निर्वेदं परमं गत्वा विनिन्द्य परवश्यताम् । दीर्घं दध्यौ शान्तनवो योद्धुकामोऽर्जुनं रणे
इङ्गितेन तु तज्ज्ञात्वा गाङ्गेयेन विचिन्तितम् । दुर्योधनो महाराज दुःशासनमचोदयत्
दुःशासन रथास्तूर्णं युज्यन्तां भीष्मरक्षिणः । द्वाविंशतिमनीकानि सर्वाण्येवाभिचोदय
अयं हि समनुप्राप्तो वर्षपूगाभिचिन्तितः । पाण्डवानां ससैन्यानां वधो राज्यस्य चागमः
तत्र कार्यमहं मन्ये भीष्मस्यैवाभिरक्षणम्। स नो गुप्तः सहायः स्याद्धन्यात्पार्थांश्च संयुगे
अब्रवीद्धि विशुद्धात्मा नाहं हन्यां शिखण्डिनम् । स्त्रीपूर्वको ह्यसौ राजंस्तस्माद्वर्ज्यो मया रणे
लोकस्तद्वेद यदहं पितुः प्रियचिकीर्षया । राज्यं स्फीतं महाबाहो स्त्रियश्च त्यक्तवान्पुरा
नैव चाहं स्त्रियं जातु न स्त्रीपूर्वं कथंचन । हन्यां युधि नरश्रेष्ठ सत्यमेतद्ब्रवीमि ते
अयं स्त्रीपूर्वको राजञ्छिखण्डी यदि ते श्रुतः। उद्योगे कथितं सर्वं यथा जाता शिखण्डिनी
कन्या भूत्वा पुमाञ्जातः स च योत्स्यति भारत । तस्याहं प्रमुखे बाणान्न मुञ्चेयं कथंचन
युद्धे हि क्षत्रियांस्तात पाण्डवानां जयैषिणः । सर्वानन्यान्हनिष्यामि संप्राप्तान्रणमूर्धनि
एवं मां भरतश्रेष्ठ गाङ्गेयः प्राह शास्त्रवित् । तत्र सर्वात्मना मन्ये गाङ्गेयस्यैव पालनम्
अरक्ष्यमाणं हि वृको हन्यात्सिंहं महाहवे । मा वृकेणेव गाङ्गेयं घातयेम शिखण्डिना
मातुलः शकुनिः शल्यः कृपो द्रोणो विविंशतिः। यत्ता रक्षन्तु गाङ्गेयं तस्मिन्गुप्ते ध्रुवो जयः
एतच्छ्रुत्वा तु ते सर्वे दुर्योधनवचस्तदा । सर्वतो रथवंशेन गाङ्गेयं पर्यवारयन्
पुत्राश्च तव गाङ्गेयं परिवार्य ययुर्मुदा । कम्पयन्तो भुवं द्यां च क्षोभयन्तश्च पाण्डवान्
ते रथैः सुप्रसंयुक्तैर्दन्तिभिश्च महारथाः । परिवार्य रणे भीष्मं दंशिताः समवस्थिताः
यथा देवासुरे युद्धे त्रिदशा वज्रधारिणम्। सर्वे ते स्म व्यतिष्ठन्त रक्षन्तस्तं महारथम्
ततो दुर्योधनो राजा पुनर्भ्रातरमब्रवीत् । सव्यं चक्रं युधामन्युरुत्तमौजाश्च दक्षिणम्। गोप्तारावर्जुनस्यैतावर्जुनोऽपि शिखण्डिनः
रक्ष्यमाणः स पार्थेन तथास्माभिर्विवर्जितः । यथा भीष्मं न नो हन्याद्दुःशासन तथा कुरु
भ्रातुस्तद्वचनं श्रुत्वा पुत्रो दुःशासनस्तव। भीष्मं प्रमुखतः कृत्वा प्रययौ सह सेनया
भीष्मं तु रथवंशेन दृष्ट्वा समभिसंवृतम्। अर्जुनो रथिनां श्रेष्ठो धृष्टद्युम्नमुवाच ह
शिखण्डिनं नरव्याघ्रं भीष्मस्य प्रमुखे नृप। स्थापयस्वाद्य पाञ्चाल्य तस्य गोप्ताऽहमित्युत
ततः शान्तनवो भीष्मो निर्ययौ सह सेनया। व्यूहं चाव्यूहत महत्सर्वतोभद्रमात्मनः
कृपश्च कृतवर्मा च शैब्यश्चैव महारथः । शकुनिः सैन्धवश्चैव काम्भोजश्च सुदक्षिणः
भीष्मेण सहिताः सर्वे पुत्रैश्च तव भारत । अग्रतः सर्वसैन्यानां व्यूहस्य प्रमुखे स्थिताः
द्रोणो भूरिश्रवाः शल्यो भगदत्तश्च मारिष । दक्षिणं पक्षमाश्रित्य स्थिता व्यूहस्य दंशिताः
अश्वत्थामा सोमदत्तश्चावन्त्यौ च महारथौ । महत्या सेनया युक्ता वामं पक्षमपालयन्
दुर्योधनो महाराज त्रिगर्तैः सर्वतो वृतः । व्यूहमध्ये स्थितो राजन्पाण्डवान्प्रति भारत
अलम्बुसो रथश्रेष्ठः श्रुतायुश्च महारथः । पृष्ठतः सर्वसैन्यानां स्थितौ व्यूहस्य दंशितौ