समभ्यधावन्क्रोशन्तो राजानं जातसंभ्रमाः । संप्रेक्ष्य तान्संपततः संक्रुद्धाञ्जातसंभ्रमान्
भारद्वाजोऽब्रवीद्वाक्यं तावकानां महारथान् । क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत
संशयं परमं प्राप्तं मञ्जन्तं व्यसनार्णवे। एते क्रुद्धा महेष्वासाः पाण्डवानां महारथाः
भीमसेनं पुरस्कृत्य दुर्योधनमुपाद्रवन्। नानाविधानि शस्त्राणि विसृजन्तो महारथाः
नदन्तो भैरवान्नादांस्त्रासयन्तश्च भूमिपान् । तदाऽऽचार्यवचः श्रुत्वा सौमदत्तिपुरोगमाः
तावकाः समवर्तन्त पाम्डवानामनीकिनीम् । कृपो भूरिश्रवाः शल्यो द्रोणपुत्रो विविंशतिः
चित्रसेनो विकर्णश्च सैन्धवोऽथ बृहद्बलः । आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन्
ते विंशतिपदं गत्वा संप्रहारं प्रचक्रिरे । पाण्डवा धार्तराष्ट्राश्च परस्परजिघांसवःक
एवमुक्त्वा महाबाहुर्महद्विष्फार्य कार्मुकम् । भारद्वाजस्ततो भीमं षड्विंशत्या समार्पयत्
भूयश्चैनं महाबाहुः शरैः शीघ्रमवाकिरत् । पर्वतं वारिधाराभिः प्रावृषीव वलाहकः
तं प्रत्यविध्यद्दशभिर्भीमसेनः शिलीमुखैः । त्वरमाणो महेष्वासः सव्ये पार्श्वे महाबलः
स गाढविद्धो व्यथितो वयोवृद्धश्च भारत। प्रनष्टसंज्ञः सहसा रथोपस्थ उपाविशत्
गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनः स्वयम् । द्रौणायनिश्च संक्रुद्धौ भीमसेनमभिद्रुतौ
तावापतन्तौ संप्रेक्ष्य कालान्तकयमोपमौ । भीमसेनो महाबाहुर्गदामादाय सत्वरम्
अवप्लुत्य रथात्तूर्णं तस्थौ गिरिरिवाचलः। समुद्यम्य गदां गुर्वी यमदण्डोपमां रणे
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम्। कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम्
तावापतन्तौ सहितौ त्वरितौ बलिनां वरौ। अभ्यधावत वेगेन त्वरमाणो वृकोदरः
तमापतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम् । समभ्यधावंस्त्वरिताः कौरवाणां महारथाः
भारद्वाजमुखाः सर्वे भीमसेनजिघांसया । नानाविधानि शस्त्राणि भीमस्योरस्यपातयन्
सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः। तं दृष्ट्वा संशयं प्राप्तं पीड्यमानं महारथम्
अभिमन्युप्रभृतयः पाण्डवानां महारथाःक । अभ्यदावन्परीप्सन्तः प्राणांस्त्यक्त्वा सुदुस्त्यजान्
अनूपाधिपतिः शूरो भीमस्य दयितः सखा । नीलो नीलाम्बुदप्रख्यः संक्रुद्धो द्रौणिमभ्यात्
स्पर्धते हि महेष्वासो नित्यं द्रोणसुतेन सः। स विष्फार्य महच्चापं द्रौणिं विव्याध पत्रिणा
यथा शक्रो महाराज पुरा विव्याध दानवम् । विप्रचित्तिं दुराधर्षं देवतानां भयंकरम्
येन लोकत्रयं क्रोधात्रासितं स्वेन तेजसाक । `स रुद्रेण जितः पूर्वं निहतो मातरिश्वना' तथा नीलेन निर्भिन्नः सम्यङ्भुक्तेन पत्रिणा
संजातरुधिरोत्पीडो द्रौणिः क्रोधसमन्वितः । स विष्फार्य धनुश्चित्रमिन्द्राशनिसमस्वनम्
दध्रे नीलविनाशाय मतिं मतिमतां वरः। ततः संधाय विमलान्भल्लान्कर्मारमार्जितान्
जघान चतुरो वाहान्पातयामास च ध्वजम्। `सूतं चैकेन भल्लेन रथनीडादपाहरत्' सप्तमेन च भल्लेन नीलं विव्याध वक्षसि
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्। मोहितं वीक्ष्य राजानं नीलमश्मचयोपमम्
घटोत्कचोऽभिसंक्रुद्धो ज्ञातिभिः परिवारितः । अभिदुद्राव वेगेन द्रौणिमाहवशोभिनम् । तथेतरे चाभ्यधावन्राक्षसा युद्धदुर्मदाः