तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम्। तेन वीर्येण पुत्रस्ते भविता तस्य चेप्सितः
न संपत्स्यति मर्त्येषु पुनस्तस्य तु सन्ततिः। तस्मादपुत्रः पुत्रस्ते भविष्यति स वीर्यवान्
ततः प्रतीपो राजाऽऽसीत्सर्वभूतहितः सदा। निषसाद समा बह्वीर्गङ्गाद्वारगतो जपन्
तस्य रूपगुणोपेता गङ्गा स्त्रीरूपधारिणी। उत्तीर्य सलिलात्तस्माल्लोभनीयतमाकृतिः
अधीयानस्य राजर्षेर्दिव्यरूपा मनस्विनी। दक्षिणं शालसङ्काशमूरुं भेजे शुभानना
प्रतीपस्तु महीपालस्तामुवाच यशस्विनीम्। `वाक्यं वाक्यविदां श्रेष्ठो धर्मनिश्चयतत्त्ववित्।' करोमि किं ते कल्याणि प्रियं यत्तेऽभिकाङ्क्षितम्
त्वामहं कामये राजन्भजमानां भजस्व माम्। त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः
नाहं परस्त्रियं कामाद्गच्छेदं वरवर्णिनि। न चासवर्णां कल्याणि धर्म्यमेतद्धि मे व्रतम्
यः स्वदारान्परित्यज्य पारक्यां सेवते स्त्रियम्। निरयान्नैव मुच्यते यावदाभूतसंप्लवम्
नाश्रेयस्यस्मि नागम्या न वक्तव्या च कर्हिचित्। भजन्तीं भज मां राजन्दिव्यां कन्यां वरस्त्रियम्
त्वया निवृत्तमेतत्तु यन्मां चोदयसि प्रियम्। अन्यथा प्रतिपन्नं मां नाशयेद्धर्मविप्लवः
प्राप्य दक्षिणमूरुं मे त्वमाश्लिष्टा वराङ्गने। अपत्यानां स्नुषाणां च भीरु विद्ध्येतदासनम्
सव्योरुः कामिनीभोग्यस्त्वया स च विवर्जितः। तस्मादहं नाचरिष्ये त्वयि कामं वराङ्गने
स्नुषा मे भव सुश्रोणि पुत्रार्थं त्वां वृणोम्यहम्। स्नुषापक्षं हि वामोरु त्वमागम्य समाश्रिता
एवमप्यस्तु धर्मज्ञ संयुज्येयं सुतेन ते। त्वद्भक्त्या तु भजिष्यामि प्रख्यातं भारतं कुलम्
पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम्। गुणा न हि मया शक्या वक्तुं वर्षशतैरपि
कुलस्य ये वः प्रथितास्तत्साधुत्वमथोत्तमम्। समयेनेह धर्मज्ञ आचरेयं च यद्विभो
तत्सर्वमेव पुत्रस्ते न मीमांसेत कर्हिचित्। एवं वसन्ती पुत्रे ते वर्धयिष्याम्यहं रतिम्
तथेत्युक्त्वा तु सा राजंस्तत्रैवान्तरधीयत। `अदृश्या राजसिंहस्य पश्यतः साऽभवत्तदा
पुत्रजन्म प्रतीक्षन्वै स राजा तदधारयत्। एतस्मिन्नेव काले तु प्रतीपः क्षत्रियर्षभः
तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन। `प्रतीपस्य तु भार्यायां गर्भः श्रीमानवर्धत
श्रिया परमया युक्तः शरच्छुक्ले यथा शशी। ततस्तु दशमे मासि प्राजायत रविप्रभम्
कुमारं देवगर्भाभं प्रतीपमहिषी तदा।' तयोः समभवत्पुत्रो वृद्धयोः स महाभिषक्
शान्तस्य जज्ञे सन्तानस्तस्मादासीत्स शान्तनुः। `तस्य जातस्य कृत्यानि प्रतीपोऽकारयत्प्रभुः
जातकर्मादि विप्रेण वेदोक्तैः कर्मभिस्तदा। नामकर्म च विप्रास्तु चक्रुः परमसत्कृतम्
शान्तनोरवनीपाल वेदोक्तैः कर्मभिस्तदा। ततः संवर्धितो राजा शान्तनुर्लोकधार्मिकः
स तु लेभे परां निष्ठां प्राप्य धर्मभृतां वरः। धनुर्वेदे च वेदे च गतिं स परमा गतः
यौवनं चापि संप्राप्तः कुमारो वदतां वरः।' संस्मरंश्चाक्षयाँल्लोकान्विजातान्स्वेन कर्मणा
पुण्यकर्मकृदेवासीच्छान्तनुः कुरुसत्तमः। प्रतीपः शान्तनुं पुत्रं यौवनस्थं ततोऽन्वशात्
पुरा स्त्री मां समभ्यागाच्छान्तनो भूतये तव। त्वामाव्रजेद्यदि रहः सा पुत्र वरवर्णिनी