घटोत्कचोऽथ संक्रुद्धो भगदत्तमुपाद्रवत्। विकटः परुषो राजन्दीप्तास्यो दीप्तलोचनः
रूपं विभीषणं कृत्वा रोषेण प्रज्वलन्निव । जग्राह विमलं शूलं गिरीणामपि दारणम्
नागं जिघांसुः सहसा चिक्षेप च महाबलः। स विस्फुलिङ्गमालाभिः समन्तात्परिवेष्टितम्
तमापतन्तं सहसा दृष्ट्वा प्राग्ज्योतिषो नृपः । चिक्षेप रुचिरं तीक्ष्णमर्धचन्द्रं सुदारुणम्
चिच्छेद तन्महच्छूलं तेन बाणेन वेगवान् । उत्पपात द्विधा च्छिन्नं शूलं हेमपरिष्कृतम्
महाशनिर्यथा भ्रष्टा शक्रमुक्ता नभोगता । शूलं निपतितं दृष्ट्वा द्विधा कृत्तं च पार्थिवः
रुक्मदण्डां महाशक्तिं जग्राहाग्निशिखोपमान् । चिक्षेप तां राक्षसस्य तिष्ठितिष्ठेति चाब्रवीत्
तामापतन्तीं संप्रेक्ष्य वियत्स्थामशनीमिव । उत्पत्य राक्षसस्तूर्णं जग्राह च ननाद च
बभञ्ज चैनां त्वरितो जानुन्यारोप्य भारत। पश्यतः पार्थिवेन्द्रस्य तदद्भुतमिवाभवत्
तदवेक्ष्य कृतं कर्म राक्षसेन बलीयसा। दिवि देवाः सगन्धर्वा मुनयश्चापि विस्मिताः
पाण्डवाश्च महाराज भीमसेनपुरोगमाः । साधुसाध्विति नादेन पृथिवीमन्वनादयन्
तं तु श्रुत्वा महानादं प्रहृष्टानां महात्मनाम् । नामृष्यत महेष्वासो भगदत्तः प्रतापवान्
स विष्फार्य महच्चापमिन्द्राशानिसमप्रभम् । अभिदुद्राव वेगेन पाण्डवानां महारथान्
विसृजन्विमलांस्तीक्ष्णान्नाराचाञ्ज्वलनप्रभान् । भीममेकेन विव्याध राक्षसं नवभिः शरैः
अभिमन्युं त्रिभिश्चैव केकयान्पञ्च पञ्चभिः । पूर्णायतविसृष्टेन शरेणानतपर्वणा
बिभेद दक्षिणं बाहुं क्षत्रेदवस्य चाहवे । पपात सहसा तस्य सशरं धनुरुत्तमम्
द्रौपदेयांस्ततः पञ्च पञ्चभिः समताडयत् । भीमसेनस्य च क्रोधान्निजघान तुरंगमान्
ध्वजं केसरिणं चास्य चिच्छेद विशिखैस्त्रिभिः । निर्बिभेद त्रिभिश्चान्यैः सारथिं चास्य पत्रिभिः
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् । विशोको भरतश्रेष्ठ भगदत्तेन संयुगे
ततो भीमो महाबाहुर्विरथो रथिनां वरः । गदां प्रगृह्य वेगेन प्रचस्कन्द रथोत्तमात्
तमुद्यतगदं दृष्ट्वा सशृङ्गमिव पर्वतम् । तावकानां भयं घोरं समपद्यत भारत
एतस्मिन्नेव काले तु पाण्डवः कृष्णसारथिः । आजगाम महाराज निघ्नञ्शत्रून्समन्ततः
यत्र तौ पुरुषव्याघ्रौ पितापुत्रौ महाबलौ । प्राग्ज्योतिषेण संयुक्तौ भीमसेनघटोत्कचौ
दृष्ट्वा च पाण्डवो भ्रातॄन्युध्यमानान्महारथान् । त्वरितो भरतश्रेष्ठ तत्रायुध्यत्किरञ्छरान्
ततो दुर्योधनो राजा त्वरमाणो महारथः । सेनामचोदयत्क्षिप्रं रथनागाश्वसंकुलाम्
तामापतन्तीं सहसा कौरवाणां महाचमूम् । अभिदुद्राव वेगेन पाण्डवः श्वेतवाहनः
भगदत्तश्च समरे तेन नागेन भारत। विमृद्गन्पाण्डवबलं युधिष्ठिरमुपाद्रवत्
तदासीत्सुमहद्युद्धं भगदत्तस्य मारिष। पाञ्चालैः पाण्डवेयैश्च केकयैश्चोद्यतायुधैः
भीमसेनोऽपि समरे तावुभौ केशवार्जिनौ । अश्रावयद्यथावृत्तमिरावद्वधतुत्तमम्
पुत्रं विनिहतं श्रुत्वा इरावन्तं धन?ञ्जयः। दुःखेन महताऽऽविष्टो निःश्वसन्पन्नगो यथा