न विव्यथे महाराज पुत्रो दुर्योधनस्तव। अथैनमब्रवीत्क्रुद्धः क्रूरः संरक्तलोचनः
अद्यानृण्यं गमिष्यामि पितॄणां मातुरेव च। ये त्वया सुनृशंसेन दीर्घकालं प्रवासिताः
यच्च ते पाण्डवा राजंश्छलद्यूते पराजिताः । यच्चैव द्रौपदी कृष्णा एववस्त्रा रजस्वला
सभामानीय दुर्बुद्धे बहुधा क्लेशिता त्वया। तव च प्रियकामेन आश्रमस्था दुरात्मना
सैन्धवेन परामृष्टा परिभूय पितॄन्मम । एतेषामपमानानामन्येषां च कुलाधम
अन्तमद्य गमिष्यामि यदि नोत्सृजसे रणम्। एवमुक्त्वा तु हैडिम्बो महद्विष्फार्य कार्मुकम्
संदश्य दशनैरोष्ठं सृकिणी परिसंलिहन्। शरवर्षेण महता दुर्योधनमवाकिरत्। पर्वतं वारिधाराभिः प्रावृषीव बलाहकः
ततस्तद्बाणवर्षं तु दुःसहं दानवैरपि। दधार युधि राजेन्द्रो यथा वर्षं महाद्विपः
ततः क्रोधसमाविष्टो निःश्वसन्निव पन्नगः । संशयं परमं प्राप्तः पुत्रस्ते भरतर्षभ
मुमोच निशितांस्तीक्ष्णान्नाराचान्पञ्चविंशतिम्। तेऽपतन्सहसा राजंस्तस्मिन्राक्षसपुङ्गवे
आशीविषा इव क्रुद्धाः पर्वते गन्धमादने । स तैर्विद्धः स्रवन्रक्तं प्रभिन्न इव कुञ्जरः
दध्रे मतिं विनाशाय राज्ञः स पिशिताशनः। जग्राह च महाशक्तिं गिरीणामपि दारिणीम्
संप्रदीप्तां महोल्काभामशनिं ज्वलितामिव । तमागच्छन्महाबाहुर्जिघांसुस्तनयं तव
तामुद्यतामभिप्रेक्ष्य वङ्गानामधिपस्त्वरन् । कुञ्जरं गिरिसंकाशं राक्षसं प्रत्यचोदयत्
स नागप्रवरेणाजौ बलिना शीघ्रगामिना । यतो दुर्योधनरथस्तं मार्गं प्रत्यषेधयत्
पन्थानं वारयामास कुञ्जरेण सुतस्य ते। मार्गमावारितं दृष्ट्वा राज्ञा वङ्गेन धीमता
घटोत्कचो महाराज क्रोधसंरक्तलोचनः । उद्यतां तां महाशक्तिकं तस्मिंश्चिक्षेप वारणे
स तयाऽभिहतो राजंस्तेन बाहुप्रमुक्तया। संजातरुधिरोत्पीडः पपात च ममार च
पतत्यथ गजे चापि वङ्गानामीश्वरो बली। जवेन समभिद्रुत्य जगाम धरणीतलम्
दुर्योधोऽपि संप्रेक्ष्य पतितं वरवारणम् । प्रभग्नं च बलं दृष्ट्वा जगाम परमां व्यथाम्
अशक्तः प्रतियोद्धुं वै दृष्ट्वा तस्य पराक्रमम्।' क्षत्रधर्मं पुरस्कृत्य आत्मनश्चातिमानिताम्। प्राप्तेऽपक्रनये राजा तस्थौ गिरिरिवाचलः
राधान च शितं बाणं कालाग्निसमतेजसम्। सुयोच धरमक्रुद्धस्तस्मिन्घोरे निशाचरे
तमापतन्तं संप्रेक्ष्य वणिमिन्द्राशनिप्रभम् । लाघवान्मोचयामास महात्मा वै घटोत्कचः
भूयश्च निननादोषं क्रोधसंरक्तलोचनः । त्रासयामास रौन्यानि युगन्ते जलदो यथा
तं श्रुत्वा निनिदं घोरं तस्व भीमस्य रक्षसः। आचार्यमुसंगम्य भीष्मः शान्तनवोऽब्रवीत्
यथैव निनन्दो घोरः श्रूयते राक्षसेरितः । हैडिम्बो युध्यते नूनं राज्ञा दुर्योधनेन च
नैष शक्यो हि संग्रामे जेतुं भूतेन केनचित् । तत्र गच्छत भद्रं वो राजानं परिरक्षितुम्
अभिद्रुत्य महाबाहुं राक्षसेन प्रपीडितम्। एतद्धि परमं कृत्यं सर्वेषां नः परंतपाः
पितामहवचः श्रुत्वा त्वरमाणा महारथाः । उत्तमं जवमास्थाय प्रययुर्यत्र कौरवः
द्रोणश्च सोमदत्तश्च बाह्लीकोऽथ जयद्रथः । कृपो भिरिश्रवाः शल्य आवन्त्यः स बृहद्बलः