यत्पुरा कथितं वीर त्वया राज्ञां समागमे। विराटनगरे तात सञ्जयस्य समीपतः
भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् । सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति सङ्गरे
इति तत्कुरु कौन्तेय सत्यं वाक्यमरिन्दम। क्षत्रधर्ममनुस्मृत्य युध्यस्व विगतज्वरः
इत्युक्तो वासुदेवेन तिर्यग्दृष्टिरधोमुखः। अकाम इव बीभत्सुरिदं वचनमब्रवीत्
अवध्यानां वधं कृत्वा राज्यं वा नरकोत्तरम् । दुःखानि वनवासे वा किं नु मे सुकृतं भवेत्
चोदयाश्वान्यतो भीष्मः करिष्ये वचनं तव। पातयिष्यामि दुर्धर्षं भीष्मं कुरुपितामहम्
स चाश्वान्रजतप्रख्यांश्चोदयामास माधवः। यतो भीष्मस्ततो राजन्दुष्प्रेक्ष्यो रश्मिवानिव
ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत्। दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यतमाहवे
ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः । धनंजयरथं शीघ्रं शरवर्षैरवाकिरत्
क्षणेन स रथस्तस्य सहयः सहसारथिः । शरवर्षेण महता न प्राज्ञायत भारत
वासुदेवस्त्वसंभ्रान्तो धैर्यमास्थाय सत्वरः । चोदयामास तानश्वान्विनुन्नान्भीष्मसायकैः
ततः पार्थो धनुर्गृह्य दिव्यं जलदनिःस्वनम् । पातयामास भीष्मस्य धनुश्छित्त्वा शितैः शरैः
स च्छिन्नधन्वा कौरव्यः पुनरन्यन्महद्धनुः । निमेषान्तरमात्रेण सज्यं चक्रे पिता तव
चकर्ष च ततो दोर्भ्यां धनुर्जलदनिःस्वनम् । अथास्य तदपि क्रुद्धश्चिच्छेद धनुरर्जुनः । तस्य तत्पूजयामास लाघवं शन्तनोः सुतः
गाङ्गेयस्त्वब्रवीत्पार्थं धन्विश्रेष्ठमरिंदम। साधुसाधु महाबाहो साधु कुन्तीसुतेति च
समाभाष्यैवमपरं प्रगृह्य रुचिरं धनुः। मुमोच समरे भीष्मः शरान्पार्थरथं प्रति
अदर्शयद्वसुदेवो हययाने परं बलम्। मोघान्कुर्वञ्शरांस्तस्य मण्डलानि निदर्शयन्
शुशुभाते नरव्याघ्रौ तौ भीष्मशरविक्षतौ । गोवृषाविव संरब्धौ विषाणोल्लिखिताङ्कितौ
वासुदेवस्तु संप्रेक्ष्य पार्थस्य मृदुयुद्धताम् । भीष्मं च शरवर्षाणि सृजन्तमनिशं युधि
प्रतपन्तमिवादित्यं मध्यमासाद्य सेनयोः । वरान्वरान्विनिघ्नन्तं पाण्डुपुत्रस्य सैनिकान्
युगान्तमिव कुर्वाणं भीष्मं यौधिष्ठिरे बले । नामृष्यत महाबाहुर्माधवः परवीरहा
उत्सृज्य रजतप्रख्यान्हयान्पार्थस्य मारिष । वासुदेवस्ततो योगी प्रचस्कन्द महारथात्
अभिदुद्राव भीष्मं स भुजप्रहरणो बली। प्रतोदपाणिस्तेजस्वी सिंहवद्विनदन्मुहुः
दारयन्निव पद्भ्यां स जगतीं जगदीश्वरः । क्रोधताम्रेक्षणः कृष्णो जिघांसुरमितद्युतिः
ग्रसन्निव च तेजांसि तावकानां महाहवे । दृष्ट्वा माधवमाक्रन्दे भीष्मायोद्यतमन्तिके
हतो भीष्मो हतो भीष्म इति तत्रस्म सैनिकाः । क्रोशन्तः प्राद्रवन्सर्वे वासुदेवभयातुराः
पीतकौशेयसंवीतो मणिश्यामो जनार्दनः । शुशुभे विद्रवन्भीष्मं विद्युन्माली यथाम्बुदः
स सिंह इव मातङ्गं यथर्षभ इवर्षभम् । अभिदुद्राव वेगेन विनदन्यादवर्षभः
तमापतन्तं संप्रेक्ष्य पुण्डरीकाक्षमाहवे। असंभ्रमं रणे भीष्मो विचकर्ष महद्धनुः । उवाच चैव गोविन्दमसंभ्रान्तेन चेतसा
एह्येहि पुण्डरीकाक्ष देवदेव नमोस्तु ते । मामद्य सात्वतश्रेष्ठ तापयस्त महाहवे