युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले । नामृष्यत महाबाहुर्माधवः परवीरहा
उत्सृज्य रजतप्रख्यान्हयान्पार्थस्य मारिष । वासुदेवस्ततो योगी प्रचस्कन्द महारथात्
अभिदुद्राव भीष्मं स भुजप्रहरणो बली। प्रतोदपाणिस्तेजस्वी सिंहवद्विनदन्मुहुः
दारयन्निव पद्भ्यां स जगतीं जगदीश्वरः । क्रोधताम्रेक्षणः कृष्णो जिघांसुरमितद्युतिः
ग्रसन्निव च तेजांसि तावकानां महाहवे । दृष्ट्वा माधवमाक्रन्दे भीष्मायोद्यतमन्तिके
हतो भीष्मो हतो भीष्म इति तत्रस्म सैनिकाः । क्रोशन्तः प्राद्रवन्सर्वे वासुदेवभयातुराः
पीतकौशेयसंवीतो मणिश्यामो जनार्दनः । शुशुभे विद्रवन्भीष्मं विद्युन्माली यथाम्बुदः
स सिंह इव मातङ्गं यथर्षभ इवर्षभम् । अभिदुद्राव वेगेन विनदन्यादवर्षभः
तमापतन्तं संप्रेक्ष्य पुण्डरीकाक्षमाहवे। असंभ्रमं रणे भीष्मो विचकर्ष महद्धनुः । उवाच चैव गोविन्दमसंभ्रान्तेन चेतसा
एह्येहि पुण्डरीकाक्ष देवदेव नमोस्तु ते । मामद्य सात्वतश्रेष्ठ तापयस्त महाहवे
त्वया हि देव संग्रामे हतस्यापि ममानघ । श्रेय एव परं कृष्ण लोके भवति सर्वतः
संभावितोऽस्मि गोविन्द त्रैलोक्येनाद्य संयुगे। प्रहरस्व यथेष्टं वै दासोऽस्मि तव चानघ
अन्वगेव ततः पार्थः समभिद्रुत्य केशवम् । निजग्राह महाबाहुर्बाहुभ्यां परिगृह्य वै
निगृह्यमाणः पार्थेन कृष्णो राजीवलोचनः । जगामैवैनमादाय वेगेन पुरुषोत्तमः
पार्थस्तु विष्टभ्य बलाच्चरणौ परवीरहा । निजग्राह हृषीकेशं कथंचिद्दशमे पदे
तत एवमुवाचार्तः क्रोधपर्याकुलेक्षणम् । निःश्वसन्तं यथा नागमर्जुनः प्रणयात्सखा
निवर्तस्व महाबाहो नानृतं कर्तुमर्हसि । यत्त्वया कथितं पूर्वं न योत्स्यामीति केशव
मिथ्यावादीति लोकास्त्वां कथयिष्यन्ति माधव । ममैष भारः सर्वो हि हनिष्यामि पितामहम्
शपे केशव शस्त्रेण सत्येन सुकृतेन च। अन्तं यथा गमिष्यामि शत्रूणां शत्रुसूदन
अद्यैव पश्य दुर्धर्षं पात्यमानं महारथम् । तारापतिमिवापूर्णमन्तकाले यदृच्छया
माधवस्तु वचः श्रुत्वा फल्गुनस्य महात्मनः। `अभवत्परमप्रीतो दृष्ट्वा पार्थस्य विक्रमम्'। न किंचिदुक्त्वा सक्रोध आरुरोह रथं पुनः
तौ रथस्थौ नरव्याघ्रौ भीष्मः शान्तनवः पुनः। ववर्ष शरवर्षेण मेघो वृष्ट्या यथाऽचलौ
प्राणानादत्त योधानां पिता देवव्रतस्तव। गभस्तिभिरिवादित्यस्तेजांसि शिशिरात्यये
यथा कुरूणां सैन्यानि बभञ्जुर्युधि पाण्डवाः । तथा पाण्डवसैन्यानि बभञ्ज युधि ते पिता
हतविद्रुतसैन्यास्तु निरुत्साहा विचेतसः । निरीक्षितुं न शेकुस्ते भीष्ममप्रतिमं रणे
मध्यं गतमिवादित्यं प्रतपन्तं स्वतेजसा । ते वध्यमाना भीष्मेण शतशोऽथ सहस्रशः
कुर्वाणं समरे कर्माण्यतिमानुषविक्रमम्। वीक्षांचक्रुर्महाराज पाण्डवा भयपीडिताः
तथा पाण्डवसैन्यानि द्राव्यमाणानि भारत। त्रातारं नाध्यगच्छन्त गावः पङ्कगता इव। पिपीलिका इव क्षुण्णा दुर्बला बलिना रणे
तथैव योधा राजेन्द्र भीष्मेणामित्रघातिना। समरे मृदिताः सर्वे पाण्डवाः सह सृञ्जयैः
महारथं भारत दुष्प्रकम्पं शरौघिणं प्रतपन्तं नरेन्द्रान्। भीष्मं न शेकुः प्रतिवीक्षितुं ते शरार्चिषं सूर्यमिवातपन्तम्