अब्रवीत्समरे राजन्वासुदेवमिदं वचः। इदं नूनं महाप्राज्ञो विदुरो दृष्टवान्पुरा
कुरूणां पाण्डवानां च क्षयं घोरं महामतिःक । स ततो निवारितवान्धृतराष्ट्रं जनेश्वरम्
अन्ये च बहवो वीराः संग्रामे मधुसूदन। निहताः कौरवैः सङ्ख्ये तथाऽस्माभिश्च कौरवाः
अर्थहेतोर्नरश्रेष्ठ क्रियते कर्म कुत्सितम्। धिगर्थान्यत्कृते ह्येवं क्रियते ज्ञातिसंक्षयः
अधनस्य मृतं श्रेयो न च ज्ञातिवधाद्वनम् । किं नु प्राप्स्यामहे कृष्ण हत्वा ज्ञातीन्समागतान्
दुर्योधनापराधेन शकुनेः सौबलस्य च। क्षत्रिया निधनं यान्ति कर्णदुर्मन्त्रितेन च
इदानीं च विजानामि सुकृतं मधुसूदन। कृतं राज्ञा महाबाहो याचता त सुयोधनम्
राज्यार्धं पञ्च वा ग्रामान्नाकार्षीत्स च दुर्मतिःक । दृष्ट्वा हि क्षत्रियाञ्शूराञ्शयानान्धरणीतले
निन्दामि भृशमात्मानं धिगस्तु क्षत्रिजीविकाम् । अशक्तमिति मामेते ज्ञास्यन्ते क्षत्रिया रणे
एतदर्थं मया युद्धं रोचितं मधुसूदन। संचोदय हयाञ्शीघ्रं धार्तराष्ट्रचमूं प्रति
प्रतरिष्ये महापारं भुजाभ्यां समरोदधिम् । नायं क्लीबायितुं कालो विद्यते माधव क्वचित्
एवमुक्तस्तु पार्थेन केशवः परवीरहा। चोदयामास तानश्वान्पाण्डुरान्वातरंहसः
अथ शब्दो महानासीत्तव सैन्यस्य भारत। मारुतोद्धूतवेगस्य सागरस्येव पर्वणि
अपराह्णे महाराज संग्रामः समपद्यत । पर्जन्यसमनिर्घोषो भीष्मस्य सह पाण्डवैः
ततो राजंस्तव सुता भीमसेनमुपाद्रवन् । परिवार्य रणे द्रोणं वसवो वासवं यथा
ततः शान्तनवो भीष्मः कृपश्च रथिनां वरः। भगदत्तः सुशर्मा च धनंजयमुपाद्रवन्
हार्दिक्यो बाह्लिकश्चैव सात्यकिं समभिद्रुतौ । अम्बष्ठकस्तु नृपतिरभिमन्युमवस्थितः
शेषास्त्वन्ये महाराज शेषानेव महारथान् । ततः प्रववृते युद्धं घोररूपं भयावहम्
भीमसेनस्तु संप्रेक्ष्य पुत्रांस्तव विशांपते'। प्रजज्वाल रणे क्रुद्धो हविषा हव्यवाडिव
पुत्रास्तु तव कौन्तेयं छादयांचक्रिरे शरैः। प्रावृषीव महाराज जलदा इव पर्वतम्
स च्छाद्यमानो बहुधा पुत्रैस्तव विशांपते । सृक्विणी संलिहन्वीरः शार्दूल इव दर्पितः
व्यूढोरस्कस्ततो भीमः पोथयामास पार्थिवम् । क्षुरप्रेण सुतीक्ष्णेन सुमुक्तेन महारणे
ताडयामास संक्रुद्धः सोऽभवद्व्यथितेन्द्रियः । अपरेण तु भल्लेन पीतेन निशितेन तु। अपातयत्कुण्डलितं सिंहः क्षुद्रमृगं यथा
ततः सुनिशितान्बाणान्भीमसेनः शिलाशितान् । स सप्त संदधे हन्तुं पुत्रास्ते भरतर्षभ
प्रेषिता भिमसेनेन शरास्ते दृढधन्वना । अपातयन्त पुत्रांस्ते रथेभ्यः सुमहारथान्
अनाधृष्टिं कुण्डभेदिं विराजं दीप्तलोचनम् । दीर्घबाहुं सुबाहुं च तथैव मकरध्वजम्
प्रपतन्तिस्म वीरास्ते विरेजुर्भरतर्षभ। वसन्ते पुष्पशबलाः किंशुकाः पतिता इव
ततः प्रदुद्रुवुः शेषास्तव पुत्रा महाहवे । तं कालमिव मन्यन्तो भीमसेनं महाबलम्
द्रोणस्तु समरे वीरं निर्दहनक्तं सुतांस्तव । यथाद्रिं वारिधाराभिः समन्ताद्व्यकिरच्छरैः
तत्राद्भुतमपश्याम कुन्तीपुत्रस्य पौरुषम् । द्रोणेन वार्यमाणोऽपि निजघ्ने यत्सुतांस्तव