शरशक्त्यृष्टिनाराचैर्निघ्नन्तो गजयोधिनः । भिण्डिपालैस्तथा शूलैर्मुद्गरैः सपरश्वथैः
पर्वताग्रैश्च वृक्षैश्च निजघ्नुस्ते महागजान् । भिन्नकुम्भान्विरुधिरान्भिन्नगात्रांश्च वारणान्
अपश्याम महाराज वध्यमानान्निशाचरैः । तेषु प्रक्षीयमाणेषु भग्नेषु गजयोधिषु
दुर्योधनो महाराज राक्षसान्समुपाद्रवत्। अमर्षवशमापन्नस्त्यक्त्वा जीवितात्मनः
मुमोच निशितान्बाणान्राक्षसेषु परंतप । जघान च महेष्वासः प्रधानांस्तत्र राक्षसान्
संक्रुद्धो भरतश्रेष्ठ पुत्रो दुर्योधनस्तव । वेगवन्तं महारौद्रं विद्युज्जिह्वं प्रमाथिनम्
शरैश्चतुर्भिश्चतुरो निजघान महाबलः । ततः पुनरमेयात्मा शरवर्षं दुरासदम्
मुमोच भरतश्रेष्ठो निशाचरबलं प्रति। तत्तु दृष्ट्वा महत्कर्म पुत्रस्य तव मारिष
क्रोधेनाभिप्रजज्वाल भैमसेनिर्महाबलः । स विष्फार्य महच्चापमिन्द्राशनिसमप्रभम्
अभिदुद्राव वेगेन दुर्योधनमरिन्दमम् । तमापतन्तमुद्वीक्ष्य कालसृष्टमिवान्तकम्
न विव्यथे महाराज पुत्रो दुर्योधनस्तव। अथैनमब्रवीत्क्रुद्धः क्रूरः संरक्तलोचनः
अद्यानृण्यं गमिष्यामि पितॄणां मातुरेव च। ये त्वया सुनृशंसेन दीर्घकालं प्रवासिताः
यच्च ते पाण्डवा राजंश्छलद्यूते पराजिताः । यच्चैव द्रौपदी कृष्णा एववस्त्रा रजस्वला
सभामानीय दुर्बुद्धे बहुधा क्लेशिता त्वया। तव च प्रियकामेन आश्रमस्था दुरात्मना
सैन्धवेन परामृष्टा परिभूय पितॄन्मम । एतेषामपमानानामन्येषां च कुलाधम
अन्तमद्य गमिष्यामि यदि नोत्सृजसे रणम्। एवमुक्त्वा तु हैडिम्बो महद्विष्फार्य कार्मुकम्
संदश्य दशनैरोष्ठं सृकिणी परिसंलिहन्। शरवर्षेण महता दुर्योधनमवाकिरत्। पर्वतं वारिधाराभिः प्रावृषीव बलाहकः
ततस्तद्बाणवर्षं तु दुःसहं दानवैरपि। दधार युधि राजेन्द्रो यथा वर्षं महाद्विपः
ततः क्रोधसमाविष्टो निःश्वसन्निव पन्नगः । संशयं परमं प्राप्तः पुत्रस्ते भरतर्षभ
मुमोच निशितांस्तीक्ष्णान्नाराचान्पञ्चविंशतिम्। तेऽपतन्सहसा राजंस्तस्मिन्राक्षसपुङ्गवे
आशीविषा इव क्रुद्धाः पर्वते गन्धमादने । स तैर्विद्धः स्रवन्रक्तं प्रभिन्न इव कुञ्जरः
दध्रे मतिं विनाशाय राज्ञः स पिशिताशनः। जग्राह च महाशक्तिं गिरीणामपि दारिणीम्
संप्रदीप्तां महोल्काभामशनिं ज्वलितामिव । तमागच्छन्महाबाहुर्जिघांसुस्तनयं तव
तामुद्यतामभिप्रेक्ष्य वङ्गानामधिपस्त्वरन् । कुञ्जरं गिरिसंकाशं राक्षसं प्रत्यचोदयत्
स नागप्रवरेणाजौ बलिना शीघ्रगामिना । यतो दुर्योधनरथस्तं मार्गं प्रत्यषेधयत्
पन्थानं वारयामास कुञ्जरेण सुतस्य ते। मार्गमावारितं दृष्ट्वा राज्ञा वङ्गेन धीमता
घटोत्कचो महाराज क्रोधसंरक्तलोचनः । उद्यतां तां महाशक्तिकं तस्मिंश्चिक्षेप वारणे
स तयाऽभिहतो राजंस्तेन बाहुप्रमुक्तया। संजातरुधिरोत्पीडः पपात च ममार च
पतत्यथ गजे चापि वङ्गानामीश्वरो बली। जवेन समभिद्रुत्य जगाम धरणीतलम्
दुर्योधोऽपि संप्रेक्ष्य पतितं वरवारणम् । प्रभग्नं च बलं दृष्ट्वा जगाम परमां व्यथाम्