तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन। `प्रतीपस्य तु भार्यायां गर्भः श्रीमानवर्धत
श्रिया परमया युक्तः शरच्छुक्ले यथा शशी। ततस्तु दशमे मासि प्राजायत रविप्रभम्
कुमारं देवगर्भाभं प्रतीपमहिषी तदा।' तयोः समभवत्पुत्रो वृद्धयोः स महाभिषक्
शान्तस्य जज्ञे सन्तानस्तस्मादासीत्स शान्तनुः। `तस्य जातस्य कृत्यानि प्रतीपोऽकारयत्प्रभुः
जातकर्मादि विप्रेण वेदोक्तैः कर्मभिस्तदा। नामकर्म च विप्रास्तु चक्रुः परमसत्कृतम्
शान्तनोरवनीपाल वेदोक्तैः कर्मभिस्तदा। ततः संवर्धितो राजा शान्तनुर्लोकधार्मिकः
स तु लेभे परां निष्ठां प्राप्य धर्मभृतां वरः। धनुर्वेदे च वेदे च गतिं स परमा गतः
यौवनं चापि संप्राप्तः कुमारो वदतां वरः।' संस्मरंश्चाक्षयाँल्लोकान्विजातान्स्वेन कर्मणा
पुण्यकर्मकृदेवासीच्छान्तनुः कुरुसत्तमः। प्रतीपः शान्तनुं पुत्रं यौवनस्थं ततोऽन्वशात्
पुरा स्त्री मां समभ्यागाच्छान्तनो भूतये तव। त्वामाव्रजेद्यदि रहः सा पुत्र वरवर्णिनी
कामयानाऽभिरूपाढ्या दिव्यस्त्री पुत्रकाम्यया। सा त्वया नानुयोक्तव्या कासि कस्यासि चाङ्गने
यच्च कुर्यान्न तत्कर्म सा प्रष्टव्या त्वयाऽनघ। सन्नियोगाद्भजन्तीं तां भजेथा इत्युवाच तम्
एवं संदिश्य तनयं प्रतीपः शान्तनुं तदा। स्वे च राज्येऽभिषिच्यैनं वनं राजा विवेश ह
स राजा शान्तनुर्धीमान्देवराजसमद्युतिः। `बभूव सर्वलोकस्य सत्यवागिति संमतः
पीनस्कन्धो महाबाहुर्मत्तवारणविक्रमः। अन्वितः परिपूर्णार्थैः सर्वैर्नृपतिलक्षणैः
अमात्यलक्षणोपेतः क्षत्रधर्मविशेषवित्। वशे चक्रे महीमेको विजित्य वसुधाधिपान्
वेदानागमयत्कृत्स्नान्राजधर्मांश्च सर्वशः। ईजे च बहुभिः सत्रैः क्रतुभिर्भूरिदक्षिणैः
तर्पयामास विप्रांश्च वेदाध्ययनकोविदान्। रत्नैरुच्चावचैर्गोभिर्ग्रामैरश्वैर्धनैरपि
वयोरूपेण संपन्नः पौरुषेण बलेन च। ऐश्वर्येण प्रतापेन विक्रमेण धनेन च
वर्तमानश्च सत्येन सर्वधर्मविशारदः। तं महीपं महीपाला राजराजमकुर्वत
वीतशोकभयाबाधाः सुखस्वप्नप्रबोधाः। श्रिया भरतशार्दूल समपद्यन्त भूमिपाः
नियमैः सर्ववर्णानां ब्रह्मोत्तरमवर्तत। ब्राह्मणाभिमुखं क्षत्रं क्षत्रियाभिमुखा विशः
ब्रह्मक्षत्रानुकूलांश्च शूद्राः पर्यचरन्विशः। एवं पशुवराहाणां तथैव मृगपक्षिणाम्
शान्तनावथ राज्यस्थे नावर्तत वृथा वधः। असुखानामनाथानां तिर्यग्योनिषु वर्तताम्
स एव राजा सर्वेषां भूतानामभवत्पिता। स हस्तिनाम्नि धर्मात्मा विहरन्कुरुनन्दनः
तेजसा सूर्यकल्पोऽभूद्वायुना च समो बले। अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः
बभूव राजा सुमतिः प्रजानां सत्यविक्रमः। स वनेषु च रम्येषु शैलप्रस्रवणेषु च
चचार मृगयाशीलः शान्तनुर्वनगोचरः। स मृगान्महिषांश्चैव विनिघ्नन्राजसत्तमः
गङ्गामनु चचारैकः सिद्धचारणसेविताम्। स कदाचिन्महाराज ददर्श परमां स्त्रियम्
जाज्वल्यमानां वपुषा साक्षाच्छ्रियमिवापराम्। सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम्