यत्पुरा न निगृह्णासि वार्यमाणो महात्मभिः । वैचित्रवीर्य तस्येदं फलं पश्य सुदारुणम्
न हि पाण्डुसुता राजन्ससैन्याः सपदानुगाः । रक्षन्ति समरे प्राणान्कौरवा वापि संयुगे
एतस्मात्कारणाद्धोरो वर्तते स्वजनक्षयः । दैवाद्वा पुरुषव्याघ्र तव चापनयान्नृप
अर्जुनस्तान्नरव्याघ्रः सुशर्मानुचरान्नृपान् । अनयत्प्रेतराजस्य सदनं सायकैः शितैः
सुशर्मापि ततो बाणैः पार्थं विव्याध संयुगे। वासुदेवं च सप्तत्या पार्थं च नवभिः पुनः
तं निवार्य शरौघेण सक्रुसूनुर्महारथः । सुशर्मणो रणे योधान्प्राहिणोद्यमसादनम्
ते वध्यमानाः पार्थेन कालेनेव युगक्षये। व्यद्रवन्त रणे राजन्भये जाते महारथाः
उत्सृज्य तुरगान्केचिद्रथान्केचिच्च मारिष। गजानन्ये समुत्सृज्य प्राद्रवन्त दिशो दश
अपरे तु तदादाय वाजिनागरथान्रणे । त्वरया परया युक्ताः प्राद्रवन्त विशांपते
पादाताश्चापि शस्त्राणि समुत्सृज्य महारणे । निरपेक्षा व्यधावन्त तेनतेन स्म भारत
वार्यमाणाः सुबहुशस्त्रैगर्तेन सुशर्मणा । तथान्यैः पार्थिवश्रेष्ठैर्न व्यतिष्ठन्त संयुगे
तद्बलं प्रद्रुतं दृष्ट्वा पुत्रो दुर्योधनस्तव। पुरस्कृत्य रणे भीष्मं सर्वसैन्यपुरस्कृतः
सर्वोद्योगेन महता धनञ्जयमुपाद्रवत् । त्रिगर्ताधिपतेरर्थे जीवितस्य विशांपते
स एकः समरे तस्थौ किरन्बहुविधाञ्शरान्। भ्रातृभिः सहितः सर्वैः शेषा हि प्रद्रुता नराः
तथैव पाण्डवा राजन्सर्वोद्योगेन दंशिताः। प्रययुः फल्गुनार्थाय यत्र भीष्मो व्यतिष्ठत
ज्ञायमाना रणे वीर्यं घोरं गाण्डीवधन्वनः। हाहाकारकृतोत्साहा भीष्मं जग्मुः समन्ततः
ततस्तालध्वजः शूरः पाण्डवानां वरूथिनीम्। छादयामास समरे शरैः सन्नतपर्वभिः
एकीभूतास्ततः सर्वे कुरवः सह पाण्डवैः । अयुध्यन्त महाराज मध्यं प्राप्ते दिवाकरे
सात्यकिः कृतवर्माणं विद्ध्वा पञ्चभिराशुगैः । अतिष्ठदाहवे शूरः किरन्बाणान्सहस्रशः
तथैव द्रुपदो राजा द्रोणं विद्ध्वा शितैः शरैः । पुनर्विव्याध सप्तत्या सारथिं चास्य पञ्चभिः
भीमसेनस्तु राजानं बाह्लीकं प्रपितामहम् । विद्ध्वा नदन्महानादं शार्दूल इव कानने
आर्जुनिश्चित्रसेनेन विद्धो बहुभिरशुगैः । अतिष्ठदाहवे शूरः किरन्बाणान्सहस्रशः। चित्रसेनं त्रिभिर्बाणैर्विव्याध समरे भृशम्
समागतौ तौ तु रणे महामात्रौ व्यरोचताम्। यथा दिवि महाघोरौ राजन्बुधशनैश्चरौ
तस्याश्वांश्चतुरो हत्वा सूतं च नवभिः शरैः। ननाद बलवान्नादं सौभद्रः परवीरहा
हताश्वात्तु रथात्तूर्णं सोऽवप्लुत्य महारथः । आरुरोह रथं तूर्णं दुर्मुखस्य विशांपते
द्रोणश्च द्रुपदं भित्त्वा शरैः सन्नतपर्वभिः। सारथिं चास्य विव्याध त्वरमाणः पराक्रमी
पीड्यमानस्ततो राजा द्रुपदो वाहिनीमुखे। अपायाज्जवनैरश्वैः पूर्ववैरमनुस्मरन्
भीमसेनस्तु राजानं मुहूर्तादिव बाह्लिकम् । व्यश्वसूतरथं चक्रे सर्वसैन्यस्य पश्यतः
ससंभ्रमो महाराज संशयं परमं गतः
अवप्लुत्य ततो वाहाद्बाह्लीकः पुरुषोत्तमः। आरुरह रथं तूर्णं लक्ष्मणस्य महारणे