शरवृष्टिं ततस्तां तु शरवर्षैः समन्ततः । प्रतिजग्राह राजेन्द्र तोयवृष्टिमिवाचलः
तत्राद्भुतमपश्याम बीभत्सोर्हस्तलाघवम् । विमुक्तां बहुभिर्योधैः शस्त्रवृष्टिं दुरासदाम्
यदेको वारयामास मारुतोऽभ्रगणानिव । कर्मणा तेन पार्थस्य तुतुषुर्देवदानवाः
अथ क्रुद्धो रणे पार्थस्त्रिगर्तान्प्रति भारत। मुमोचास्त्रं महाराज वायव्यं पृतनामुखे
प्रादुरासीत्ततो वायुः क्षोभयाणो नभस्तलम् । पातयन्वै तरुगणान्विनिघ्नंश्चैव सैनिकान्
ततो द्रोणोऽभिवीक्ष्यैव वायव्यास्त्रं सुदारुणम्। शैलमन्यन्महाराज घोरमस्त्रं मुमोच ह
द्रोणेन युधि निर्मुक्ते तस्मिन्नस्त्रे नराधिप। प्रशशाम ततो वयुः प्रसन्नाश्च दिशो दश
ततः पाण्डुसुतो वीरस्त्रिगर्तस्य रथव्रजान् । निरुत्साहान्रणे चक्रे विमुखान्विपराक्रमान्
ततो दुर्योधनश्चैव कृपश्च रथिनां वरः। अश्वत्थामा तथा शल्यः काम्भोजश्च सुदक्षिणः
विन्दानुविन्दावावन्त्यौ बाह्लिकः सह बाह्लिकैः । महता रथवंशेन पार्थस्यावारयन्दिशः
तथैव भगदत्तश्च श्रतायुश्च महाबलः। गजानीकेन भीमस्य ताववारयतां दिशः
भूरिश्रवाः शलश्चैव सौबलश्च विशांपते । शरौघैर्विमलैस्तीक्ष्णैर्माद्रीपुत्राववारयन्
भीष्मस्तु संहतः सङ्ख्ये धार्तराष्ट्रैः ससैनिकैः । युधिष्ठिरं समासाद्य सर्वतः पर्यवारयत्
आपतन्तं गजानीकं दृष्ट्वा पार्थो वृकोदरः। लोलिहन्सृक्किणी वीरो मृगराडिव कानने
भीमस्तु रथिनां श्रेष्ठो गदां गृह्य महाहवे । अवप्लुत्य रथात्तूर्णं तव सैन्यान्यभीषयत्
तमुद्वीक्ष्य गदाहस्तं ततस्ते गजसादिनः । परिवव्रू रणे यत्ता भीमसेनं समन्ततः
गजमध्यमनुप्राप्तः पाण्डवः स व्यराजत। मेघजालस्य महतो यथा मध्यगतो रविः
व्यधमत्स गजानीकं गदया पाण्डवर्षभः । महाभ्रजालमतुलं मातरिश्वेव सन्ततम्
ते वध्यमाना बलिना भीमसेनेन दन्तिनः । आर्तनादं रणे चक्रुर्गर्जन्तो जलदा इव
बहुधा दारितश्चैव विषाणैस्तत्र दन्तिभिः । फुल्लाशोकनिभः पार्थः शुशुभे रणमूर्धनि
सादिनां शस्त्रवृष्टिं च व्यधमद्गदया ततः।' वायुवेगसमायुक्तो व्यचरत्पाण्डवो युधि
विषाणोल्लिखितैर्गात्रौर्विषाणाभिहतो भृशम्। विषाणे दन्तिनं गृह्य निर्विषाणमथाकरोत्
विषाणेन च तेनैव कुम्भोऽभ्याहत्य दन्तिनम् । पातयामास समरे दण्डहस्त इवान्तकः
शोणिताक्तां गदां बिभ्रन्मेदोभञ्जाकृतच्छविः । कृताभ्यङ्गः शोणितेन रुद्रवत्प्रत्यदृश्यत
एवं के वध्यमानाश्च हतशेषा महागजाः । प्राद्रवन्त दिशो राजन्विमृद्गन्तः स्वकं बलम्
द्रवद्भिस्तैर्महानागैः समन्ताद्भरतर्षभ। दुर्योधनबलं सर्वं पुनरासीत्पराङ्भुखम्
मध्यंदिनो महाराज संग्रामः समपद्यत। लोकक्षयकरो रौद्रो भीष्मस्य सह सोमकैः
गाङ्गेयो रथिनां श्रेष्ठः पाण्डवानामनीकिनीम् । व्यधमन्निशितैर्बाणैः शतशोऽथ सहस्रशः
संममर्द च तत्सैन्यं पिता देवव्रतस्तव। मर्दयेच्च यथा राजन्सिंहः प्राप्य मृगव्रजम्
धृष्टद्युम्नः शिखण्डी च विराटो द्रुपदस्तथा। भीष्ममासाद्य समरे शरैर्जघ्नुर्महारथम्