व्यंसितं वीक्ष्य निस्त्रिंशं सौभद्रेण रणे तदा। साधुसाध्विति सैन्यानां प्रणादोऽभूद्विशांपते
धृष्टद्युम्नमुखास्त्वन्ये तव सैन्यमयोधयन्। तथैव तावकाः सर्वे पाण्डुसैन्यमयोधयन्
तत्राक्रन्दो महानासीत्तव तेषां च भारत। निघ्नतां दृढमन्योन्यं कुर्वतां कर्म दुष्करम्
अन्योन्यं हि रणे शूराः केशेष्वाक्षिष्य मानिनः। नखदन्तैरयुध्यन्त मुष्टिभिर्जानुभिस्तथा
तलैश्चैवाथ निस्त्रिंशैर्बाहुभिश्च सुसंस्थितैः। विवरं प्राप्य चान्योन्यमनयन्यमसादनम्
न्यहनच्च पिता पुत्रं पुत्रश्च पितरं तथा। व्याकुलीकृतसंकल्पा युयुधुस्तत्र मानवाः
रणे चारूणि चापानि हेमपृष्ठानि मारिष । हतानामपविद्धानि कलापाश्च महाधनाः
जातरूपमयैः पुङ्खै राजतैर्निशिताः शराः। तैलधौता व्यराजन्त निर्मुक्तभुजगोपमाः
खङ्गाश्च दान्तत्सरवो जातरूपपरिष्कृताः । चर्माणि चापविद्धानि रुक्मचित्राणि धन्विनां
सुवर्णाविकृताः प्रासाः प्रभग्ना हेमभूषिताः। जातरूपमया यष्ट्यः शक्त्यश्च कनकोज्ज्वलाः
अवस्कन्दाश्च पतिता मुसलानि गुरूणि च । परिघाः पट्टसाश्चैव भिण्डिपालाश्च मारिष
पतिता विविधाश्चापाश्चित्रा हेमपरिष्कृताः । कुथा बहुविधाकाराश्चामरा व्यजनानि च
नानाविधानि शस्त्राणि प्रगृह्य पतिता नराः। जीवन्त इव दृश्यनते गतसत्त्वा महारथाः
गजाविमथितैर्गात्रैर्मुसलैर्भिन्नमस्तकाः। गजावाजिरथक्षुण्णाः शेरते स्म नराः क्षितौ
तथैवाश्वनृनागानां शरीरैर्विबभौ तदा। संछन्ना वसुधा राजन्पर्वतैरिव शातितैः
समरे पतितैश्चैव शक्त्यृष्टिशरतोमरैः। निस्त्रिंशैः पट्टसैः प्रासैरवस्कन्दैः परश्वथैः
परिघैर्भिण्डिपालैश्च शतघ्नीभिश्च मारिष। शरीरैः शस्त्रनिर्भिन्नैः समास्तीर्यत मेदिनी
विशब्दैरल्पशब्दैश्च शोणितौगपरिप्लुतैः। गतासुभिरमित्रघ्न विबभौ निचिता मही
सतलत्रैः सकेयूरैर्बाहुभिश्चन्दनोक्षितैः । हस्तिहस्तोपमैश्छिन्नैरूरुभिश्च तरस्विनाम्
बद्धचूजामणिवरैः शिरोभिश्च सकुण्डलैः । पातितै ऋषभाक्षाणां बभौ भारत मेदिनी
कवचैः शोणितादिग्धैर्विप्रकीर्णैश्च काञ्चनैः । रराज सुभृशं भूमिः शान्तार्चिर्भिरिवानलैः
विप्रविद्धैः कलापैश्च पतितैश्च शरासनैः । विप्रकीर्णैः शरैश्चैव रुक्मपुङ्खैः समन्ततः
रथैश्च सर्वतो भग्नैः किङ्किणीजालभूषितैः । वाजिभिश्च हतैर्बाणैः स्रस्तजिह्वैः सशोणितैः
अनुकर्षैः पताकाभिरुपासङ्गैर्ध्वजैरपि । प्रवीराणां महाशङ्खैर्विप्रकीर्णैश्च पाण्डुरैः
स्रस्तहस्तैश्च मातङ्गैः शयानैर्विबभौ मही । नानारूपेरलंकारैः प्रमदेवाभ्यलङ्कृता
दन्तिभिश्चापरैस्तत्र सप्राणैर्गाढवेदनैः । करैः शब्दं विमुञ्चद्भिः शीकरं च मुहुर्मुहुः
विबभौ तद्रणस्थानं स्यन्दमानैरिवाचलैः। नानारागैः कम्बलैश्च परिस्तोमेश्च दन्तिनाम्
वैदूर्यमणिदण्डैश्च पतितैरङ्कुशैः शुभैः। घण्टाभिश्च गजेन्द्राणां पतिताभिः समन्ततः
विपाटितविचित्राभिः कुथाभिरङ्कुशैस्तथा। ग्रैवेयैश्चित्ररूपैश्च रुक्मकक्ष्याभिरेव च
यन्त्रैश्च बहुधा च्छिन्नैस्तोमरैश्चापि काञ्चनैः। `रराज सुभृशं भूमिस्तत्रतत्र विशांपते' अश्वानां रेणुकपिलै रुक्मच्छन्नैरुरश्छदैः