कामयानाऽभिरूपाढ्या दिव्यस्त्री पुत्रकाम्यया। सा त्वया नानुयोक्तव्या कासि कस्यासि चाङ्गने
यच्च कुर्यान्न तत्कर्म सा प्रष्टव्या त्वयाऽनघ। सन्नियोगाद्भजन्तीं तां भजेथा इत्युवाच तम्
एवं संदिश्य तनयं प्रतीपः शान्तनुं तदा। स्वे च राज्येऽभिषिच्यैनं वनं राजा विवेश ह
स राजा शान्तनुर्धीमान्देवराजसमद्युतिः। `बभूव सर्वलोकस्य सत्यवागिति संमतः
पीनस्कन्धो महाबाहुर्मत्तवारणविक्रमः। अन्वितः परिपूर्णार्थैः सर्वैर्नृपतिलक्षणैः
अमात्यलक्षणोपेतः क्षत्रधर्मविशेषवित्। वशे चक्रे महीमेको विजित्य वसुधाधिपान्
वेदानागमयत्कृत्स्नान्राजधर्मांश्च सर्वशः। ईजे च बहुभिः सत्रैः क्रतुभिर्भूरिदक्षिणैः
तर्पयामास विप्रांश्च वेदाध्ययनकोविदान्। रत्नैरुच्चावचैर्गोभिर्ग्रामैरश्वैर्धनैरपि
वयोरूपेण संपन्नः पौरुषेण बलेन च। ऐश्वर्येण प्रतापेन विक्रमेण धनेन च
वर्तमानश्च सत्येन सर्वधर्मविशारदः। तं महीपं महीपाला राजराजमकुर्वत
वीतशोकभयाबाधाः सुखस्वप्नप्रबोधाः। श्रिया भरतशार्दूल समपद्यन्त भूमिपाः
नियमैः सर्ववर्णानां ब्रह्मोत्तरमवर्तत। ब्राह्मणाभिमुखं क्षत्रं क्षत्रियाभिमुखा विशः
ब्रह्मक्षत्रानुकूलांश्च शूद्राः पर्यचरन्विशः। एवं पशुवराहाणां तथैव मृगपक्षिणाम्
शान्तनावथ राज्यस्थे नावर्तत वृथा वधः। असुखानामनाथानां तिर्यग्योनिषु वर्तताम्
स एव राजा सर्वेषां भूतानामभवत्पिता। स हस्तिनाम्नि धर्मात्मा विहरन्कुरुनन्दनः
तेजसा सूर्यकल्पोऽभूद्वायुना च समो बले। अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः
बभूव राजा सुमतिः प्रजानां सत्यविक्रमः। स वनेषु च रम्येषु शैलप्रस्रवणेषु च
चचार मृगयाशीलः शान्तनुर्वनगोचरः। स मृगान्महिषांश्चैव विनिघ्नन्राजसत्तमः
गङ्गामनु चचारैकः सिद्धचारणसेविताम्। स कदाचिन्महाराज ददर्श परमां स्त्रियम्
जाज्वल्यमानां वपुषा साक्षाच्छ्रियमिवापराम्। सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम्
सूक्ष्माम्बरधरामेकां पद्मोदरसमप्रभाम्। `स्नातगात्रां धौतवस्त्रां गङ्गातीररुहे वने
प्रकीर्णकेशीं पाणिभ्यां संस्पृशन्तीं शिरोरुहान्। रूपेण वयसा कान्त्या शरीरावयवैस्तथा
हावभावविलासैश्च लोचनाञ्चलविक्रियैः। श्रोणीभारेण मध्येन स्तनाभ्यामुरसा दृशा
कवरीभरेण पादाभ्यामिङ्गितेन स्मितेन च। कोकिलालापसंल्लापैर्न्यक्कुर्वन्तीं त्रिलोकगाम्
वाणीं च गिरिजां लक्ष्मीं योषितोन्याः सुराङ्गनाः। सा च शान्तनुमब्यागादलक्ष्मीमपकर्षती
तां दृष्ट्वा हृष्टरोमाऽभूद्विस्मितो रूपसंपदा। पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः
सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम्। स्नेहादागतसौहार्दा नातृप्यत विलासिनी
गङ्गा कामेन राजानं प्रेक्षमाणा विलासिनी। चञ्चूर्यताग्रतस्तस्य किन्नरीवाप्सरोपमा
दृष्ट्वा प्रहृष्टरूपोऽभूद्दर्शनादेव शान्तनुः। रूपेणातीत्य तिष्ठन्तीं सर्वा राजन्ययोषितः
तामुवाच ततो राजा सान्त्वयञ्श्लक्ष्णया गिरा। देवी वा दानवी वा त्वं गन्धर्वी चाथवाऽप्सराः