अभिमन्युप्रभृतयः पाण्डवानां महारथाःक । अभ्यदावन्परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान्
अनूपाधिपतिः शूरो भीमस्य दयितः सखा । नीलो नीलाम्बुदप्रख्यः संक्रुद्धो द्रौणिमभ्यात्
स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन सः। स विष्फार्य महच्चापं द्रौणिं विव्याध पत्रिणा
यथा शक्रो महाराज पुरा विव्याध दानवम् । विप्रचित्तिं दुराधर्षं देवतानां भयंकरम्
येन लोकत्रयं क्रोधात्रासितं स्वेन तेजसाक । `स रुद्रेण जितः पूर्वं निहतो मातरिश्वना' तथा नीलेन निर्भिन्नः सम्यङ्भुक्तेन पत्रिणा
संजातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः । स विष्फार्य धनुश्चित्रमिन्द्राशनिसमस्वनम्
दध्रे नीलविनाशाय मतिं मतिमतां वरः। ततः संधाय विमलान्भल्लान्कर्मारमार्जितान्
जघान चतुरो वाहान्पातयामास च ध्वजम्। `सूतं चैकेन भल्लेन रथनीडादपाहरत्' सप्तमेन च भल्लेन नीलं विव्याध वक्षसि
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्। मोहितं वीक्ष्य राजानं नीलमश्मचयोपमम्
घटोत्कचोऽभिसंक्रुद्धो ज्ञातिभिः परिवारितः । अभिदुद्राव वेगेन द्रौणिमाहवशोभिनम् । तथेतरे चाभ्यधावन्राक्षसा युद्धदुर्मदाः
भीमसेनो महाबाहुर्नीलं नीलाञ्जनप्रभम्।' आरोप्य स्वरथं वीरो दुर्योधनमपाद्रवत्
घटोत्कचं च संप्रेक्ष्य राक्षसं घोरदर्शनम् ।। अभ्यधावत तेजस्वी भारज्वाजात्मजस्त्वरन्
निजघान च संक्रुद्धो राक्षसान्भीमदर्शनान्। योऽभवन्नग्रतः क्रुद्धा राक्षसस्य पुरःसराः । विमुखांश्चैव तान्दृष्ट्वा द्रौणिचापच्युतैः शरैः
अक्रुद्ध्यत महाकायो भैमसेनिर्घटोत्कचः। प्रादुश्चक्रे ततो मायां घोररूपां सुदारुणाम्
मोहयन्समरे द्रौणिं मायावी राक्षसाधिपः। ततस्ते तावकाः सर्वे मायया विमुखीकृताःक
अन्योन्यं समपश्यन्त निकृत्ता मेदिनीतले। विचेष्टमानाः कृपणाः शोणितेन परिप्लुताः
द्रोणं दुर्योधनं शल्यमश्वत्थामानमेव च। प्रायशश्च महेष्वासा ये प्रधानाः स्म कौरवाः
विध्वस्ता रथिनः सर्वे गजाश्च विनिपातिताः। हयाश्चैव हयारोहाः सन्निकृत्ताः सहस्रशः
तद्दृष्ट्वा तावकं सैन्यं विद्रुतं शिबिरं प्रति। मम प्राक्रोशतो राजंस्तथा देवव्रतस्य च
युध्यध्वं मा पलायध्वं मायैषा राक्षसी रणे। घटोत्कचप्रमुक्तेति नातिष्ठन्त विमोहिताः
नैव ते श्रद्दधुर्भीता वदतोरावयोर्वचः । तांश्च प्रद्रवतो दृष्ट्वा जयं प्राप्ताश्च पाण्डवाः
घटोत्कचेन सहिताः सिंहनादान्प्रचक्रिरे । शङ्खदुन्दुभिनिर्घोषैः समन्तान्नेदिरे भृशम्
एवं तव बलं सर्वं हैडिम्बेन महात्मना। सूर्यास्तमनवेलायां प्रभग्नं विद्रुतं दिशः
तस्मिन्महति संक्रन्दे राजा दुर्योधनस्तदा। `पराजयं राक्षसेन नामृष्यत परंतपः।' गाङ्गेयमुपसंगम्य विनयेनाभिवाद्य च
तस्य सर्वं यथावृत्तमाख्यातुमुपचक्रमे। घटोत्कचस्य विजयमात्मनश्च पराजयम्
कथयामास दुर्धर्षो विनिःश्वस्य पुनःपुनः । अब्रवीच्च तदा राजन्भीष्मं कुरुपितामहम्
भवन्तं समुपाश्रित्य द्रोणं चैव पितामह । पाण्डवैर्विग्रहो घोरः समारब्धो मया प्रभो
एकादश समाख्याता अक्षौहिण्यश्च या मम। निदेशे तव तिष्ठन्ति मया सार्धं परंतप
सोऽहं भरतशार्दूल भीमसेनपुरोगमैः । घटोत्कचं समाश्रित्य पाण्डवैर्युधि निर्जितः
तन्मे दहति गात्राणि शुष्कवृक्षमिवानलः । तदिच्छामि महाभाग त्वत्प्रसादात्परंतप