मदान्धा रोषसंरब्धा विषाणाग्रैर्महाहवे । बिभिदुर्दन्तमुसलैः समासाद्य परस्परम्
हयाश्च चामरापीडाः प्रासपाणिभिरास्थिताः । चोदिताः सादिभिः क्षिप्रं निजघ्रुरितरेतरम्
पादाताश्च पदात्योघैस्ताडिताः शक्तितोमरैः। न्यपतन्त तदा भूमौ शतशोऽथ सहस्रशः
रथिनश्च रथाकंश्चित्रान्कर्णिनालीकतोमरैः । निहत्य समरे वीरान्सिंहनादान्विनेदिरे
तस्मिंस्तथा वर्तमाने संग्रामे रोमहर्षणे । भगतत्तो महेष्वासो भीमसेनमथाद्रवत्
कुञ्जरेण प्रभिन्नेन सप्तधा स्रवता मदम्। पर्वतेन यथा तोयं स्रवमाणेन सर्वशः
किरञ्छरसहस्राणि सुप्रतीकशिरोगतः । ऐरावतस्थो मघवान्वारिधारा इवानघ
स भीमं शरधाराभिस्ताजयामास पार्थिवः । पर्वतं वारिधाराभिस्तपान्ते जलदो यथा
भीमसेनस्तु संक्रुद्धः पादरक्षान्परःशतान्। निजघान महेष्वासः संरब्धः शरवृष्टिभिः
तान्दृष्ट्वा निहतान्क्रुद्धो भगदत्तः प्रतापवान् । चोदयामास नागेन्द्रं भीमसेनरथं प्रति
स नागः प्रेषितस्तेन बाणो ज्याचोदितो यथा। अभ्यधावत वेगेन भीमसेनपुरोगमाः
तमापतन्तं संप्रेक्ष्य पाण्डवानां महारथाः। अभ्यवर्तन्त वेगेन भीमसेनपुरोगमाः
केकयाश्चाभिमन्युश्च द्रौपदेयाश्च सर्वशः। दशार्णाधिपतिः शूरः क्षत्रदेवश्च मारिष
चेदिपो धृष्टकेतुश्च संरब्धाः सर्व एव ते। उत्तमास्त्राणि दिव्यानि दर्शयन्तो महाबलाः
तमेकं कुञ्जरं क्रुद्धाः समन्तात्पर्यवारयन् । स विद्धो बहुभिर्बाणैर्व्यरोचत महाद्विपः
संजातरुधिरोत्पीडो धातुचित्र इवाद्रिराट्। दशार्णाधिपतिश्चाऽपि गजं भूमिधरोपमम्
समास्थितोऽभिदुद्राव भगदत्तस्य वारणम्। तमापतन्तं समरे जगं जगपतिः स च
दधार सुप्रतीकोऽपि वेलेव मकरालयम् । वारितं प्रेक्ष्य नागेन्द्रं दशार्णस्य महात्मनः
साधुसाध्विति सैन्यानि त्वदीयान्यभ्यपूजयन् । ततः प्राग्ज्योतिषः क्रुद्धस्तोमरान्वै चतुर्दश
प्राहिणोत्तस्य नागस्य प्रमुखे नृपसत्तम। तस्य कुम्भपरित्राणां शातकुम्भपरिष्कृतम्
विदार्य प्राविशन्क्षिप्रं वल्मीकमिव पन्नगाः। स गाढविद्धो व्यथितो नागो भरतसत्तम
उपावृत्तमदः क्षिप्रमभ्यवर्तत वेगिनः । स प्रदुद्राव वेगेन प्रणदन्भैरवं रवम्
संमर्दमानः स्वबलं वायुर्वृक्षानिवौजसा । तस्मिन्पराजिते नागे पाण्डवानां महारथाः
सिंहनादं विनद्योच्चैर्युद्धायैवावतस्थिरे । ततो भीमं पुरस्कृत्य भगदत्तमुपाद्रवन्
किरन्तो विविधान्बाणाञ्शस्त्राणि विविधानि च। तेषामापततां राजन्संक्रुद्धानाममर्षिणाम्
श्रुत्वा स निनदंक घोरममर्षाद्गतसाध्वसः । भगदत्तो महेष्वासः स्वनागं प्रत्यचोदयत्
अङ्कुशाङ्गुष्ठनुदितः स गजप्रवरो युधि। तस्मिन्क्षणे समभवत्सांवर्तक इवानलः
रथसङ्घांस्तथा नागान्हयांश्च हयसादिनः । पादातांश्च सुसंक्रुद्धः शतशोऽथ सहस्रशःक
अमृद्गात्समरे नागः संप्रधावंस्ततस्ततः। तेन संलोड्यमानं तु पाण्डवानां बलं महत्
संचुकोच महाराज चर्मेवाग्नौ समाहितम् । भग्नं तु स्वबलं दृष्ट्वा भगदत्तेन धीमता