शीर्षोपलसमाकीर्णा हस्तिग्राहसमाकुला । कवचोष्णीषफेनौघा धनुर्वेगासिकच्छपा
शङ्खनक्रौघसंकीर्णा छत्रकूर्मरथोडुपा।' पताकाध्वजवृक्षाढ्या मर्त्यकूलापहारिणी । क्रव्यादहंससंकीर्णा यमराष्ट्रविवर्धनी
तां नदीं क्षत्रियाः शूरा रथनागहयप्लवैः । प्रतेरुर्बहवो राजन्भयं त्यक्त्वा महारथाः
अपोवाह रणे भीरून्कश्मलेनाभिसंवृतान्। यथा वैतरणी प्रेतान्प्रेतराजपुरं प्रति
प्राक्रोशन्क्षत्रियास्तत्र दृष्ट्वा तद्वैशसं महत्। दुर्योधनापराधेन गच्छन्ति क्षत्रियाः क्षयम्
गुणवत्सु कथं द्वेषं धृतराष्ट्रो जनेश्वरः । कृतवान्पाण्डुपुत्रेषु पापात्मा लोभमोहितः
एवं बहुविधा वाचः श्रूयन्ते स्म परस्परम् । पाण्डवस्तवसंयुक्ताः पुत्राणां ते सुदारुणाः
ता निशम्य ततो वाचः सर्वयोधैरुदाहृताः। आगस्कृत्सर्वलोकस्य पुत्रो दुर्योधनस्तव
भीष्मं द्रोणं कृपं चैव शल्यं चोवाच भारत। युध्यध्वमनहंकराः किं चिरं कुरुथेति च
इति दुर्योधनोत्सृष्टाः सर्वे युयुधिरे नृपाः' ततः प्रववृते युद्धं कुरूणां पाण्डवैः सह। अक्षद्यूतकृतं राजन्सुघोरं वैशसं तदा
यत्पुरा न निगृह्णासि वार्यमाणो महात्मभिः । वैचित्रवीर्य तस्येदं फलं पश्य सुदारुणम्
न हि पाण्डुसुता राजन्ससैन्याः सपदानुगाः । रक्षन्ति समरे प्राणान्कौरवा वापि संयुगे
एतस्मात्कारणाद्धोरो वर्तते स्वजनक्षयः । दैवाद्वा पुरुषव्याघ्र तव चापनयान्नृप
अर्जुनस्तान्नरव्याघ्रः सुशर्मानुचरान्नृपान् । अनयत्प्रेतराजस्य सदनं सायकैः शितैः
सुशर्मापि ततो बाणैः पार्थं विव्याध संयुगे। वासुदेवं च सप्तत्या पार्थं च नवभिः पुनः
तं निवार्य शरौघेण सक्रुसूनुर्महारथः । सुशर्मणो रणे योधान्प्राहिणोद्यमसादनम्
ते वध्यमानाः पार्थेन कालेनेव युगक्षये। व्यद्रवन्त रणे राजन्भये जाते महारथाः
उत्सृज्य तुरगान्केचिद्रथान्केचिच्च मारिष। गजानन्ये समुत्सृज्य प्राद्रवन्त दिशो दश
अपरे तु तदादाय वाजिनागरथान्रणे । त्वरया परया युक्ताः प्राद्रवन्त विशांपते
पादाताश्चापि शस्त्राणि समुत्सृज्य महारणे । निरपेक्षा व्यधावन्त तेनतेन स्म भारत
वार्यमाणाः सुबहुशस्त्रैगर्तेन सुशर्मणा । तथान्यैः पार्थिवश्रेष्ठैर्न व्यतिष्ठन्त संयुगे
तद्बलं प्रद्रुतं दृष्ट्वा पुत्रो दुर्योधनस्तव। पुरस्कृत्य रणे भीष्मं सर्वसैन्यपुरस्कृतः
सर्वोद्योगेन महता धनञ्जयमुपाद्रवत् । त्रिगर्ताधिपतेरर्थे जीवितस्य विशांपते
स एकः समरे तस्थौ किरन्बहुविधाञ्शरान्। भ्रातृभिः सहितः सर्वैः शेषा हि प्रद्रुता नराः
तथैव पाण्डवा राजन्सर्वोद्योगेन दंशिताः। प्रययुः फल्गुनार्थाय यत्र भीष्मो व्यतिष्ठत
ज्ञायमाना रणे वीर्यं घोरं गाण्डीवधन्वनः। हाहाकारकृतोत्साहा भीष्मं जग्मुः समन्ततः
ततस्तालध्वजः शूरः पाण्डवानां वरूथिनीम्। छादयामास समरे शरैः सन्नतपर्वभिः
एकीभूतास्ततः सर्वे कुरवः सह पाण्डवैः । अयुध्यन्त महाराज मध्यं प्राप्ते दिवाकरे
सात्यकिः कृतवर्माणं विद्ध्वा पञ्चभिराशुगैः । अतिष्ठदाहवे शूरः किरन्बाणान्सहस्रशः
तथैव द्रुपदो राजा द्रोणं विद्ध्वा शितैः शरैः । पुनर्विव्याध सप्तत्या सारथिं चास्य पञ्चभिः