अपातयद्ध्वजांश्चैव रथिनश्च शितैः शरैः । मुण्डतालवनानीव चकार स रथव्रजान्
निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे। अकरोत्स महाबाहुः सर्वशस्त्रभृतां वरः
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः। निशम्य सर्वभूतानि समकम्पन्त भारत
अमोघा ह्यपत्नबाणाः पितुस्ते भरतर्षभ। नासज्जन्त तनुत्रेषु भीष्मचापच्युताः शराः
हतवीरान्रथान्राजन्संयुक्ताञ्जवनैर्हयैः । अपश्याम महाराज ह्रियमाणान्रणाजिरे
चेदिकाशिकरूषाणां सहस्राणि चतुर्दश । महारथाः समाख्याताः कलपुत्रास्तनुत्यजः । अपरावर्तिनः सर्वे सुवर्णविकृतध्वजाः
संग्रामे भीष्ममासाद्य व्यादितास्यमिवान्तकम्। निमग्नाः परलोकाय सवाजिरथकुञ्जराः
भग्नाक्षोपस्करान्कांश्चिद्भग्नचक्रांश्च भारत। अपश्याम महाराज शतशोऽथ सहस्रशः
सवरूथै रथैर्भग्नै रथिभिश्च निपातितैः । शरैः सुकवचैश्छिन्नैः पट्टसैश्च विशांपते
गदाभिर्भिण्डिपालैश्च निशितैश्च शिलीमुखैः । अनुकर्षैरुपासङ्गैश्चक्रैर्भग्नैश्च मारिष
बाहुभिः कार्मुकैः खङ्गैः शिरोभिश्च सकुण्डलैः। तलत्रैरङ्गुलित्रैश्च ध्वजैश्च विनिपातितैः। चापैश्च बहुधा च्छिन्नैः समास्तीर्यत मेदिनी
गजारोहा गजान्राजन्हयांश्च हयसादिनः । अभिपेतुर्द्रुतं तत्र शतशोऽथ सहस्रशः
यतमानाश्च ते वीरा द्रवमाणान्महारथान्। नाशक्नुवन्वारयितुं भीष्मबाणप्रपीडितान्
महेन्द्रसमवीर्येण वध्यमाना महाचमूः । अभज्यत महाराज न च द्वौ समधावताम्
आविद्धरथनागाश्वं पतितध्वजसंकुलम् । अनीकं पाण्डुपुत्राणां हाहाभूतमचेतनम्
जघानात्र पिता पुत्रं पुत्रश्च पितरं तथ। प्रियं सखाय चाक्रन्दे सखा दैवबलात्कृतः
विमुच्य कवचानन्ये पाण्डुपुत्रस्य सैनिकाः । प्रकीर्य केशान्धावन्तः प्रत्यदृश्यन्त सर्वशः
तद्गोकुलमिवोद्भ्रान्तमुद्भान्तरथकूबरम् । ददृशे पाण्डुपुत्रस्य सैन्यमार्तस्वरं तदा
प्रभज्यमानं सैन्यं तु दृष्ट्वा यादवनन्दनः । उवाच पार्थं बीभत्सुं निगृह्य रथमुत्तमम्
अयं स कालः संप्राप्तः पार्थ यः काङ्क्षितस्तव। प्रहरास्मै नरव्याघ्र भीष्मायाहवशोभिने
यत्पुरा कथितं वीर त्वया राज्ञां समागमे। विराटनगरे तात सञ्जयस्य समीपतः
भीष्मद्रोणमुखान्सर्वान्धार्तराष्ट्रस्य सैनिकान् । सानुबन्धान्हनिष्यामि ये मां योत्स्यन्ति सङ्गरे
इति तत्कुरु कौन्तेय सत्यं वाक्यमरिन्दम। क्षत्रधर्ममनुस्मृत्य युध्यस्व विगतज्वरः
इत्युक्तो वासुदेवेन तिर्यग्दृष्टिरधोमुखः। अकाम इव बीभत्सुरिदं वचनमब्रवीत्
अवध्यानां वधं कृत्वा राज्यं वा नरकोत्तरम् । दुःखानि वनवासे वा किं नु मे सुकृतं भवेत्
चोदयाश्वान्यतो भीष्मः करिष्ये वचनं तव। पातयिष्यामि दुर्धर्षं भीष्मं कुरुपितामहम्
स चाश्वान्रजतप्रख्यांश्चोदयामास माधवः। यतो भीष्मस्ततो राजन्दुष्प्रेक्ष्यो रश्मिवानिव
ततस्तत्पुनरावृत्तं युधिष्ठिरबलं महत्। दृष्ट्वा पार्थं महाबाहुं भीष्मायोद्यतमाहवे
ततो भीष्मः कुरुश्रेष्ठः सिंहवद्विनदन्मुहुः । धनंजयरथं शीघ्रं शरवर्षैरवाकिरत्
क्षणेन स रथस्तस्य सहयः सहसारथिः । शरवर्षेण महता न प्राज्ञायत भारत