वीतशोकभयाबाधाः सुखस्वप्नप्रबोधाः। श्रिया भरतशार्दूल समपद्यन्त भूमिपाः
नियमैः सर्ववर्णानां ब्रह्मोत्तरमवर्तत। ब्राह्मणाभिमुखं क्षत्रं क्षत्रियाभिमुखा विशः
ब्रह्मक्षत्रानुकूलांश्च शूद्राः पर्यचरन्विशः। एवं पशुवराहाणां तथैव मृगपक्षिणाम्
शान्तनावथ राज्यस्थे नावर्तत वृथा वधः। असुखानामनाथानां तिर्यग्योनिषु वर्तताम्
स एव राजा सर्वेषां भूतानामभवत्पिता। स हस्तिनाम्नि धर्मात्मा विहरन्कुरुनन्दनः
तेजसा सूर्यकल्पोऽभूद्वायुना च समो बले। अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः
बभूव राजा सुमतिः प्रजानां सत्यविक्रमः। स वनेषु च रम्येषु शैलप्रस्रवणेषु च
चचार मृगयाशीलः शान्तनुर्वनगोचरः। स मृगान्महिषांश्चैव विनिघ्नन्राजसत्तमः
गङ्गामनु चचारैकः सिद्धचारणसेविताम्। स कदाचिन्महाराज ददर्श परमां स्त्रियम्
जाज्वल्यमानां वपुषा साक्षाच्छ्रियमिवापराम्। सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम्
सूक्ष्माम्बरधरामेकां पद्मोदरसमप्रभाम्। `स्नातगात्रां धौतवस्त्रां गङ्गातीररुहे वने
प्रकीर्णकेशीं पाणिभ्यां संस्पृशन्तीं शिरोरुहान्। रूपेण वयसा कान्त्या शरीरावयवैस्तथा
हावभावविलासैश्च लोचनाञ्चलविक्रियैः। श्रोणीभारेण मध्येन स्तनाभ्यामुरसा दृशा
कवरीभरेण पादाभ्यामिङ्गितेन स्मितेन च। कोकिलालापसंल्लापैर्न्यक्कुर्वन्तीं त्रिलोकगाम्
वाणीं च गिरिजां लक्ष्मीं योषितोन्याः सुराङ्गनाः। सा च शान्तनुमब्यागादलक्ष्मीमपकर्षती
तां दृष्ट्वा हृष्टरोमाऽभूद्विस्मितो रूपसंपदा। पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः
सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम्। स्नेहादागतसौहार्दा नातृप्यत विलासिनी
गङ्गा कामेन राजानं प्रेक्षमाणा विलासिनी। चञ्चूर्यताग्रतस्तस्य किन्नरीवाप्सरोपमा
दृष्ट्वा प्रहृष्टरूपोऽभूद्दर्शनादेव शान्तनुः। रूपेणातीत्य तिष्ठन्तीं सर्वा राजन्ययोषितः
तामुवाच ततो राजा सान्त्वयञ्श्लक्ष्णया गिरा। देवी वा दानवी वा त्वं गन्धर्वी चाथवाऽप्सराः
यक्षी वा पन्नगी वाऽपि मानुषी वा सुमध्यमे। `याऽसि काऽसि सुरप्रख्ये महिषी मे भवानघे
त्वां गता हि मम प्रामा वसु यन्मेऽस्ति किंचन।' याचे त्वां सुरगर्भाभे भार्या मे भव शोभने
एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च। यशस्विनी च साऽगच्छच्छान्तनोर्भूतये तदा
सा तु दृष्ट्वा नृपश्रेष्ठं चरन्तं तीरमाश्रितम्। वसूनां समयं स्मृत्वाऽथाभ्यगच्छदनिन्दिता
प्रजार्थिनी राजपुत्रं शान्तनुं पृथिवीपतिम्। प्रतीपवचनं चापि संस्मृत्यैव स्वयं नृपम्
कालोऽयमिति मत्वा सा वसूनां शापचोदिता। उवाच चैव राज्ञः सा ह्लादयन्ती मनो गिरा
भविष्यामि महीपाल महिषी ते वशानुगा। न तु त्वं वा द्वितीयो वा ज्ञातुमिच्छेत्कथंचन
यत्तु कुर्यामहं राजञ्शुभं वा यदि वाऽशुभम्। न तद्वारयितव्याऽस्मि न वक्तव्या तथाऽप्रियम्
एवं हि वर्तमानेऽहं त्वयि वत्स्यामि पार्थिव। वारिता विप्रियं चोक्ता त्यजेयं त्वामसंशयम्
एष मे समयो राजन्भज मां त्वं यथेप्सितम्। अनुनीताऽस्मि ते पित्रा भर्ता मे त्वं भव प्रभो