प्रदीपैः काञ्चनैस्तत्र गन्धतैलावसेचितैः । परिवव्रुर्महाराजं प्रज्वलद्भिः समन्ततः
स तैः परिवृतो राजा प्रदीपैः काञ्चनैर्ज्वलन्। शुशुभे चन्द्रमायुक्तो दीप्तैरिव महाग्रहैः
कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झरपाणयः। प्रोत्सारयन्तः शनकैस्तं जनं सर्वतो दिशम्
संप्राप्य तु ततो राजा भीष्मस्य सदनं शुभम् । अवतीर्य हयाच्चापि भीष्मं प्राप्य जनेश्वरः
अभिवाद्य ततो भीष्मं निषण्णः परमासने। काञ्चने सर्वतोभद्रे स्पर्द्ध्यास्तरणसंवृते। उवाच प्राञ्जलिर्भीष्मं बाष्पकण्ठोऽश्रुलोचनः
त्वां वयं हि समाश्रित्य संयुगे शत्रुसूदन । उत्सहेम रणे जेतुं सेन्द्रानपि सुरासुरान् । किमु पाण्डुसुतान्वीरान्ससुहृद्गणबान्धवान्
तस्मादर्हसि गाङ्गेय कृपां कर्तुं मयि प्रभो। जहि पाणडुसुतान्वारान्महेन्द्र इव दानवान्
पूर्वमुक्तं महाबाहो हनिष्यामि ससोमकान् । पाञ्चालान्केकयैः सार्धं करूपांश्चेति भारत
त्वद्वचः सत्यमेवास्तु जहि पार्थान्समागतान् । सोमकांश्च महेष्वासान्सत्यवाग्भव भारत
दयया यदि वा राजन्द्वेष्यभावान्मम प्रभो । मन्दभाग्यतया वापि मम रक्षसि पाण्डवान्
अनुजानीहि समरे कर्णमाहवशोभिनम् । स जेष्यति रणे पार्थान्ससुहृद्गणबान्धवान्
स एवमुक्त्वा नृपतिः पुत्रो दुर्योधनस्तव। नोवाच वचनं किंचिद्भीष्मं सत्यपराक्रमम्
वाक्शल्यैस्तव पुत्रेण सोऽतिविद्धो महामनाः । नोवाच दुःखोपहतो ह्यप्रियं प्रियमण्वपि
स ध्यात्वा सुचिरं कालं दुःखरोषसमन्वितः । श्वसन्निव महानागः प्रणुन्नो वाक्शलाकया
उद्वृत्य चक्षुषी लोपान्निर्दहन्निव भारत। सदेवासुरगन्धर्वं लोकं काल इवापरः
अब्रवीत्तव पुत्रं च सामपूर्वमिदं वचः। किं त्वं दुर्योधनैवं मां वाक्शल्यैरपकृन्तसि
घटमानं यथाशक्तिं कुर्वाणं च तव प्रियम् । जुह्वानं समरे प्राणांस्तव वै प्रियकाम्यया
यदा तु पाण्डवः शूरः खाण्डवेऽग्निमतर्पयत् । पराजित्य रणे शक्रं पर्याप्तं तन्निदर्शनम्
यदा च त्वां महाबाहो गन्धर्वैर्हृतमोजसा । अमोचयत्पाण्डुसुतः पर्याप्तं तन्निदर्शनम्
द्रवमाणेषु शूरेषु सोदरेषु तव प्रभो । सूतपुत्रे च राधेये पर्याप्तं तन्निदर्शनम्
यच्च नः सहितान्सर्वान्विराटनगरे तदा । एक एवाजयत्पार्थः पर्याप्तं तन्निदर्शनम्
द्रोणं च युधि संरब्धं मां च निर्जित्य संयुगे। वासांसि स समादत्त पर्याप्तं तन्निदर्शनम्
तथा द्रौणिं महेष्वासं शारद्वतमथापि च । गोग्रहे जितवान्पूर्वं पर्याप्तं तन्निदर्शनम्
विजित्य च यदा कर्णं सदा पुरुषमानिनम् । उत्तरायै ददौ वस्त्रं पर्याप्तं तन्निदर्शनम्
निवातकवचान्युद्धे वासवेनापि दुर्जयान्। जितवान्समरे पार्थः पर्याप्तं तन्निदर्शनम्
को हि शक्तो रणे जेतुं पाण्डवं रभसं तदा। यस्य गोप्ता जगद्गोप्ता शङ्खचक्रगदाधरः
वासुदेवोऽनन्तशक्तिः सृष्टिसंहारकारकः । सर्वेश्वरो देवदेवः परमात्मा सनातनः
उक्तोऽस्ति बहुशो राजन्नारदाद्यैर्महर्षिभिः । त्वं तु मोहान्न जानीषे वाच्यावाच्यं सुयोधन
मुमूर्षुर्हि नरः सर्वान्वृक्षान्पश्यति काञ्चनान्। तथा त्वमपि गान्धारे विपरीतानि पश्यसि
स्वयं वैरं महत्कृत्वा पाण्डवैः सह सृञ्जयैः । युद्ध्यस्व तानद्य रणे पश्यामः पुरुषो भव। `अशक्याः पाण्डवा जेतुं देवैरपि सवासवैः