सोऽश्वमेधसहस्रेण राजसूयशतेन च। तोषयामास देवेशं स्वर्गं लेभे ततः प्रभुः
ततः कदाचिद्ब्रह्माणमुपासांचक्रिरे सुराः। तत्र राजर्षयो ह्यासन्स च राजा महाभिषक्
अथ गङ्गा सरिच्छ्रेष्ठा समुपायात्पितामहम्। तस्या वासः समुद्धूतं मारुतेन शशिप्रभम्
ततोऽभवन्सुरगणाः सहसाऽवाङ्मुखास्तदा। महाभिषक्तु राजर्षिरशङ्को दृष्टवान्नदीम्
सोपध्यातो भगवता ब्रह्मणा तु महाभिषक्। उक्तश्च जातो मर्त्येषु पुनर्लोकानवाप्स्यसि
यया हृतमनाश्चासि गङ्गया त्वं हि दुर्मते। सा ते वै मानुषे लोके विप्रियाण्याचरिष्यति
यदा ते भविता मन्युस्तदा शापाद्विमोक्ष्यते
प्रतीपं रोचयामास पितरं भूरितेजसम्। सा महाभिषजं दृष्ट्वा नदी दैर्याच्च्युतं नृपम्
तमेव मनसा ध्यायन्त्युपावृत्ता सरिद्वरा। सा तु विध्वस्तवपुषः कश्मलाभिहतान्नृप
ददर्श पथि गच्छन्ती वसून्देवान्दिवौकसः। तथारूपांश्च तान्दृष्ट्वा प्रपच्छ सरितां वरा
किमिदं नष्टरूपाः स्थ कच्चित्क्षेमं दिवौकसाम्। तामूचुर्वसवो देवाः शप्ताः स्मो वै महानदि
अल्पेऽपराधे संरम्भाद्वसिष्ठेन महात्मना। विमूढा हि वयं सर्वे प्रच्छन्नमृषिसत्तमम्
सन्ध्यां वसिष्ठमासीनं तमत्यभिसृताः पुरा। तेन कोपाद्वयं शप्ता योनौ संभवतेति ह
न तच्छक्यं निवर्तयितुं यदुक्तं ब्रह्मवादिना। त्वमस्मान्मानुषी भूत्वा सूष्व पुत्रान्वसून्भुवि
न मानुषीणां जठरं प्रविशेम वयं शुभे। इत्युक्ता तैश्च वसुभिस्तथेत्युक्त्वाऽब्रवीदिदम्
प्रतीपस्य सुतो राजा शान्तनुर्लोकविश्रुतः। भविता मानुषे लोके स नः कर्ता भविष्यति
ममाप्येवं मतं देवा यथा मां वदथानघाः। प्रियं तस्य करिष्यामि युष्माकं चेतदीप्सितम्
जातान्कुमारान्स्वानप्सु प्रक्षेप्तुं वै त्वमर्हसि। यथा नचिरकालं नो निष्कृतिः स्यात्त्रिलोकगे
जिघृक्षवो वयं सर्वे सुरभिं मन्दबुद्धयः। शप्ता ब्रह्मर्षिणा तेन तांस्त्वं मोचय चाशु नः
एवमेतत्करिष्यामि पुत्रस्तस्य विधीयताम्। नास्य मोघः सङ्गमः स्यात्पुत्रहेतोर्मया सह
तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम्। तेन वीर्येण पुत्रस्ते भविता तस्य चेप्सितः
न संपत्स्यति मर्त्येषु पुनस्तस्य तु सन्ततिः। तस्मादपुत्रः पुत्रस्ते भविष्यति स वीर्यवान्
ततः प्रतीपो राजाऽऽसीत्सर्वभूतहितः सदा। निषसाद समा बह्वीर्गङ्गाद्वारगतो जपन्
तस्य रूपगुणोपेता गङ्गा स्त्रीरूपधारिणी। उत्तीर्य सलिलात्तस्माल्लोभनीयतमाकृतिः
अधीयानस्य राजर्षेर्दिव्यरूपा मनस्विनी। दक्षिणं शालसङ्काशमूरुं भेजे शुभानना
प्रतीपस्तु महीपालस्तामुवाच यशस्विनीम्। `वाक्यं वाक्यविदां श्रेष्ठो धर्मनिश्चयतत्त्ववित्।' करोमि किं ते कल्याणि प्रियं यत्तेऽभिकाङ्क्षितम्
त्वामहं कामये राजन्भजमानां भजस्व माम्। त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः
नाहं परस्त्रियं कामाद्गच्छेदं वरवर्णिनि। न चासवर्णां कल्याणि धर्म्यमेतद्धि मे व्रतम्
यः स्वदारान्परित्यज्य पारक्यां सेवते स्त्रियम्। निरयान्नैव मुच्यते यावदाभूतसंप्लवम्
नाश्रेयस्यस्मि नागम्या न वक्तव्या च कर्हिचित्। भजन्तीं भज मां राजन्दिव्यां कन्यां वरस्त्रियम्