रथिनो रथिभिः सार्धं कुलपुत्रास्तनुत्यजः। परां शक्तिं समास्थाय चक्रुः कर्माण्यभीतवत्
स्वयंवर इवामर्दे प्रजह्रुरितरेतरम् । प्रार्थयाना यशो राजन्स्वर्गं वा युद्धशालिनः
तस्मिंस्तथा वर्तमाने संग्रामे रोमहर्षणे। धार्तराष्ट्रं महत्सैन्यं प्रययौ विमुखीकृतम्
स्वसैन्यं निहतं दृष्ट्वा राजा दुर्योधनः स्वयम्। अभ्यधावत्सुसंक्रुद्धो भीमसेनमरिन्दमम्
प्रगृह्य सुमहच्चापमिन्द्राशनिसमस्वनम् । महता शरवर्षेण पाण्डवं समवाकिरत्
अर्धचन्द्रं च संधाय सुतीक्ष्णं लोमवापिनम् । भीमसेनस्य चिच्छेद चापं क्रोधसमन्वितः
तदन्तरं च संप्रेक्ष्य त्वरमामो महारथः । प्रसंदधे शितं बाणं गिरीणामपि दारणम्
तेनोरसि महाराज भीमसेनमताडयत् । स गाढविद्धो व्यथितः सृक्विणी परिसंलिहन्
समाललम्बे तेजस्वी ध्वजं हेमपरिष्कृतम्। तथा विमनसं दृष्ट्वा भीमसेनं घटोत्कचः
क्रोधेनाभिप्रजज्वाल दिधक्षन्निव पावकः। अभिमन्युमुखाश्चापि पाण्डवानां महारथाः
समभ्यधावन्क्रोशन्तो राजानं जातसंभ्रमाः । संप्रेक्ष्य तान्संपततः संक्रुद्धाञ्जातसंभ्रमान्
भारद्वाजोऽब्रवीद्वाक्यं तावकानां महारथान् । क्षिप्रं गच्छत भद्रं वो राजानं परिरक्षत
संशयं परमं प्राप्तं मञ्जन्तं व्यसनार्णवे। एते क्रुद्धा महेष्वासाः पाण्डवानां महारथाः
भीमसेनं पुरस्कृत्य दुर्योधनमुपाद्रवन्। नानाविधानि शस्त्राणि विसृजन्तो महारथाः
नदन्तो भैरवान्नादांस्त्रासयन्तश्च भूमिपान् । तदाऽऽचार्यवचः श्रुत्वा सौमदत्तिपुरोगमाः
तावकाः समवर्तन्त पाम्डवानामनीकिनीम् । कृपो भूरिश्रवाः शल्यो द्रोणपुत्रो विविंशतिः
चित्रसेनो विकर्णश्च सैन्धवोऽथ बृहद्बलः । आवन्त्यौ च महेष्वासौ कौरवं पर्यवारयन्
ते विंशतिपदं गत्वा संप्रहारं प्रचक्रिरे । पाण्डवा धार्तराष्ट्राश्च परस्परजिघांसवःक
एवमुक्त्वा महाबाहुर्महद्विष्फार्य कार्मुकम् । भारद्वाजस्ततो भीमं षड्विंशत्या समार्पयत्
भूयश्चैनं महाबाहुः शरैः शीघ्रमवाकिरत् । पर्वतं वारिधाराभिः प्रावृषीव वलाहकः
तं प्रत्यविध्यद्दशभिर्भीमसेनः शिलीमुखैः । त्वरमाणो महेष्वासः सव्ये पार्श्वे महाबलः
स गाढविद्धो व्यथितो वयोवृद्धश्च भारत। प्रनष्टसंज्ञः सहसा रथोपस्थ उपाविशत्
गुरुं प्रव्यथितं दृष्ट्वा राजा दुर्योधनः स्वयम् । द्रौणायनिश्च संक्रुद्धौ भीमसेनमभिद्रुतौ
तावापतन्तौ संप्रेक्ष्य कालान्तकयमोपमौ । भीमसेनो महाबाहुर्गदामादाय सत्वरम्
अवप्लुत्य रथात्तूर्णं तस्थौ गिरिरिवाचलः। समुद्यम्य गदां गुर्वी यमदण्डोपमां रणे
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम्। कौरवो द्रोणपुत्रश्च सहितावभ्यधावताम्
तावापतन्तौ सहितौ त्वरितौ बलिनां वरौ। अभ्यधावत वेगेन त्वरमाणो वृकोदरः
तमापतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम् । समभ्यधावंस्त्वरिताः कौरवाणां महारथाः
भारद्वाजमुखाः सर्वे भीमसेनजिघांसया । नानाविधानि शस्त्राणि भीमस्योरस्यपातयन्
सहिताः पाण्डवं सर्वे पीडयन्तः समन्ततः। तं दृष्ट्वा संशयं प्राप्तं पीड्यमानं महारथम्