वीर्यवद्भिस्ततस्तैस्तु पीडितो राक्षसोत्तमः । यथा युगक्षये घोरे चन्द्रमाः पञ्चभिर्ग्रहैः
प्रतिविन्ध्यस्ततो रक्षो बिभेद निशितैः शरैः । सर्वपारशवैस्तूर्णमकुण्ठाग्रैर्महाबलः
स तैर्भिन्नतनुत्राणः शुशुभे राक्षसोत्तमः । मरीचिभिरिवार्कस्य संस्यूतो जलदो महान्
विषक्तैः सशरैश्चापि तपनीयपरिच्छदैः । आर्श्यशृङ्गिर्बभौ राजन्दीप्तशृङ्ग इवाचलः
ततस्ते भ्रातरः पञ्च राक्षसेन्द्रं महाहवे। विव्यधुर्निशितैर्बाणैस्तपनीयविभूषितैः
स निर्भिन्नः शरैर्घोरैर्भुजगैः कोपितैरिव । अलम्बुसो भृशं राजन्नागेन्द्र इव चुक्रुधे
सोऽतिविद्धो महाराज मुहूर्तमथ मारिष । प्रविवेश तमो दीर्घं पीडितस्तैर्महारथैः
प्रतिलभ्य ततः संज्ञां क्रोधेन द्विगुणीकृतः । चिच्छेद सायकैस्तेषां ध्वजांश्चैव धनूंषि च
एकैकं पञ्चभिर्बाणैराजघान स्मयन्निव । अलम्बुसो रथोपस्थे नृत्यन्निव महारथः
त्वरमाणः सुसंबद्धो हयांस्तेषां महात्मनाम् । जघान राक्षसः क्रुद्धः सारथींश्च सहस्रशः
बिभेद च सुसंरब्धः पुनश्चैनान्सुतांशितैः। शरैर्बहुविधाकारैः शतशोऽथ सहस्रशः
विरथांश्च महेष्वासान्कृत्वा तत्र स राक्षसः । अभिदुद्राव वेगेन हन्तुकामो निशाचरः
तानर्दितान्रणे तेन राक्षसेन दुरात्मना । दृष्ट्वाऽर्जुनसुतः सङ्ख्ये राक्षसं समुपाद्रवत्
तयोः समभवद्युद्धं वृत्रवासवयोरिव। ददृशुस्तावकाः सर्वे पाण्डवाश्च परस्परम्
तौ समेतौ महायुद्धे क्रोधदीप्तौ परस्परम्। महाबलौ महाराज क्रोधसंरक्तलोचनौ
परस्परमवेक्षेतां कालानलसमौ युधि। `आशीविषाविव क्रुद्धौ नेत्राभ्यामितरेतरम् ।' तयोः समागमो घोरो बभूव कटुकोदयः
यथा देवासुरे युद्धे शक्रशम्बरयोः पुरा
आर्जुनं समरे शूरं विनिघ्नन्तं महारथान्। अलम्बुसः कथं युद्धे प्रत्ययुध्यत सञ्जय
आर्श्यशृङ्गिं कथं चैव सौभद्रः परवीरहा। तन्ममाचक्ष्व तत्त्वेन यथावृत्तं स्म संयुगे
धनंजयश्च किं चक्रे मम सैन्येषु संयुगे । भीमो वा रथिनां श्रेष्ठो राक्षसो वा घटोत्कचः
नकुलः सहदेवो वा सात्यकिर्वा महारथः । एतदाचक्ष्व मे सत्यं कुशलो ह्यसि सञ्जय
हन्ते तेऽहं प्रवक्ष्यामि संग्रामं रोमहर्षणम्। यथाऽभूद्राक्षसेन्द्रस्य सौभद्रस्य च मारिष
अर्जुनश्च यथा सङ्ख्ये भीमसेनश्च पाण्डवः । नकुलः सहदेवश्च रणे चक्रुः पराक्रमम्
तथैव तावकाः सर्वे भीष्मद्रोणपुरःसराः। अद्भुतानि विचिन्राणि चक्रुः कर्माण्यभीतवत्
अलम्बुसस्तु समरे अभिमन्युं महारथम् । विनद्य सुमहानादं तर्जयित्वा मुहुर्मुहुः
अभिदुद्राव वेगेन तिष्ठतिष्ठेति चाब्रवीत् । अभिमन्युश्च वेगेन सिंहवद्विनदन्मुहुः
आर्श्यशृङ्गिं महेष्वासि पितुरत्यन्तवैरिणम् । ततः समीपतुः सङ्ख्ये त्वरितौ नरराक्षसौ
रथाभ्यां रथिनौ श्रेष्ठौ यथा वै देवदानवौ । मायावा राक्षसश्रेष्ठो दिव्यास्त्रश्चैव फाल्गुनिः
ततः कर्ष्णिर्महाराज निशितैः सायकैस्त्रिभिः। आर्श्यशृङ्गिं रणे विद्ध्वा पुनर्विव्याव पञ्चभिः
अलम्बुरोऽपि संक्रुद्धः कार्ष्णि नवभिराशुगैः । हृदि विव्याध वेगेन तोत्रैरिव महाद्विपम्