तान्यनीकानि सौभद्रो द्रावयामास भारत। तूलराशीनिवाकाशे मारुतः सर्वतो दिशम्
तेन विद्राव्यमाणानि तव सैन्यानि भारत । त्रतारं नाध्यगच्छन्त पङ्क्ते मग्ना इव द्वीपाः
विद्राव्य सर्वसैन्यानि तावकानि नरोत्तम । अभिमन्युः स्थितो राजन्विधूमोऽग्निरिव ज्वलन्
न चैनं तावका राजन्विषेहुररिघातिनम् । प्रदीप्तं पावकं यद्वत्पतङ्गाः कालचोदिताः
प्रहरन्सर्वशत्रुभ्यः पाण्डवानां महारथः । अदृश्यत महेष्वासः सवज्र इव वासवः
हेमपृष्ठं धनुश्चास्य ददृशे विचरद्दिशः । तोयदेषु यथा राजन्राजमाना शतह्रदा
शराश्च निशिताः पीता निश्चरन्ति स्म संयुगे । वनात्फुल्लद्रुमाद्राजन्भ्रमराणामिव व्रजाः
तथैव चरतस्तस्य सौभद्रस्य महात्मनः । रथेन काञ्चनाङ्गेन ददृशुर्नान्तरं जनाः
मोहयित्वा कृपं द्रोणं द्रौणिं च सबृहद्बलम्। सैन्धवं च महेष्वासो व्यचरल्लघु सुष्ठु च
मण्डलीकृतमेवास्य धनुः पश्याम भारत। सूर्यमण्डलसंकाशं दहतस्तव वाहिनीम्
तं दृष्ट्वा क्षत्रियाः शुराः प्रतपन्तं तरस्विनम् । द्विफल्गुनमिमं लोकं मेनिरे तस्य कर्मभिः
तेनार्दिता महाराज भारती सा महाचमूः । व्यभ्रमत्तत्रतत्रैव योषिन्मदवशादिव
द्रावयित्वा महासैन्यं कम्पयित्वा महारथान् । नन्दयामास सुहृदो मयं जित्वेव वासवः
तेन निद्राव्यमाणानि तव सैन्यानि संयुगे। चक्रुरार्तस्वनं घोरं पर्जन्यनिनदोपमम्
तं श्रुत्वा निनदं घोरं तव सैन्यस्य भारत। मारुतोद्धूतवेगस्य सागरस्येव पर्वणि
दुर्योधनस्तदा राजन्नार्श्यशृङ्गिमभाषत। एष कार्ष्णिर्महाबाहो द्वितीय इव फल्गुनः
चमूं द्रावयते क्रोधाद्वृत्रो देवचमूमिव । तस्य चान्यत्र पश्यामि संयुगे भेषजं महत्
ऋते त्वां राक्षसश्रेष्ठं सर्वविद्यासु पारगम् । स गत्वा त्वरितं वीरं जहि सौभद्रमाहवे
वयं पार्थं हनिष्यामो भीष्मद्रोणपुरोगमाः । स एवमुक्तो बलवान्राक्षसेन्द्रः प्रतापवान्
प्रययौ समरे तूर्णं तव पुत्रस्य शासनात्। नर्दमानो महानादं प्रावृषीव बलाहकः
तस्य शब्देन महता पाण्डवानां बलं महत् । प्राचलत्सर्वतो राजन्वातोद्धूत इवार्णवः
बहवश्च महाराज तस्य नादेन भीषिताः। प्रियान्प्राणान्परित्यज्य निपेतुर्धरणीतले
कार्ष्णिश्चापि मुदा युक्तः प्रगृह्य सशरं धनुः । नृत्यन्निव रथोपस्थे तद्रक्षः समुपाद्रवत्
ततः स राक्षसः क्रुद्धः संप्राप्यैवार्जुनं रणे। नातिदूरे स्थितां तस्य द्रावयामास वै चमूम्
तां वध्यमानां च तथा पाण्डवानां महाचमूम्। प्रत्यद्ययौ रणे रक्षो देवसेनां यथा बलः
विमर्दः सुमहानासीत्तस्य सैन्यस्य मारिष । रक्षसा घोररूपेण वध्यमानस्य संयुगे
ततः शरसहस्त्रैस्तां पाण्डवानां महाचमूम्। व्यद्रावयद्रणे रक्षो दर्शयतत्स्वपराक्रमम्
सा वध्यमाना च तथा पाण्डवानामनीकिनी । रक्षसा घोररूपेण प्रदुद्राव रणे भयात्
प्रमृद्य च रणे सेनां पद्मिनीं वारणो यथा। ततोऽभिद्रद्राव रणे द्रौपदेयान्महाबलान्
ते तु क्रुद्धा महेष्वासा द्रौपदेयाः प्रहारिणः। राक्षसं दुद्रुवुः सङ्ख्ये ग्रहाः पञ्च रविं यथा