गच्छ रक्षस्व हैडिम्बं शंशयं परमं गतम् । भ्रातुर्वचनमाज्ञाय त्वरमाणो वृकोदरः
प्रययौ सिंहनादेन त्रासयन्सर्वपार्थिवान् । वेगेन महता राजन्पर्वकाले यथोदधिःक
तमन्वगात्सत्यधृतिः सौचित्तिर्युद्धदुर्मदः । श्रेणिमान्वसुदानश्च पुत्रः काश्यस्य चाभिभूः
अभिमन्युमुखाश्चैव द्रौपदेया महारथाः । क्षत्रदेवश्च विक्रन्तः क्षत्रधर्मा तथैव च
अनूपाधिपतिश्चैव नीलः स्वबलमास्थितः । महता रथवंशेन हैडिम्बं पर्यवारयन्
कुञ्चरैश्च सदा मत्तैः षट्सहस्रैः प्रहारिभिःक । अभ्यरक्षन्त सहिता राक्षसेन्द्रं घटोत्कचम्
सिंहनादेन महता नेमिघोषेण चैव ह। खुरशब्दनिपातैश्च कम्पयन्तो वसुंधराम्
तेषामापततां श्रुत्वा शब्दं तं तावकं बलम् । भीमसेनभयोद्विग्नं विवर्णवदनं तथा
परिवृत्य महाराज परित्यज्य घटोत्कचम् । ततः प्रववृते युद्धंक तत्र तेषां महात्मनाम्
तावकानां परेषां च संग्रामेष्वनिवर्तिनाम् । नानारूपाणि शस्त्राणि विसृजन्तो महारथाः
अन्योन्यमभिधावन्तः संप्रहारं प्रचक्रिरे । व्यतिष्यक्तं महारौद्रं युद्धं भीरुभयावहम्
हया हयैः समाजग्मुः पादाताश्च पदातिभिः । `रथा रथैः समागच्छन्नागा नागैश्च संयुगे' अन्योन्यं समरे राजन्प्रार्थयानाः समभ्ययुः
सहसा चाभवत्तीव्रं सन्निपातन्महद्रजः। गजाश्वरथपत्तीनां पादनेमिसमुद्धतम्
धूम्रारुणं रजस्तीव्रं रणभूमिं समावृणोत्। नैव स्वे न परे राजन्समजानन्परस्परम्
पिता पुत्रं न जानीते पुत्रो वा पितरं तथा । निर्मर्यादे तथाभूते वैशसे रोमहर्षणे
शस्त्राणां भरतश्रेष्ठ मनुष्याणां च र्जताम् । सुमहानभवच्छब्दः प्रेतानामिव भारत
गजवाजिमनुष्याणां शोणितान्रतरङ्गिणी । प्राववर्तत नदी तत्र केशशैवलशाद्वला
नराणां चैव कायेभ्यः शिरसां पततां रणे। शुश्रुवे सुमहाञ्छब्दः पततामश्मनामिव
विशिरस्कैर्मनुष्यैश्च छिन्नगात्रैश्च वारणैः । अश्वैः संभिन्नदेहैश्च संकीर्णाऽभूद्वसुंधरा
नानाविधानि शस्त्राणि विसृजन्तो महारथाः । अन्योन्यमभिधावन्तः संप्रहारार्थमुद्यताः
हया हयान्समासाद्य प्रेषिता हयसादिभिः । समाहत्य रणेऽन्योन्यं निपेतुर्गतजीविताः
नरा नरान्समासाद्य क्रोधरक्तेक्षणा भृशम् । उरांस्युरोभिरन्योन्यं समाश्लिष्य निजघ्निरे
प्रेषिताश्च महामात्रैर्वारणाः परवारणैः । अभ्यघ्नन्त विषणाग्रैर्वारणानेव संयुगे
ते जातरुधिरोत्पीडाः पताकाभिरलङ्कृताः । संसक्ताः प्रत्यदृश्यन्त मेघा इव सविद्युतः
केचिद्भिन्ना विषाणाग्रैर्भिन्नकुम्भाश्च तोमरैः । विनदन्तोऽभ्यधावन्त गर्जमाना धना इव
केचिद्धस्तैर्द्विधाच्छिन्नैश्छिन्नगात्रास्तथाऽपरे । निपेतुस्तुमुले तस्मिंश्छिन्नपक्षा इवाद्रयः
पार्श्वैस्तु दारितैरन्ये वारणैर्वरवारणाः । मुमुचुः शोणितं भूरि धातूनिव महीधराः
नाराचनिहतास्त्वन्ये तथा विद्धाश्च तोमरैः । विनदन्तोऽभ्यधावन्त विशृङ्गा इव पर्वताः
केचित्क्रोधसमाविष्टा मदान्धा निरवग्रहाः । रथान्हयान्पदातींश्च ममृदुः शतशो रणे
तथा हया हयारोहैस्ताडिताः प्रासतोमरैः । तेन तेनाभ्यवर्तन्त कुर्वन्तो व्याकुला दिशः