अश्वत्थामा विकर्णश्च चित्रसेनो विविंशतिः। रथाश्चानेकसाहस्रा ये तेषामनुयायिनः
अभिद्रुतं परीप्सन्तः पुत्रं दुर्योधनं तव। तदनीकमनाधृष्यं पालितं तु महारथैः
पाततायिनमायान्तं प्रेक्ष्य राक्षससत्तमः । ...कम्पत महाबाहुर्मैनाक इव पर्वतःक
प्रगृह्य विपुलं चापं ज्ञातिभिः परिवारितः । शूलमुद्गरहस्तैश्च नानाप्रहरणैरपि
ततः समभवद्युद्धं तुमुलं रोमहर्षणम् । राक्षसानां च मुख्यस्य दुर्योधनबलस्य च
धनुषां कूजतां शब्दः सर्वतस्तुमुलो रणे । अश्रूयत महाराज वंशानां दह्यतामिव
शस्त्राणां पात्यमानानां कवचेषु शरीरिणाम्। शब्दः समभवद्राजन्गिरीणामिव भिद्यताम्
वीरबाहुविसृष्टानां तोमराणां विशांपते । रूपमासीद्वियत्स्थानां सर्पाणामिव सर्पताम्
ततः परमसंक्रुद्धो विष्फार्य सुमहद्धनुः । राक्षसन्द्रो महाबाहुर्विनदन्भैरव रवम्
आचार्यस्यार्धचन्द्रेण क्रुद्धश्चिच्छेद कार्मुकम् । सोमदत्तस्य भल्लेन ध्वजं चोन्मथ्य चानदत्
बाह्लीकं च त्रिभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे। कृपमेकेन विव्याध चित्रसेनं त्रिभिः शरैः
पूर्णायतविसृष्टेन सम्यक्प्रणिहितेन च। जत्रुदेशे समासाद्य विकर्णं समताडयत्
न्यषीदत्स्वरथोपस्थे शोणितेन परिप्लुतः । ततः पुनरमेयात्मा नाराचान्दश पञ्च च
भूरिश्रवसि संक्रुद्धः प्राहिणोद्भरतर्षभ । ते वर्म भित्त्वा तस्याशु विविशुर्धरणीतलम्
विविंशतेश्च द्रौणेश्च यन्तारौ समताडयत्। तौ पेततू रथोपस्थे रश्मीनुत्सृज्य वाजिनाम्
सिन्धुराज्ञोऽर्धचन्द्रेण वाराहं स्वर्णभूषितम् । उन्ममाथ महाराज द्वितीयेनाच्छिनद्धनुः
चतुर्भिरथ नाराचैरावन्त्यस्य महात्मनः । जघान चतुरो वाहान्क्रोधसंरक्तलोचनः
पूर्णायतविसृष्टेन पीतेन निशितेन च । निर्बिभेद महाराज राजपुत्रं बृहद्बलम्
स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्। भृशं क्रोधेन चाविष्टो रथस्थो राक्षसाधिपः
चिक्षेप निशितांस्तीक्ष्णाञ्छरानाशीविषोपमान्। बिभिदुस्ते महाराज शल्यं युद्धविशारदम्
विमुखीकृत्य वर्सांस्तु तावकान्युधि राक्षसः। जिघांसुभरतश्रेष्ठ दुर्योधनमुपाद्रवत्
तमापतन्तं संप्रेक्ष्य राजानं प्रति वेगितम् । अभ्यधावञ्जिघांसन्तस्तावका युद्धदुर्मदाःक
तालमात्राणि चापानि विकर्षन्तो महारथाः । तमेकमभ्यधावन्त नदन्तः सिंहसङ्घवत्
अथैनं शरवर्षेण समन्तात्पर्यवाकिरन् । पर्वतं वारिधाराभिः शरदीव वलाहकाः
स गाढविद्धो व्यथितस्तोत्रार्दित इव द्विपः । उत्पपात तदाऽऽकाशं समन्ताद्वैनतेयवत्
व्यनदत्सुमहानादं जीमूत इव शारदः । दिशः खं विदिशश्चैव नादयन्भैरवस्वनः
राक्षसस्य तु तं शब्दं श्रुत्वा राजा युधिष्ठिरः । उवाच भरतश्रेष्ठ भीमसेनमरिन्दमम्
युध्यते राक्षसो नूनं धार्तराष्ट्रैर्महारथैः । यथाऽस्य श्रूयते शब्दो नदतो भैरवं स्वनम्
अतिभारं च पश्यामि तस्मिन्राक्षसपुङ्गवे । पितामहश्च संक्रुद्धः पाञ्चालान्हन्तुमुद्यतः
तेषां च रक्षणार्थाय युध्यते फल्गुनः परैः। एतज्ज्ञात्वा महाबाहो कार्यद्वयमुपस्थितम्