प्रतरिष्ये महापारं भुजाभ्यां समरोदधिम् । नायं क्लीबायितुं कालो विद्यते माधव क्वचित्
एवमुक्तस्तु पार्थेन केशवः परवीरहा। चोदयामास तानश्वान्पाण्डुरान्वातरंहसः
अथ शब्दो महानासीत्तव सैन्यस्य भारत। मारुतोद्धूतवेगस्य सागरस्येव पर्वणि
अपराह्णे महाराज संग्रामः समपद्यत । पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः
ततो राजंस्तव सुता भीमसेनमुपाद्रवन् । परिवार्य रणे द्रोणं वसवो वासवं यथा
ततः शान्तनवो भीष्मः कृपश्च रथिनां वरः। भगदत्तः सुशर्मा च धनंजयमुपाद्रवन्
हार्दिक्यो बाह्लिकश्चैव सात्यकिं समभिद्रुतौ । अम्बष्ठकस्तु नृपतिरभिमन्युमवस्थितः
शेषास्त्वन्ये महाराज शेषानेव महारथान् । ततः प्रववृते युद्धं घोररूपं भयावहम्
भीमसेनस्तु संप्रेक्ष्य पुत्रांस्तव विशांपते'। प्रजज्वाल रणे क्रुद्धो हविषा हव्यवाडिव
पुत्रास्तु तव कौन्तेयं छादयांचक्रिरे शरैः। प्रावृषीव महाराज जलदा इव पर्वतम्
स च्छाद्यमानो बहुधा पुत्रैस्तव विशांपते । सृक्विणी संलिहन्वीरः शार्दूल इव दर्पितः
व्यूढोरस्कस्ततो भीमः पोथयामास पार्थिवम् । क्षुरप्रेण सुतीक्ष्णेन सुमुक्तेन महारणे
ताडयामास संक्रुद्धः सोऽभवद्व्यथितेन्द्रियः । अपरेण तु भल्लेन पीतेन निशितेन तु। अपातयत्कुण्डलितं सिंहः क्षुद्रमृगं यथा
ततः सुनिशितान्बाणान्भीमसेनः शिलाशितान् । स सप्त संदधे हन्तुं पुत्रास्ते भरतर्षभ
प्रेषिता भिमसेनेन शरास्ते दृढधन्वना । अपातयन्त पुत्रांस्ते रथेभ्यः सुमहारथान्
अनाधृष्टिं कुण्डभेदिं विराजं दीप्तलोचनम् । दीर्घबाहुं सुबाहुं च तथैव मकरध्वजम्
प्रपतन्तिस्म वीरास्ते विरेजुर्भरतर्षभ। वसन्ते पुष्पशबलाः किंशुकाः पतिता इव
ततः प्रदुद्रुवुः शेषास्तव पुत्रा महाहवे । तं कालमिव मन्यन्तो भीमसेनं महाबलम्
द्रोणस्तु समरे वीरं निर्दहनक्तं सुतांस्तव । यथाद्रिं वारिधाराभिः समन्ताद्व्यकिरच्छरैः
तत्राद्भुतमपश्याम कुन्तीपुत्रस्य पौरुषम् । द्रोणेन वार्यमाणोऽपि निजघ्ने यत्सुतांस्तव
यथा गोवृषभो वर्षं संधारयति स्वात्पतत् । भीमस्तथा द्रोणमुक्तं शरवर्षमदीधरत्
अद्भुतं च महाराज तत्र चक्रे वृकोदरः । यत्पुत्रांस्तेऽवधीत्सङ्ख्ये द्रोणं चैव न्यवारयत्
पुत्रेषु तव वीरेषु चिक्रीडार्जुनपूर्वजः । मृगेष्विव महाराज चरन्व्याघ्रो महाबलः
यथा हि पशुमध्यस्थो द्रावयेत पशून्वृकः । वृकोदरस्तव सुतांस्तथा व्यद्रावयद्रणे
गाङ्गेयो भगदत्तश्च गोतमश्च महारथाः । पाण्डवं रभसं युद्धे वारयामासुरर्जुनम्
अस्त्रैरस्त्राणि संवार्य तेषां सोऽतिरथो रणे प्रवीरांस्तव सैन्येषु प्रेषयामास मृत्यवे
अभिमन्युस्तु राजानमम्बष्ठं लोकविश्रुतम् । विरथं रथिनां श्रेष्ठं कारयामास सायकैः
विरथो वध्यमानस्तु सौभद्रेण यशस्विना । अवप्लुत्य रथात्तूर्णमम्बष्ठो वसुधाधिपः
असिं चिक्षेप समरे सौभद्रस्य महात्मनः । आरुरोह रथं चैव हार्दिक्यस्य महाबलः
आपतन्तं तु निस्त्रिंशं युद्धमार्गविशारदः । लाघवाद्व्यंसयामास सौभद्रः परवीरहा