तस्य शब्देन महता पाण्डवानां बलं महत् । प्राचलत्सर्वतो राजन्वातोद्धूत इवार्णवः
बहवश्च महाराज तस्य नादेन भीषिताः। प्रियान्प्राणान्परित्यज्य निपेतुर्धरणीतले
कार्ष्णिश्चापि मुदा युक्तः प्रगृह्य सशरं धनुः । नृत्यन्निव रथोपस्थे तद्रक्षः समुपाद्रवत्
ततः स राक्षसः क्रुद्धः संप्राप्यैवार्जुनं रणे। नातिदूरे स्थितां तस्य द्रावयामास वै चमूम्
तां वध्यमानां च तथा पाण्डवानां महाचमूम्। प्रत्यद्ययौ रणे रक्षो देवसेनां यथा बलः
विमर्दः सुमहानासीत्तस्य सैन्यस्य मारिष । रक्षसा घोररूपेण वध्यमानस्य संयुगे
ततः शरसहस्त्रैस्तां पाण्डवानां महाचमूम्। व्यद्रावयद्रणे रक्षो दर्शयतत्स्वपराक्रमम्
सा वध्यमाना च तथा पाण्डवानामनीकिनी । रक्षसा घोररूपेण प्रदुद्राव रणे भयात्
प्रमृद्य च रणे सेनां पद्मिनीं वारणो यथा। ततोऽभिद्रद्राव रणे द्रौपदेयान्महाबलान्
ते तु क्रुद्धा महेष्वासा द्रौपदेयाः प्रहारिणः। राक्षसं दुद्रुवुः सङ्ख्ये ग्रहाः पञ्च रविं यथा
वीर्यवद्भिस्ततस्तैस्तु पीडितो राक्षसोत्तमः । यथा युगक्षये घोरे चन्द्रमाः पञ्चभिर्ग्रहैः
प्रतिविन्ध्यस्ततो रक्षो बिभेद निशितैः शरैः । सर्वपारशवैस्तूर्णमकुण्ठाग्रैर्महाबलः
स तैर्भिन्नतनुत्राणः शुशुभे राक्षसोत्तमः । मरीचिभिरिवार्कस्य संस्यूतो जलदो महान्
विषक्तैः सशरैश्चापि तपनीयपरिच्छदैः । आर्श्यशृङ्गिर्बभौ राजन्दीप्तशृङ्ग इवाचलः
ततस्ते भ्रातरः पञ्च राक्षसेन्द्रं महाहवे। विव्यधुर्निशितैर्बाणैस्तपनीयविभूषितैः
स निर्भिन्नः शरैर्घोरैर्भुजगैः कोपितैरिव । अलम्बुसो भृशं राजन्नागेन्द्र इव चुक्रुधे
सोऽतिविद्धो महाराज मुहूर्तमथ मारिष । प्रविवेश तमो दीर्घं पीडितस्तैर्महारथैः
प्रतिलभ्य ततः संज्ञां क्रोधेन द्विगुणीकृतः । चिच्छेद सायकैस्तेषां ध्वजांश्चैव धनूंषि च
एकैकं पञ्चभिर्बाणैराजघान स्मयन्निव । अलम्बुसो रथोपस्थे नृत्यन्निव महारथः
त्वरमाणः सुसंबद्धो हयांस्तेषां महात्मनाम् । जघान राक्षसः क्रुद्धः सारथींश्च सहस्रशः
बिभेद च सुसंरब्धः पुनश्चैनान्सुतांशितैः। शरैर्बहुविधाकारैः शतशोऽथ सहस्रशः
विरथांश्च महेष्वासान्कृत्वा तत्र स राक्षसः । अभिदुद्राव वेगेन हन्तुकामो निशाचरः
तानर्दितान्रणे तेन राक्षसेन दुरात्मना । दृष्ट्वाऽर्जुनसुतः सङ्ख्ये राक्षसं समुपाद्रवत्
तयोः समभवद्युद्धं वृत्रवासवयोरिव। ददृशुस्तावकाः सर्वे पाण्डवाश्च परस्परम्
तौ समेतौ महायुद्धे क्रोधदीप्तौ परस्परम्। महाबलौ महाराज क्रोधसंरक्तलोचनौ
परस्परमवेक्षेतां कालानलसमौ युधि। `आशीविषाविव क्रुद्धौ नेत्राभ्यामितरेतरम् ।' तयोः समागमो घोरो बभूव कटुकोदयः
यथा देवासुरे युद्धे शक्रशम्बरयोः पुरा
आर्जुनं समरे शूरं विनिघ्नन्तं महारथान्। अलम्बुसः कथं युद्धे प्रत्ययुध्यत सञ्जय
आर्श्यशृङ्गिं कथं चैव सौभद्रः परवीरहा। तन्ममाचक्ष्व तत्त्वेन यथावृत्तं स्म संयुगे
धनंजयश्च किं चक्रे मम सैन्येषु संयुगे । भीमो वा रथिनां श्रेष्ठो राक्षसो वा घटोत्कचः