राक्षसापशदं हन्तुं स्वयमेव पितामह । त्वां समाश्रित्य दुर्धर्षं तन्मे कर्तुं त्वमर्हसि
एतच्छ्रुत्वा तु वचनं राज्ञो भरतसत्तम। दुर्योधनमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत्
शृणु राजन्मम वचो यत्त्वां वक्ष्यामि कौरव। यथा त्वया महाराज वर्तितव्यं परंतप
आत्मा रक्ष्यस्त्वया तात सर्वावस्थास्वरिन्दम। धर्मराजेन संग्रामस्त्वया कार्यः सदाऽनघ
अर्जुनेन यमाभ्यां वा भीमसेनेन वा पुनः । अन्यैर्वा पृथिवीपालै राजा राजानमृच्छति
न तु कार्यस्त्वया राजन्हैडिम्बेन दुरात्मा। अहं द्रोणः कृपो द्रौणिः कृतवर्मा च सात्वतः। शल्यश्च वृषसेनश्च विकर्णश्च महारथः
शेषाश्च भ्रातरस्त्वन्ये दुःशासनपुरोगमाः। त्वदर्थे प्रतियोत्स्यामो राक्षसं तं महाबलम्
रौद्रे तस्मिन्राक्षसेन्द्रे यदि ते हृच्छयो महान् । अयमागच्छतु रणं तस्य युद्धाय दुर्मतेः
भगदत्तो महीपालः पुरन्दरसमो युधि । एतावदुक्त्वा राजानं भगदत्तमथाब्रवीत्
समक्षं पार्थिवेन्द्रस्य वाक्यं वाक्यविशारदः। गच्छ शीघ्रं महाराज हैडिम्बं युद्धदुर्मदम्
वारयस्व रणे यत्तो मिषतां सर्वधन्विनाम् । राक्षसं क्रूरकर्माणं यथेन्द्रस्तारकं पुरा
तव दिव्यानि चास्त्राणि विक्रमश्च परंतप । समागमश्च बहुभिः पुराऽभूदमरैः सह
त्वं तस्य नृपशार्दूल प्रतियोद्धा महाहवे । स्वबलेनावृतो गच्छ जहि राक्षसपुङ्गवम्
एतच्छ्रुत्वा तु वचनं भीष्मस्य पृतनापतेः। प्रययौ सिंहनादेन परानभिमुखको द्रुतम्
तमापतन्तं संप्रेक्ष्य गर्जन्तमिव तोयदम् । अभ्यवर्तन्त संक्रुद्धाः पाण्डवानां महारथाः
भीमसेनोऽभिमन्युश्च राक्षसश्च घटोत्कचः । द्रौपदेयाः सत्यधृतिः क्षत्रदेवश्च भारत
चेदिपो वसुदानश्च दशार्णाधिपतिस्तथा । सुप्रतीकेन तांश्चापि भगदत्तोऽप्युपाद्रवत्
ततः समभवद्युद्धं घोररूपं भयानकम्। पाण्डूनां भगदत्तेन यमराष्ट्रविवर्धनम्
प्रयुक्ता रथिभिर्बाणा भीमवेगाः सुतेजनाः । ते निपेतुर्महाराज नागेषु च रथेषु च
प्रभिन्नाश्च महानागा विनीता हस्तिसादिभिः । परस्परं समासाद्य संनिपेतुरभीतवत्
मदान्धा रोषसंरब्धा विषाणाग्रैर्महाहवे । बिभिदुर्दन्तमुसलैः समासाद्य परस्परम्
हयाश्च चामरापीडाः प्रासपाणिभिरास्थिताः । चोदिताः सादिभिः क्षिप्रं निजघ्रुरितरेतरम्
पादाताश्च पदात्योघैस्ताडिताः शक्तितोमरैः। न्यपतन्त तदा भूमौ शतशोऽथ सहस्रशः
रथिनश्च रथाकंश्चित्रान्कर्णिनालीकतोमरैः । निहत्य समरे वीरान्सिंहनादान्विनेदिरे
तस्मिंस्तथा वर्तमाने संग्रामे रोमहर्षणे । भगतत्तो महेष्वासो भीमसेनमथाद्रवत्
कुञ्जरेण प्रभिन्नेन सप्तधा स्रवता मदम्। पर्वतेन यथा तोयं स्रवमाणेन सर्वशः
किरञ्छरसहस्राणि सुप्रतीकशिरोगतः । ऐरावतस्थो मघवान्वारिधारा इवानघ
स भीमं शरधाराभिस्ताजयामास पार्थिवः । पर्वतं वारिधाराभिस्तपान्ते जलदो यथा
भीमसेनस्तु संक्रुद्धः पादरक्षान्परःशतान्। निजघान महेष्वासः संरब्धः शरवृष्टिभिः
तान्दृष्ट्वा निहतान्क्रुद्धो भगदत्तः प्रतापवान् । चोदयामास नागेन्द्रं भीमसेनरथं प्रति