समागम्य महाराज मन्त्रं चक्रुर्विवक्षितम् । कथं पाण्डुसुताः सङ्ख्ये जेतव्याः सगणा इति
ततो दुर्योधनो राजा सर्वांस्तानाह मन्त्रिणः । सूतपुत्रं समाभाष्य सौबलं च महाबलम्
द्रोणो भीष्म कृपः शल्यः सौमदत्तिश्च संयुगे। न पार्थान्प्रति बाधन्ते न जाने किंनु कारणम्
अवध्यमानास्ते चापि क्षपयन्ति बलं मम। सोऽस्मि क्षीणबलः कर्ण क्षीणशस्त्रश्च संयुगे
द्रोणस्य प्रमुखे वीरा हतास्ते भ्रातरो मम। भीमसेनेन राधेय मम चैव च पश्यतः
निकृतः पाण्डवैः शूरैरवध्यैर्दैवतैरपि । सोऽहं संशयमापन्नः प्रकरिष्ये कथं रणम्
तमब्रवीन्महाराज सूतपुत्रो नराधिपम् । मा शोच भरतश्रेष्ठ करिष्येऽहं प्रियं तव
भीष्मः शान्तनवस्तूर्णमपयातु महारणात् । निवृत्ते युधि गाङ्गेये न्यस्तशस्त्रे च भारत
अहं पार्थान्हनिष्यामि सहितान्सर्वसोमकैः । पश्यतो युधि भीष्मस्य शपे सत्येन ते नृप
पाण्डवेषु दयां नित्यं स हि भीष्मः करोति वै। अशक्तश्च रणे भीष्मो जेतुमेतान्महारथान्
अभिमानी रणे भीष्मो नित्यं चापि रणप्रियः । स कथं पाण्डवान्युद्धे जेष्यते तात संगतान्
स त्वं शीघ्रमितो गत्वा भीष्मस्य शिबिरं प्रति । अनुमान्य गुरुं वृद्धं शस्त्रं न्यासय भारत
न्यस्तशस्त्रे ततो भीष्मे निहतान्पश्य पाण्डवान् । मयैकेन रणे राजन्ससुहृद्गणबान्धवान्
एवमुक्तस्तु कर्णेन पुत्रो दुर्योधनस्तव । अब्रवीद्भ्रातरं तत्र दुःशासनमिदं वचः
अनुयात्रं यथा सर्वं सज्जीभवति सर्वशः । दुःशासन तथा क्षिप्रं सर्वमेवोपपादय
एवमुक्त्वा ततो राजन्कर्णमाह जनेश्वरः । अनुमान्य रणे भीष्ममेषोऽहं द्विपदां वरम्
आगमिष्ये ततः क्षिप्रं त्वत्सकाशमरिन्दम। अपक्रान्ते ततो भीष्मे प्रहरिष्यसि संयुगे
निष्पपात ततस्तूर्णं पुत्रस्तव विशांपते । सहितो भ्रातृभिस्तैस्तु देवैरिव शतक्रतुः
ततस्तं नृपशार्दूलं शार्दूलसमविक्रमम् । आरोपयद्धयं तूर्णं भ्राता दुःशासनस्तदा
अङ्गदी बद्धमुकुटो हस्ताभरणवान्नृप । धार्तराष्ट्रो महाराज विबभौ स पथि व्रजन्
भण्डीपुष्पनिकाशेन तपनीयनिभेन च। अनुलिप्तः परार्द्ध्येन चन्दनेन सुगन्धिना
अरजोम्बरसंवीतः सिंहखेलगतिर्नृप । शुशुभे विमलार्चिष्मान्नभसीव दिवाकरः
तं प्रयान्तं नरव्याघ्रं भीष्मस्य शिबिरं प्रति । अनुजग्मुर्महेष्वासाः सर्वलोकस्य धन्विनः । भ्रातरश्च महेष्वासास्त्रिदशा इव वासवम्
हयानन्ये समारुह्य गजानन्ये च भारत । रथानन्ये नरश्रेष्ठं परिवव्रुः समन्ततः
पदातयश्च त्वरिता नखरप्रासयोधिनः। परिवव्रुर्महेष्वासं धार्तराष्ट्रं महारथम्
आत्तशस्त्राश्च सुहृदो रक्षणार्थं महीपतेः । प्रादुर्बभूवुः सहिताः शक्रस्येवामरा दिवि
स पूज्यमानः कुरुभिः कौरवाणां महाबलः । प्रययौ सदनं राजा गाङ्गेयस्य यशस्विनः । अन्वीयमानः सततं सोदरैः परिवारितः
दक्षिणं दक्षिणः काले संभृत्य स्वभुजं तदा। हस्तिहस्तोपमं सौम्यं सर्वशत्रुनिबर्हणम्
प्रगृह्णन्नञ्जलीन्नॄणामुद्यतान्सर्वतो दिशः। शुश्राव मधुरा वाचो नानादेशनिवासिनाम्
संस्तूयमानः सूतैश्च मागधैश्च महायशाः। पूजयानश्च तान्सर्वान्सर्वलोकेश्वरेश्वरः