समुत्सृज्याथ शैनेयो गौतमं रथिनां वरः । अभ्यद्रवद्रणे द्रौणिं राहुः खे शशिनं यथा
तस्य द्रोणसुतश्चापं द्विधा चिच्छेद भारत। अथैनं छिन्नधन्वानं ताडयामास सायकैः
सोऽन्यत्कार्मुकमादाय शत्रुघ्नं भारसाधनम् । द्रौणिं षष्ट्या महाराज बाह्वोरुरसि चार्पयत्
स विद्धो व्यथितश्चैव मुहूर्तं कश्मलायुतः। निषसाद रथोपस्थे ध्वजयष्टिं समाश्रितः
प्रतिलभ्य ततः संज्ञां द्रोणपुत्रः प्रतापवान् । वार्ष्णेयं समरे क्रुद्धो नाराचेन समार्पयत्
शैनेयं स तु निर्भिद्य प्राविशद्धरणीतलम् । वसन्तकाले बलवान्बिलं सर्पशिशुर्यथा
अथापरेण भल्लेन माधवस्य ध्वजोत्तमम् । चिच्छेद समरे द्रौणिः सिंहनादं मुमोच ह
पुनश्चैनं शरैर्घोरैश्छादयामास भारत। निदाघान्ते महाराज यथा मेघो दिवाकरम्
सात्यकोऽपि महाराज शरजालं निहत्य तत्। द्रौणिमभ्याकिरत्तूर्णं शरजालैरनेकधा
तापयामास च द्रौणिं शैनेयः परवारहा । विमुक्तो मेघजालेन यथैव तपनस्तथा
शराणां च सहस्रेण पुनरेव समुद्यतः । सात्यकिश्छादयामास ननाद च महाबलः
दृष्ट्वा पुत्रं च तं ग्रस्तं राहुणेव निशाकरम् । अभ्यद्रवत शैनेयं भारद्वाजः प्रतापवान्
विव्याध च सुतीक्ष्णेन पृषत्केन महामृधे । परीप्सन्खसुतं राजन्वार्ष्णेयेनाभिपीडितम्
सात्यकिस्तु रणे हित्वा गुरुपुत्रं महारथम् । द्रोणं विव्याध विंशत्या सर्वपारशवैः शरैः
तदन्तरममेयात्मा कौन्तेयः शत्रुतापनः । अभ्यद्रवद्रणे क्रुद्धो द्रोणं प्रति महारथः
ततो द्रोणश्च पार्थश्च समेयातां महामृधे । यथा बुधश्च शुक्रश्च महाराज नभस्तले
कथं द्रोणो महेष्वासः पाण्डवश्च धनञ्जयः । समीयतू रणे यत्तौ तावुभौ पुरुषर्षभौ
प्रियो हि पाण्डवो नित्यं भारद्वाजस्य धीमतः । आचार्यश्च रणे नित्यं प्रियः पार्थस्य सञ्जय
तावुभौ रथिनो सङ्ख्ये हृष्टौ सिंहाविवोत्कटौ । कथं समीयतुर्यत्तौ भारद्वाजधनञ्जयौ
न द्रोणः समरे पार्थं जानीते प्रियमात्मनः । क्षत्रधर्मं पुरस्कृत्य पार्थो वा गुरुमाहवे
न क्षत्रिया रणे राजन्वर्जयन्ति परस्परम् । निर्मर्यादं हि युध्यन्ते पितृभिर्भ्रातृभिः सह
रणे भारत पार्थेन द्रोणो विद्धस्त्रिभिः शरैः । नाचिन्तयच्च तान्बाणान्पार्थचापच्युतान्युधि
शरवृष्ट्या पुनः पार्थश्छादयामास तं रणे । स प्रजज्वाल रोषेण गहनेऽग्निरिवोर्जितः
ततोऽर्जुनं रणे द्रोणः शरैः सन्नतपर्वभिः । छादयामास राजेन्द्र नचिरादेव भारत
ततो दुर्योधनो राजा सुशर्माणमचोदयत् । द्रोणस्य समरे राजन्पार्ष्णिग्रहणकारणात्
त्रिगर्तराडपि क्रुद्धो भृशमायम्य कार्मुकम् । छादयामास समरे पार्थं बाणैरयोमुखैः
ताभ्यां मुक्ताः शरा राजन्नन्तरिक्षे विरेजिरे । हंसा इव महाराज शरत्काले नभस्तले
ते शराः प्राप्य कौन्तेयं समन्ताद्विविशुः प्रभो । फलभारनतं यद्वत्स्वादुवृक्षं विहंगमाः
अर्जुनस्तु रणे नादं विनद्य रथिनां वरः। त्रिगर्तराजं समरे सपुत्रं विव्यधे शरैः
ते वध्यमानाः पार्थेन कालेनेव युगक्षये । पार्थमेवाभ्यवर्तन्त मरणे कृतनिश्चयाः । मुमुचुः शरवृष्टिं च पाण्डवस्य रथं प्रति