सात्यकिः कृतवर्माणं वारयित्वा महारणे । शरैर्बहुविधै राजन्नाससाद पितामहम्
स विद्ध्वा भारतं षष्ट्या निशितै रोमवाहिभिः। नृत्यन्निव रथोपस्थे विधुन्वानो महद्धनुः
तस्यायसीं महाशक्तिं चिक्षेपाथ पितामहः । हेमचित्रां महावेगां नागकन्योपमां शुभाम्
तामापतन्तीं सहसा मृत्युकल्पां सुदुर्जयाम्। व्यंसयामास वार्ष्णेयो लाघवेन महायशाः
अनासाद्य तु वार्ष्णेयं शक्तिः परमदारुणा । न्यपतद्धरणीपृष्ठे महोल्केव महाप्रभा
वार्ष्णेयस्तु ततो राजन्स्वां शक्तिं कनकप्रभाम् । वेगवद्गृह्य चिक्षेप पितामहरथं प्रति
वार्ष्णेयभुजवेगेन प्रणुन्ना सा महाहवे । अभिदुद्राव वेगेन कालरात्रिर्यथा नरम्
तामापतन्तीं सहसा द्विधा चिच्छेद भारतः । क्षुरप्राभ्यां सुतीक्ष्णाभ्यांसा व्यशीर्यत मेदिनीम्
छित्त्वा शक्तिं तु गाङ्गयः सात्यकिं नवभिः शरैः । आजघानोरसि क्रुद्धः प्रहसञ्छत्रुकर्शनः
ततः सरथनागाश्वाः पाण्डवाः पाण्डुपूर्वज। परिवब्रू रणे भीष्मं माधवत्राणकारणात्
ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् । पाण्डवानां कुरूणां च समरे विजयैषिणाम्
दृष्ट्वा भीष्मं रणे युद्धं पाण्डवैरभिसंवृतम्। यथा मेघैर्महाराज तपान्ते दिवि भास्करम्
दुर्योधनो महाराज दुःशासनमभाषत। एष शूरो महेष्वासो भीष्मः शूरनिषूदनः
छादितः पाण्डवैः शूरैः समन्ताद्भरतर्षभ । तस्य कार्यं त्वया वीर रक्षणं सुमहात्मनः
रक्ष्यमाणो हि समरे भीष्मोऽस्माकं पितामहः । निहन्यात्समरे यत्तान्पाञ्चालान्पाण्डवैः सह
तत्र कार्यतमं मन्ये भीष्मस्यैवाभिरक्षणम् । गोप्ता ह्येष महेष्वासो भीष्मोऽस्माकं महाव्रतः
स भवान्सर्वसैन्येन परिवार्य पितामहम् । समरे कर्म कुर्वाणं दुष्करं परिरक्षतु
स एवमुक्तः समरे पुत्रो दुःशासनस्तव। परिवार्य स्थितो भीष्मं सैन्येन महता वृतः
ततः शतसहस्राणां हयानां सुबलात्मजः । विमलप्रासहस्तानामृष्टितोमरधारिणाम्
दर्पितानां सुवेगानां बलस्थानां पताकिनाम् । शिक्षितैर्युद्धकुशलैरुपेतानां नरोत्तमैः
नकुलं सहदेवं च धर्मराजं च पाण्डवम् । न्यवारयन्नरश्रेष्ठान्परिवार्य समन्ततः
ततो दुर्योधनो राजा शूराणां हयसादिनाम् । अयुतं प्रेषयामास पाण्डवानां निवारणे
तैः प्रविष्टैर्महावेगैर्गरुत्मद्भिरिवाहवे। खुराहता धरा राजंश्चकम्पे च ननाद च
खुरशब्दश्च सुमहान्वाजिनां शुश्रुवे तदा। महावंशवनस्येव दह्यमानस्य पर्वते
उत्पतद्भिश्च तैस्तत्र समुद्धूतं महद्रजः। दिवाकररथं प्राप्य च्छादयामास भास्करम्
वेगवद्भिर्हयैस्तैस्तु क्षोभिता पाण्डवीक चमूः। निपतद्भिर्महावेगैर्हंसैरिव महत्सरः
हेषतां चैव शब्देन न प्राज्ञायत किंचन । `अन्तर्दधे महाञ्शब्दस्तेन शब्देन मोहितः
ततो युधिष्ठिरो राजा माद्रीपुत्रौ च पाण्डवौ। प्रत्यघ्नंस्तरसा वेगं समरे हयसादिनाम्
उद्वृत्तस्य महाराज प्रावृट्कालेऽतिपूर्यतः। पौर्णमास्यामम्बुवेगं यथा वेला महोदधेः
ततस्ते रथिनो राजञ्शरैः सन्नतपर्वभिः। न्यकृन्तन्नुत्तमाङ्गानि शरेण हयसादिनाम्