अवस्कन्दाश्च पतिता मुसलानि गुरूणि च । परिघाः पट्टसाश्चैव भिण्डिपालाश्च मारिष
पतिता विविधाश्चापाश्चित्रा हेमपरिष्कृताः । कुथा बहुविधाकाराश्चामरा व्यजनानि च
नानाविधानि शस्त्राणि प्रगृह्य पतिता नराः। जीवन्त इव दृश्यनते गतसत्त्वा महारथाः
गजाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकाः। गजावाजिरथक्षुण्णाः शेरते स्म नराः क्षितौ
तथैवाश्वनृनागानां शरीरैर्विबभौ तदा। संछन्ना वसुधा राजन्पर्वतैरिव शातितैः
समरे पतितैश्चैव शक्त्यृष्टिशरतोमरैः। निस्त्रिंशैः पट्टसैः प्रासैरवस्कन्दैः परश्वथैः
परिघैर्भिण्डिपालैश्च शतघ्नीभिश्च मारिष। शरीरैः शस्त्रनिर्भिन्नैः समास्तीर्यत मेदिनी
विशब्दैरल्पशब्दैश्च शोणितौगपरिप्लुतैः। गतासुभिरमित्रघ्न विबभौ निचिता मही
सतलत्रैः सकेयूरैर्बाहुभिश्चन्दनोक्षितैः । हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम्
बद्धचूजामणिवरैः शिरोभिश्च सकुण्डलैः । पातितै ऋषभाक्षाणां बभौ भारत मेदिनी
कवचैः शोणितादिग्धैर्विप्रकीर्णैश्च काञ्चनैः । रराज सुभृशं भूमिः शान्तार्चिर्भिरिवानलैः
विप्रविद्धैः कलापैश्च पतितैश्च शरासनैः । विप्रकीर्णैः शरैश्चैव रुक्मपुङ्खैः समन्ततः
रथैश्च सर्वतो भग्नैः किङ्किणीजालभूषितैः । वाजिभिश्च हतैर्बाणैः स्रस्तजिह्वैः सशोणितैः
अनुकर्षैः पताकाभिरुपासङ्गैर्ध्वजैरपि । प्रवीराणां महाशङ्खैर्विप्रकीर्णैश्च पाण्डुरैः
स्रस्तहस्तैश्च मातङ्गैः शयानैर्विबभौ मही । नानारूपेरलंकारैः प्रमदेवाभ्यलङ्कृता
दन्तिभिश्चापरैस्तत्र सप्राणैर्गाढवेदनैः । करैः शब्दं विमुञ्चद्भिः शीकरं च मुहुर्मुहुः
विबभौ तद्रणस्थानं स्यन्दमानैरिवाचलैः। नानारागैः कम्बलैश्च परिस्तोमेश्च दन्तिनाम्
वैदूर्यमणिदण्डैश्च पतितैरङ्कुशैः शुभैः। घण्टाभिश्च गजेन्द्राणां पतिताभिः समन्ततः
विपाटितविचित्राभिः कुथाभिरङ्कुशैस्तथा। ग्रैवेयैश्चित्ररूपैश्च रुक्मकक्ष्याभिरेव च
यन्त्रैश्च बहुधा च्छिन्नैस्तोमरैश्चापि काञ्चनैः। `रराज सुभृशं भूमिस्तत्रतत्र विशांपते' अश्वानां रेणुकपिलै रुक्मच्छन्नैरुरश्छदैः
सादिनां च भुजैश्छिन्नैः पतितैः साङ्गदैस्तथा। प्रासैश्च विमलैस्तीक्ष्णैर्विमलाभिस्तथर्ष्टिभिः
उष्णीषैश्च तथा चित्रैर्विप्रविद्धैस्ततस्ततः। विचित्रैर्बाणवर्षैश्च जातरूपपरिष्कृतैः
अश्वास्तरपरिस्तोमै राङ्कवैर्मृदितैस्तथा। नरेन्द्रचूडामणिभिर्विचित्रैश्च महाधनैः
छत्रैस्तथापविद्धैश्च चामरैर्व्यजनैरपि । पद्मेन्दुद्युतिभिश्चैव वदनैश्चारुकुण्डलैः
क्लृप्तश्मश्रुभिरत्यर्थं वीराणां समलङ्कृतैः । अपविद्धैर्महाराज सुवर्णाज्ज्वलकुण्डलैः
ग्रहनक्षत्रशबला द्यौरिवासीद्वसुंधरा। एवमेते महासेने मृदिते तत्र भारत
परस्परं समासाद्य तव तेषां च संयुगे । तेषु श्रान्तेषु भग्नेषु मृदितेषु च भारत
रात्रिः समभवत्तत्र नापश्याम ततोऽनुगान् । ततोऽवहारं सैकन्यानां प्रचुक्रुः कुरुपाण्डवाः
घोरे निशामुखे रौद्रे वर्तमाने महाभये। अवहारं ततः कृत्वा सहिताः कुरुपाणड्वाः । न्यविशन्त निशाकाले गत्वा स्वशिबिरं तदा
ततो दुर्योधनो राजा शकुनिश्चापि सौबलः। दुःशासनश्च पुत्रस्ते सूतपुत्रश्च दुर्जयः