तदापतद्वै सहसा शल्यस्य सुमहद्बलम् । महौघवेगं समरे वारयामास पाण्डवः
मद्रराजं च समरे धर्मराजो महारथः। दशभिः सायकैस्तूर्णमाजघान स्तनान्तरे । नकुलः सहदेवश्च तं सप्तभिरजिह्नगैः
मद्रराजोऽपि तान्सर्वानाजघान त्रिभिस्त्रिभिः । युधिष्ठिरं पुनः षष्ट्या विव्याध निशितैः शरैः
माद्रीपुत्रौ च संभ्रान्तौ द्वाभ्यां द्वाभ्यामताडयत्। ततो भीमो महाबहुर्दृष्ट्वा राजनमाहवे
मद्रराजवशं प्राप्तं मृत्योरास्यगतं यथा। अभ्यपद्यत संग्रामे युधिष्ठिरममित्रजित्
आपतन्नेव भीमस्तु मद्रराजमताडयत्।' सर्वपारशवैस्तीक्ष्णैर्नाराचैर्मर्मभेदिभिः
ततो भीष्मश्च द्रोणश्च सैन्येन महता वृतौ। राजानमभ्यपद्येतामञ्जसा शरवर्षिणौ
ततो युद्धं महाघोरं प्रावर्तत सुदारुणम्। अपरां दिशमास्थाय द्योतमाने दिवाकरे
ततः पिता तव क्रुद्धो निशितैः सायकोत्तमैः। आजघान रणे पार्थान्सहसेनान्समन्ततः
भीमं द्वादशभिर्विद्ध्वा सात्यकिं नवभिः शरैः । नकुलं च त्रिभिर्विद्ध्वा सहदेवं च सप्तभिः
युधिष्ठिरं द्वादशभिर्बाह्वोरुरसि चार्पयत्। धृष्टद्युम्नं ततो विद्ध्वा ननाद सुमहाबलः
तं द्वादशाख्यैर्नकुलो माधवश्च त्रिभिः शरैः । धृष्टद्युम्नश्च सप्तत्या भीमसेनश्च सप्तभिः । युधिष्ठिरो द्वादशभिः प्रत्यविध्यत्पितामहम्
द्रोणस्तु सात्यकिं विद्ध्वा भीमसेनमविध्यत । एकैकं पञ्चभिर्बाणैर्यमदण्डोपमैः शितैः
तौ च तं प्रत्यविध्येतां त्रिभिस्त्रिभिरजिह्मगैः । तोत्रैरिव महानागं द्रोणं ब्राह्मणपुङ्गवम्
सौवीरा कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः । अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः। संग्रमे नाजहुर्भीष्मं वध्यमानाः शितैः शरैः
तथैवान्ये महीपाला नानादेशसमागताः । पाण्डवानभ्यवर्तन्त विविधायुधपाणयः । तथैव पाण्डवा राजन्परिवव्रुः पितामहम्
स समन्तात्परिवृतो रथौघैरपराजितः । गहनेऽग्निरिवोत्सृष्टः प्रजज्वाल दहन्परान्
रथाग्न्यगारश्चापार्चिरसिशक्तिगजेन्धनः । शरस्फुलिङ्गो भीष्माग्निर्ददाह क्षत्रियर्षभान्
यथा हि सुमहानग्निः कक्षे चरसि सानिलः ।' तथा भीष्मो महाराज दिव्यमस्त्रमुदीरयन्
सुवर्णपुङ्खैरिषुभिर्गार्ध्रपक्षैः सुतेजनैः । कर्णिनालीकनाराचैश्छादयामास तद्बलम्
अपातयद्ध्वजांश्चैव रथिनश्च शितैः शरैः । मुण्डतालवनानीव चकार स रथव्रजान्
निर्मनुष्यान्रथान्राजन्गजानश्वांश्च संयुगे। अकरोत्स महाबाहुः सर्वशस्त्रभृतां वरः
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः। निशम्य सर्वभूतानि समकम्पन्त भारत
अमोघा ह्यपत्नबाणाः पितुस्ते भरतर्षभ। नासज्जन्त तनुत्रेषु भीष्मचापच्युताः शराः
हतवीरान्रथान्राजन्संयुक्ताञ्जवनैर्हयैः । अपश्याम महाराज ह्रियमाणान्रणाजिरे
चेदिकाशिकरूषाणां सहस्राणि चतुर्दश । महारथाः समाख्याताः कलपुत्रास्तनुत्यजः । अपरावर्तिनः सर्वे सुवर्णविकृतध्वजाः
संग्रामे भीष्ममासाद्य व्यादितास्यमिवान्तकम्। निमग्नाः परलोकाय सवाजिरथकुञ्जराः
भग्नाक्षोपस्करान्कांश्चिद्भग्नचक्रांश्च भारत। अपश्याम महाराज शतशोऽथ सहस्रशः
सवरूथै रथैर्भग्नै रथिभिश्च निपातितैः । शरैः सुकवचैश्छिन्नैः पट्टसैश्च विशांपते
गदाभिर्भिण्डिपालैश्च निशितैश्च शिलीमुखैः । अनुकर्षैरुपासङ्गैश्चक्रैर्भग्नैश्च मारिष