धृष्टद्युम्नं ततो विद्ध्वा विराटं च शरैस्त्रिभिः । द्रुपदस्य च नाराचं प्रेषयामास भारत
तेन विद्धा महेष्वासा भीष्मेणामित्रकर्शिना । चुक्रुधुः समरे राजन्पादस्पृष्टा इवोरगाः
शिखण्डी तं च विव्याध भरतानां पितामहम् । स्त्रीमयं मनसा ध्यात्वा नास्मै प्राहरदच्युतः
धृष्टद्युम्नस्तु समरे क्रोधेनाग्निरिव ज्वलन् । पितामहं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत्
द्रुपदः पञ्चविंशत्या विराटो दशमिः शरैः। शिखण्डी पञ्चविंशत्या भीष्मं विव्याध सायकैः
सोऽतिविद्धो महाराज शोणितौघपरिप्लुतः। वसन्ते पुष्पशबलो रक्ताशोक इवाबभौ
तान्प्रत्यविध्यद्गाङ्गेयस्त्रिभिस्त्रिभिरजिह्मगैः । द्रुपदस्य च भल्लेन धनुश्चिच्छेद मारिष
सोऽन्यत्कार्मुकमादाय भीष्मं विव्याध पञ्चभिः । सारथिं च त्रिभिर्बाणैः सुशितै रणमूर्धनि
तथा भीमो महाराज द्रौपद्याः पञ्च चात्मजाः । केकया भ्रातरः पञ्च सात्यकिश्चैव सात्वतः
अभ्यद्रवन्त गाङ्गेयं युधिष्ठिरसमाज्ञया । प्रति रक्षणकार्यार्थं धृष्टद्युम्नमुखान्रणे
तथैव तावकाः सर्वे भीष्मरक्षार्थमुद्यताः । प्रत्युद्ययुः पाण्डुसेनां सहसैन्या नराधिप
तत्रासीत्सुमहद्युद्धं तव तेषां च संकुलम् । नराश्वरथनागानां यमराष्ट्रविवर्धनम्
रथी रथिनमासाद्य प्राहिणोद्यमसादनम्। तथेतरान्समासाद्य नरनागाश्वसादिनः
अनयन्परलोकाय शरैः सन्नतपर्वभिः । शरैश्च विविधैर्घोरैस्तत्रतत्र विशांपते
रथास्तु रथिभिर्हीना हतसारथयस्तथा । विप्रद्रुताश्वाः समरे दिशो जग्मुः समन्ततः
मृद्गन्तस्ते नरान्राजन्हयांश्च सुबहून्रणे। वातायमाना दृश्यन्ते गन्धर्वनगरोपमाः
रथिनश्च रथैर्हीना वर्मिणस्तेजसा युताः। कुण्डलोष्णीषिणः सर्वे निष्काङ्गदविभूषणाः
देवपुत्रसमाः सर्वे शौर्ये शक्रसमा युधि। ऋद्ध्या वैश्रवणां चाति नयेन च बृहस्पतिम्
सर्वलोकेश्वराः शूरास्तत्रतत्र विशांपते। विप्रद्रुता व्यदृश्यन्त प्राकृता इव मानवाः
दन्तिनश्च नरश्रेष्ठ हीनाः परमसादिभिः । मृद्गन्तः स्वान्यनीकानि निपेतुः सर्वशब्दगाः
चर्मभिश्चामरैश्चित्रैः पताकाभिश्च मारिष । छत्रैः सितैर्हेमदण्डैश्चामरैश्च समन्ततः
विशीर्णैर्विप्रधावन्तो दृश्यन्ते स्म दिशो दश। नवमेघप्रतीकाशा जलदोपमनिःस्वनाः
तथैव दन्तिभिर्हीना गजारोहा विशांपते। प्रधावन्तोऽन्वदृश्यन्त तव तेषां च संकुले
नानादेशसमुत्थांश्च तुरगान्हेमभीषितान् । वातायमानानद्राक्षं शतशोऽथ सहस्रशः
अश्वारोहान्हतैरश्वैर्गृहीतासन्समन्ततः । द्रवमाणानपश्याम द्राव्यमाणांश्च संयुगे
गजो गजं समासाद्य द्रवमाणं महाहवे । ययौ प्रमृद्य तरसा पादातान्वाजिनस्तथा । तथैव च रथान्राजन्प्रममर्द रणे गजः
रथाश्चैव समासाद्य पतितांस्तुरगान्भुवि। व्यमृद्गन्समरे राजंस्तुरगांश्च नरान्रमे
एवं ते बहुधा राजन्प्रत्यमृद्गन्परस्परम्। `दृश्यन्तेस्म महाबाहो तत्रतत्र महाबलाः
तस्मिन्रौद्रे तथा युद्धे वर्तमाने महाभये। प्रावर्तत नदी घोरा शोमितान्त्रतरङ्गिणी
अस्थिसङ्घातसंबाधा केशशैवलाद्वला । रथह्रदा शरावर्ता हयमीना दुरासदा