तं श्रुत्वा सुमहानादं तव सैन्यस्य भारत ।। ऊरुस्तम्भः समभवद्वेपथुः स्वेद एव च
सर्व एव महाराज तावका दीनचेतसः ।। सर्वतः समचेष्टन्त सिंहभीता गजा इव
नर्दित्वा सुमहानादं निर्घातमिव राक्षसः ।। ज्वलितं शूलमुद्यम्य रूपं कृत्वा विभीषणम्
नानारूपप्रहरणैर्वृतो राक्षसपुङ्गवैः ।। आजघान सुसंक्रुद्धः कालान्तकयमोपभः
तमापतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम् ।। स्वबलं च भयात्तस्य प्रायशो विमुखीकृतम्
ततो दुर्योधनो राजा घटोत्कचमुपाद्रवत् ।। प्रगृह्य विपुलं चापं सिंहवद्विनदन्मुहुः
पृष्ठतोऽनुययौ चैनं स्रवद्भिः पर्वतोपमैः ।। कुञ्जरैर्दशसाहस्रैर्वङ्गानामधिपः स्वयम्
पुत्रं तव महाराज चुकोप स निशाचरः । ततः प्रववृते युद्धं तुमुलं रोमहर्षणम्
राक्षसानां च राजेन्द्र दुर्योधनबलस्य च। गजानीकं च संप्रेक्ष्य मेघबृन्दमिवोदितम्
अभ्यधावन्त संक्रुद्धा राक्षसाः शस्त्रपाणयः । नदन्तो विविधान्नादान्मेघा इव सविद्युतः
शरशक्त्यृष्टिनाराचैर्निघ्नन्तो गजयोधिनः । भिण्डिपालैस्तथा शूलैर्मुद्गरैः सपरश्वथैः
पर्वताग्रैश्च वृक्षैश्च निजघ्नुस्ते महागजान् । भिन्नकुम्भान्विरुधिरान्भिन्नगात्रांश्च वारणान्
अपश्याम महाराज वध्यमानान्निशाचरैः । तेषु प्रक्षीयमाणेषु भग्नेषु गजयोधिषु
दुर्योधनो महाराज राक्षसान्समुपाद्रवत्। अमर्षवशमापन्नस्त्यक्त्वा जीवितात्मनः
मुमोच निशितान्बाणान्राक्षसेषु परंतप । जघान च महेष्वासः प्रधानांस्तत्र राक्षसान्
संक्रुद्धो भरतश्रेष्ठ पुत्रो दुर्योधनस्तव । वेगवन्तं महारौद्रं विद्युज्जिह्वं प्रमाथिनम्
शरैश्चतुर्भिश्चतुरो निजघान महाबलः । ततः पुनरमेयात्मा शरवर्षं दुरासदम्
मुमोच भरतश्रेष्ठो निशाचरबलं प्रति। तत्तु दृष्ट्वा महत्कर्म पुत्रस्य तव मारिष
क्रोधेनाभिप्रजज्वाल भैमसेनिर्महाबलः । स विष्फार्य महच्चापमिन्द्राशनिसमप्रभम्
अभिदुद्राव वेगेन दुर्योधनमरिन्दमम् । तमापतन्तमुद्वीक्ष्य कालसृष्टमिवान्तकम्
न विव्यथे महाराज पुत्रो दुर्योधनस्तव। अथैनमब्रवीत्क्रुद्धः क्रूरः संरक्तलोचनः
अद्यानृण्यं गमिष्यामि पितॄणां मातुरेव च। ये त्वया सुनृशंसेन दीर्घकालं प्रवासिताः
यच्च ते पाण्डवा राजंश्छलद्यूते पराजिताः । यच्चैव द्रौपदी कृष्णा एववस्त्रा रजस्वला
सभामानीय दुर्बुद्धे बहुधा क्लेशिता त्वया। तव च प्रियकामेन आश्रमस्था दुरात्मना
सैन्धवेन परामृष्टा परिभूय पितॄन्मम । एतेषामपमानानामन्येषां च कुलाधम
अन्तमद्य गमिष्यामि यदि नोत्सृजसे रणम्। एवमुक्त्वा तु हैडिम्बो महद्विष्फार्य कार्मुकम्
संदश्य दशनैरोष्ठं सृकिणी परिसंलिहन्। शरवर्षेण महता दुर्योधनमवाकिरत्। पर्वतं वारिधाराभिः प्रावृषीव बलाहकः
ततस्तद्बाणवर्षं तु दुःसहं दानवैरपि। दधार युधि राजेन्द्रो यथा वर्षं महाद्विपः
ततः क्रोधसमाविष्टो निःश्वसन्निव पन्नगः । संशयं परमं प्राप्तः पुत्रस्ते भरतर्षभ
मुमोच निशितांस्तीक्ष्णान्नाराचान्पञ्चविंशतिम्। तेऽपतन्सहसा राजंस्तस्मिन्राक्षसपुङ्गवे