ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् । पाण्डवानां कुरूणां च समरे विजयैषिणाम्
दृष्ट्वा भीष्मं रणे युद्धं पाण्डवैरभिसंवृतम्। यथा मेघैर्महाराज तपान्ते दिवि भास्करम्
दुर्योधनो महाराज दुःशासनमभाषत। एष शूरो महेष्वासो भीष्मः शूरनिषूदनः
छादितः पाण्डवैः शूरैः समन्ताद्भरतर्षभ । तस्य कार्यं त्वया वीर रक्षणं सुमहात्मनः
रक्ष्यमाणो हि समरे भीष्मोऽस्माकं पितामहः । निहन्यात्समरे यत्तान्पाञ्चालान्पाण्डवैः सह
तत्र कार्यतमं मन्ये भीष्मस्यैवाभिरक्षणम् । गोप्ता ह्येष महेष्वासो भीष्मोऽस्माकं महाव्रतः
स भवान्सर्वसैन्येन परिवार्य पितामहम् । समरे कर्म कुर्वाणं दुष्करं परिरक्षतु
स एवमुक्तः समरे पुत्रो दुःशासनस्तव। परिवार्य स्थितो भीष्मं सैन्येन महता वृतः
ततः शतसहस्राणां हयानां सुबलात्मजः । विमलप्रासहस्तानामृष्टितोमरधारिणाम्
दर्पितानां सुवेगानां बलस्थानां पताकिनाम् । शिक्षितैर्युद्धकुशलैरुपेतानां नरोत्तमैः
नकुलं सहदेवं च धर्मराजं च पाण्डवम् । न्यवारयन्नरश्रेष्ठान्परिवार्य समन्ततः
ततो दुर्योधनो राजा शूराणां हयसादिनाम् । अयुतं प्रेषयामास पाण्डवानां निवारणे
तैः प्रविष्टैर्महावेगैर्गरुत्मद्भिरिवाहवे। खुराहता धरा राजंश्चकम्पे च ननाद च
खुरशब्दश्च सुमहान्वाजिनां शुश्रुवे तदा। महावंशवनस्येव दह्यमानस्य पर्वते
उत्पतद्भिश्च तैस्तत्र समुद्धूतं महद्रजः। दिवाकररथं प्राप्य च्छादयामास भास्करम्
वेगवद्भिर्हयैस्तैस्तु क्षोभिता पाण्डवीक चमूः। निपतद्भिर्महावेगैर्हंसैरिव महत्सरः
हेषतां चैव शब्देन न प्राज्ञायत किंचन । `अन्तर्दधे महाञ्शब्दस्तेन शब्देन मोहितः
ततो युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ। प्रत्यघ्नंस्तरसा वेगं समरे हयसादिनाम्
उद्वृत्तस्य महाराज प्रावृट्कालेऽतिपूर्यतः। पौर्णमास्यामम्बुवेगं यथा वेला महोदधेः
ततस्ते रथिनो राजञ्शरैः सन्नतपर्वभिः। न्यकृन्तन्नुत्तमाङ्गानि शरेण हयसादिनाम्
ते निपेतुर्महाराज निहता दृढधन्विभिः । नागैरिव महानागा यथावद्गिरिगह्वरे
तेऽपि प्रासैः सुनिशितैः शरैः सन्नतपर्वभिः । न्यकृन्तन्नुत्तमाङ्गानि विचरन्तो दिशो दश
अभ्याहता हयारोहा ऋष्टिभिर्भरतर्षभ । अत्यजन्नुत्तमाङ्गानि फलानीव महाद्रुमाः
समादिनो हया राजंस्तत्रतत्र निषूदिताः। पतिताः पात्यमानाश्च प्रत्यदृश्यन्त सर्वशः
वध्यमाना हयाश्चैव प्राद्रवन्त भयार्दिताः। यथा सिंहं समासाद्य मृगाः प्राणपरायणाः
पाण्डवाश्च महाराज जित्वा शत्रून्महामृधे । दध्मुः शङ्खांश्च भेरीश्च ताडयामासुराहवे
ततो दुर्योधनो दीनो दृष्ट्वा सैन्यं पराजितम् । अब्रवीद्रतश्रेष्ठ मद्रराजमिदं वचः
एष पाण्डुसुतो ज्येष्ठो यमाभ्यां सहितो रणे । पश्यतां वो महाबाहो सेनां द्रावयति प्रभो
तं वारय महाबाहो वेलेव मकरालयम् । त्वं हि संश्रूयसेऽत्यर्थमसह्यबलविक्रमः
पुत्रस्य तव तद्वाक्यं श्रुत्वा शल्यः प्रतापवान्। स ययौ रथवंशेन यत्र राजा युधिष्ठिरः