एवं च तं तदा व्यूहं कृत्वा भारत तावकाः। सन्नद्धाः समदृश्यन्त प्रतपन्त इवाग्नयः
ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः। नकुलः सहदेवश्च माद्रीपुत्रावुभावपि
अग्रतः सर्वसैन्यानां स्थिता व्यूहस्य दंशिताः । धृष्टद्युम्नो विराटश्च सात्यकिश्च महारथः
स्थिताः सैन्येन महता परानीकविनाशनाः । शिखण्डी विजयश्चैव राक्षसश्च घटोत्कचः
चेकितानो महाबाहुः कुन्तिभोजश्च वीर्यवान् । स्थिता रणे महाराज महत्या सेनया वृताः
अभिमन्युर्महेष्वासो द्रुपदश्च महाबलः । युयुधानो महेष्वासो युधामन्युश्च वीर्यवान्
केकया भ्रातरश्चैव स्थिता युद्धाय दंशिताः । एवं तेऽपि महाव्यूहं प्रतिव्यूह्य सुदुर्जयम्
पाण्डवाः समरे शूराः स्थिता युद्धाय दंशिताः । तावकास्तु रणे यत्ताः सहसेना नराधिपाः
अभ्युद्ययू रणे पार्थान्भीष्मं कृत्वाऽग्रतो नृप। तथैव पाण्डवा राजन्भीमसेनपरोगमाः
भीष्मं योद्धुमभीप्सन्तः संग्रामे विजयैषिणः । क्ष्वेलाः किलकिलाः शङ्खान्क्रकचान्गोविषाणिकाः
भेरीमृदङ्गपणवान्नादयन्तश्च पुष्करान्। पाण्डवा अभ्यवर्तन्त नदन्तो भैरवान्रवान्
भेरीमृद्गशङ्खानां दुन्दुभीनां च निःस्वनैः । उत्कृष्टसिंहनादैश्च वल्गितैश्च पृथग्विधैः
वयं प्रतिनदन्तस्तानगच्छाम त्वरान्विताः । सहसैवाभिसंक्रद्धास्तदासीत्तुमुलं महत्
ततोऽन्योन्यं प्रधावन्तः संप्रहारं प्रचक्रिरे । ततः शब्देन महता प्रचकम्पे वसुंधरा
पक्षिणश्च महाघोरं व्याहरन्तो विबभ्रमुः । सप्रभश्चोदितः सूर्यो निष्प्रभः समपद्यत
ववुश्च वातास्तुमुलाः शंसन्तः सुमहद्भयम् । घोराश्च घोरनिर्ह्रादाः शिवास्तत्र ववाशिरे
वेदयन्त्यो महाराज महद्वैशसमागतम्। दिशः प्रज्वलिता राजन्पांसुवर्षं पपात च
रुधिरेण समुन्मिश्रमस्थिवर्षं पपात च । रुदतां वाहनानां च नेत्रेभ्यः प्रापतञ्जलम्
सुस्रुवुश्च शकृन्मूत्रं प्रध्यायन्तो विशांपते । अन्तर्हिता महानादाः श्रूयन्ते भरतर्षभ
रक्षसां पुरुषादानां नदतां भैरवान्रवान् । संपतन्तश्च दृश्यन्ते गोमायबलवायसाः
श्वानश्च विविधैर्नादैर्भषन्तस्तत्र मारिष । ज्वलिताश्च महोल्का वै समाहत्य दिवाकरम् । निपेतुः सहसा भूमौ वेदयन्त्यो महद्भयम्
महान्त्यनीकानि महासमुच्छ्रये ततस्तयोः पाण्डवधार्तराष्ट्रयोः। चकम्पिरे शङ्खमृदङ्गनिःस्वनैः प्रकम्पितानीव वनानि वायुना
नरेन्द्रनागाश्वसमाकुलाना- मभ्यायतीनामशिवे मुहूर्ते। बभूव घोषस्तुमुलश्चमूनां वातोद्धुतानामिव सागराणाम्
अभिमन्यू रथोदारः पिशङ्गैस्तुरगोत्तमैः। अभिदुद्राव तेजस्वी दुर्योधनबलं महत्
विकिरञ्शरवर्षाणि वारिधारा इवाम्बुदः। न शेकुः समरे क्रुद्धं सौभद्रमरिसूदनम्
शस्त्रौघिणं गाहमानं सेनासागरमक्षयम्। निवारयितुमप्याजौ त्वदीयाः कुरुनन्दन
तेन मुक्ता रणे राजञ्शराः शत्रुनिबर्हणाः। क्षत्रियाननयञ्शूरान्प्रेतराजनिवेशनम्
यमदण्डोपमान्घोराञ्ज्वलिताशीविषोपमान् । सौभद्रः समरे क्रुद्धः प्रेषयामास सायकान्
सरथान्रथिनस्तूर्णं हयांश्चैव ससादिनः । गजारोहांश्च सगजान्दारयामास फाल्गुनिः
तस्य तत्कुर्वतः कर्म महत्सङ्ख्ये महीभृतः। पूजयांचक्रिरे हृष्टाः प्रशशंसुश्च फाल्गुनिम्