ततः शरसहस्रेण क्षिप्रकारी निशाचरः । अर्जुनास सुतं सङ्ख्ये पीडयामास भारत
अभिमन्युस्ततः क्रुद्धो नवभिर्नतपर्वभिः । बिभेद निशिसैर्बाणै राक्षसेन्द्रं महोरसि
ते तस्य विविशुस्तूर्णं कायं निर्भिद्य मर्मसु। स तैर्विभिन्नसर्वाङ्गः शुशुभे राक्षसोत्तमः
पुष्पितैः किंशुकै राजन्संस्तीर्ण इव पर्वतः । स संदधानश्च शरान्हेमपुङ्खान्महाबलः
विबभौ राक्षसश्रेष्ठः सज्वाल इव पर्वतः । ततः क्रुद्धो महाराज आर्श्यशृङ्गिरमर्षणः
महेन्द्रप्रतिमं कार्ष्णि छादयामास पत्रिभिः । तेन ते विशिखा मुक्ता यमदण्डोपमाः शिताः
अभिमन्युं विनिर्भिद्य प्राविशन्त धरातलम् । तथैवार्जुनिना मुक्ताः शराः कनकभूषणाः
अलम्बुसं विनिर्भिद्य प्राविशन्त धरातलम् । सौभद्रस्तु रणे रक्षः शरैः सन्नतपर्वभिः
चक्रे विमुखमासाद्य बलं शक्र इवाहवे । विमुखं च रणे रक्षो वध्यमानं रणेऽरिणा
प्रादुश्चक्रे महामायां तामसीमरिघातिनीम् । ततस्ते तमसा सर्वे वृताश्चासन्महीपते
नाभिमन्युमपश्यन्त नैव स्वान्न परान्रणे । अभिमन्युश्च तदृष्ट्वा घोररूपं महत्तमः
प्रादुश्चक्रेऽस्त्रमत्सुग्रं भास्करं कुरुनन्दनः । ततः प्रकाशमभवज्जगत्सर्वं महीपते
तां चाभिजघ्निवान्मायां राक्षसस्य दुरात्मनः । संक्रुद्धश्च महावीर्यो राक्षसेन्द्रं नरोत्तमः
छादयामास समरे शरैः सन्नतपर्वभिः। बह्वीस्तथाऽन्या मायाश्च प्रयुक्तास्तेन रक्षसा
सर्वास्त्रविदमेयात्मा वारयामास फाल्गुनिः। हतमायं ततो रक्षो वध्यमानं च सायकैः
रथं तत्रैव संत्यज्य प्राद्रवन्महतो भयात्। तस्मिन्विनिर्जिते तूर्णं कूटयोधिनि राक्षसे
आर्जुनिः समरे सैन्यं तावकं संममर्द ह। मदान्धो वन्यनागेन्द्रः सपद्मां पद्मिनीमिव
ततः शान्तनवो भीष्मः सैन्यं दृष्ट्वाऽभिविद्रुतम्। महता शरवर्षेण सौभद्रं पर्यवारयत्
कोष्ठीकृत्य च तं वीरं धार्तराष्ट्रा महारथः । एवं सुबहवो युद्धे ततक्षुः सायकैर्दृढम्
स तेषां रथिनां वीरः पितुस्तुल्यपराक्रमः । सदृशो वासुदेवस्य विक्रमेण बलेन च
उभयोः सदृशं कर्म स पितुर्मातुलस्य च । रणे बहुविधं चक्रे सर्वशस्त्रभृतां वरः
ततो धनञ्जयो वीरो विनिघ्नंस्तव सैनिकान् । आससाद रणे भीष्मं पुत्रप्रेप्सुरमर्षणः
तथैव समरे राजन्पिता देवव्रतस्तव । आससाद रणे पार्थं स्वर्भानुरिव भास्करम्
ततः सरथनागाश्वाः पुत्रास्तव जनेश्वर । परिवव्रू रणे भीष्मं जुगुपुश्च समन्ततः
तथैव पाण्डवा राजन्परिवार्य धनञ्जयम् । रणाय महते युक्ता दंशिता भरतर्षभ
शारद्वतस्ततो राजन्भीष्मस्य प्रमुखे स्थितम् । अर्जुनं पञ्चविंशत्या सायकानां समाचिनोत्
प्रत्युद्गम्याथ विव्याध सात्यकिस्तं शितैः शरैः । पाण्डवप्रियकामार्थं शार्दूल इव कुञ्जरम्
गौतमोऽपि त्वरायुक्तो माधवं नवभिः शरैः । हृदि विव्याध संक्रुद्धः कङ्कपत्रपरिच्छदैः
शैनेयोऽपि ततः क्रुद्धश्चापमानम्य वेगवान् । गौतमान्तकरं तूर्णं समाधत्त शिलीमुखम्
तमापतन्तं वेगेन शक्राशनिसमद्युतिम् । द्विधा चिच्छेद संक्रुद्धो द्रौणिः परमकोपनः