अनुजानीहि समरे कर्णमाहवशोभिनम् । स जेष्यति रणे पार्थान्ससुहृद्गणबान्धवान्
स एवमुक्त्वा नृपतिः पुत्रो दुर्योधनस्तव। नोवाच वचनं किंचिद्भीष्मं सत्यपराक्रमम्
वाक्शल्यैस्तव पुत्रेण सोऽतिविद्धो महामनाः । नोवाच दुःखोपहतो ह्यप्रियं प्रियमण्वपि
स ध्यात्वा सुचिरं कालं दुःखरोषसमन्वितः । श्वसन्निव महानागः प्रणुन्नो वाक्शलाकया
उद्वृत्य चक्षुषी लोपान्निर्दहन्निव भारत। सदेवासुरगन्धर्वं लोकं काल इवापरः
अब्रवीत्तव पुत्रं च सामपूर्वमिदं वचः। किं त्वं दुर्योधनैवं मां वाक्शल्यैरपकृन्तसि
घटमानं यथाशक्तिं कुर्वाणं च तव प्रियम् । जुह्वानं समरे प्राणांस्तव वै प्रियकाम्यया
यदा तु पाण्डवः शूरः खाण्डवेऽग्निमतर्पयत् । पराजित्य रणे शक्रं पर्याप्तं तन्निदर्शनम्
यदा च त्वां महाबाहो गन्धर्वैर्हृतमोजसा । अमोचयत्पाण्डुसुतः पर्याप्तं तन्निदर्शनम्
द्रवमाणेषु शूरेषु सोदरेषु तव प्रभो । सूतपुत्रे च राधेये पर्याप्तं तन्निदर्शनम्
यच्च नः सहितान्सर्वान्विराटनगरे तदा । एक एवाजयत्पार्थः पर्याप्तं तन्निदर्शनम्
द्रोणं च युधि संरब्धं मां च निर्जित्य संयुगे। वासांसि स समादत्त पर्याप्तं तन्निदर्शनम्
तथा द्रौणिं महेष्वासं शारद्वतमथापि च । गोग्रहे जितवान्पूर्वं पर्याप्तं तन्निदर्शनम्
विजित्य च यदा कर्णं सदा पुरुषमानिनम् । उत्तरायै ददौ वस्त्रं पर्याप्तं तन्निदर्शनम्
निवातकवचान्युद्धे वासवेनापि दुर्जयान्। जितवान्समरे पार्थः पर्याप्तं तन्निदर्शनम्
को हि शक्तो रणे जेतुं पाण्डवं रभसं तदा। यस्य गोप्ता जगद्गोप्ता शङ्खचक्रगदाधरः
वासुदेवोऽनन्तशक्तिः सृष्टिसंहारकारकः । सर्वेश्वरो देवदेवः परमात्मा सनातनः
उक्तोऽस्ति बहुशो राजन्नारदाद्यैर्महर्षिभिः । त्वं तु मोहान्न जानीषे वाच्यावाच्यं सुयोधन
मुमूर्षुर्हि नरः सर्वान्वृक्षान्पश्यति काञ्चनान्। तथा त्वमपि गान्धारे विपरीतानि पश्यसि
स्वयं वैरं महत्कृत्वा पाण्डवैः सह सृञ्जयैः । युद्ध्यस्व तानद्य रणे पश्यामः पुरुषो भव। `अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः
अहं तु सोमकान्सर्वान्पाञ्चालांश्च समागतान्। निहनिष्ये नरव्याघ्र वर्जयित्वा शिखण्डिनम्
तैर्वाऽहं निहतः सङ्ख्ये गमिष्ये यमसादनम् । तान्वा निहत्य समरे प्रीतिं दास्याम्यहं तव
पूर्व हि स्त्री समुत्पन्ना शिखण्डी राजवेश्मनि । वरदानात्पुमाञ्जातः सैषा वे स्त्री शिखण्डिनी
तमहं न हनिष्यामि प्राणत्यागेऽपि भारत। याऽसौ प्राङ्वर्मिता धात्रा सैषा वै स्त्री शिखण्डिनी
सुखं स्वपिहि गान्धारे श्वोऽस्मि कर्ता महारणम्। यं जनाः कथयिष्यन्ति यावत्स्थास्यति मेदिनी
एवमुक्तस्तव सुतो निर्जगाम जनेश्वर। अभिवाद्य गुरुं मूर्ध्ना प्रययौ स्वं निवेशनम्
आगम्य तु ततो राजा विसृज्य च महाजनम् । प्रविवेश ततस्तूर्णं क्षयं शत्रुक्षयंकरः
प्रहृष्टः स निशां तां च गमयामास पार्थिवः। प्रभातायां च शर्वर्यां प्रातरुत्थाय तान्नृपः
राज्ञः समाज्ञापयत सेनां योजयतेति ह। अद्य भीष्मो रणे क्रद्धो निहनिष्यति सोमकान्
दुर्योधनस्य तच्छ्रुत्वा रात्रौ विलपितं बहु। मन्यमानः स तं राजन्प्रत्यादेशमिवात्मनः