्यो भ्रातृभिः स केशव । स्वधर्मस्याविरोधेन हितं व्याहर केशव
एवं श्रुत्वा वचस्तस्य कारुण्याद्बहुविस्तरम्। प्रत्युवाच ततः कृष्णः सान्त्वयानो युधिष्ठिरम्
धर्मपुत्र विषादं त्वं मा कृथाः सत्यसंगर । यस्य ते भ्रातरः शूरा दुर्जयाः सत्रुसूदनाः
अर्जुनो भीमसेनश्च वाय्वग्निसमतेजसौ। माद्रीपुत्रौ च विक्रान्तौ त्रिदशानामिविश्वरौ
मां वा नियुङ्क्ष्व सौहार्दाद्योत्स्ये भीष्मेण पाण्डव । त्वप्रयुक्तो महाराज किं न कुर्यां महाहवे