नैव ते श्रद्दधुर्भीता वदतोरावयोर्वचः । तांश्च प्रद्रवतो दृष्ट्वा जयं प्राप्ताश्च पाण्डवाः
घटोत्कचेन सहिताः सिंहनादान्प्रचक्रिरे । शङ्खदुन्दुभिनिर्घोषैः समन्तान्नेदिरे भृशम्
एवं तव बलं सर्वं हैडिम्बेन महात्मना। सूर्यास्तमनवेलायां प्रभग्नं विद्रुतं दिशः
तस्मिन्महति संक्रन्दे राजा दुर्योधनस्तदा। `पराजयं राक्षसेन नामृष्यत परंतपः।' गाङ्गेयमुपसंगम्य विनयेनाभिवाद्य च
तस्य सर्वं यथावृत्तमाख्यातुमुपचक्रमे। घटोत्कचस्य विजयमात्मनश्च पराजयम्
कथयामास दुर्धर्षो विनिःश्वस्य पुनःपुनः । अब्रवीच्च तदा राजन्भीष्मं कुरुपितामहम्
भवन्तं समुपाश्रित्य द्रोणं चैव पितामह । पाण्डवैर्विग्रहो घोरः समारब्धो मया प्रभो
एकादश समाख्याता अक्षौहिण्यश्च या मम। निदेशे तव तिष्ठन्ति मया सार्धं परंतप
सोऽहं भरतशार्दूल भीमसेनपुरोगमैः । घटोत्कचं समाश्रित्य पाण्डवैर्युधि निर्जितः
तन्मे दहति गात्राणि शुष्कवृक्षमिवानलः । तदिच्छामि महाभाग त्वत्प्रसादात्परंतप
राक्षसापशदं हन्तुं स्वयमेव पितामह । त्वां समाश्रित्य दुर्धर्षं तन्मे कर्तुं त्वमर्हसि
एतच्छ्रुत्वा तु वचनं राज्ञो भरतसत्तम। दुर्योधनमिदं वाक्यं भीष्मः शान्तनवोऽब्रवीत्
शृणु राजन्मम वचो यत्त्वां वक्ष्यामि कौरव। यथा त्वया महाराज वर्तितव्यं परंतप
आत्मा रक्ष्यस्त्वया तात सर्वावस्थास्वरिन्दम। धर्मराजेन संग्रामस्त्वया कार्यः सदाऽनघ
अर्जुनेन यमाभ्यां वा भीमसेनेन वा पुनः । अन्यैर्वा पृथिवीपालै राजा राजानमृच्छति
न तु कार्यस्त्वया राजन्हैडिम्बेन दुरात्मा। अहं द्रोणः कृपो द्रौणिः कृतवर्मा च सात्वतः। शल्यश्च वृषसेनश्च विकर्णश्च महारथः
शेषाश्च भ्रातरस्त्वन्ये दुःशासनपुरोगमाः। त्वदर्थे प्रतियोत्स्यामो राक्षसं तं महाबलम्
रौद्रे तस्मिन्राक्षसेन्द्रे यदि ते हृच्छयो महान् । अयमागच्छतु रणं तस्य युद्धाय दुर्मतेः
भगदत्तो महीपालः पुरन्दरसमो युधि । एतावदुक्त्वा राजानं भगदत्तमथाब्रवीत्
समक्षं पार्थिवेन्द्रस्य वाक्यं वाक्यविशारदः। गच्छ शीघ्रं महाराज हैडिम्बं युद्धदुर्मदम्
वारयस्व रणे यत्तो मिषतां सर्वधन्विनाम् । राक्षसं क्रूरकर्माणं यथेन्द्रस्तारकं पुरा
तव दिव्यानि चास्त्राणि विक्रमश्च परंतप । समागमश्च बहुभिः पुराऽभूदमरैः सह
त्वं तस्य नृपशार्दूल प्रतियोद्धा महाहवे । स्वबलेनावृतो गच्छ जहि राक्षसपुङ्गवम्
एतच्छ्रुत्वा तु वचनं भीष्मस्य पृतनापतेः। प्रययौ सिंहनादेन परानभिमुखको द्रुतम्
तमापतन्तं संप्रेक्ष्य गर्जन्तमिव तोयदम् । अभ्यवर्तन्त संक्रुद्धाः पाण्डवानां महारथाः
भीमसेनोऽभिमन्युश्च राक्षसश्च घटोत्कचः । द्रौपदेयाः सत्यधृतिः क्षत्रदेवश्च भारत
चेदिपो वसुदानश्च दशार्णाधिपतिस्तथा । सुप्रतीकेन तांश्चापि भगदत्तोऽप्युपाद्रवत्
ततः समभवद्युद्धं घोररूपं भयानकम्। पाण्डूनां भगदत्तेन यमराष्ट्रविवर्धनम्
प्रयुक्ता रथिभिर्बाणा भीमवेगाः सुतेजनाः । ते निपेतुर्महाराज नागेषु च रथेषु च
प्रभिन्नाश्च महानागा विनीता हस्तिसादिभिः । परस्परं समासाद्य संनिपेतुरभीतवत्