कुण्डोदरः पदातिश्च वसातिश्चाष्टमः स्मृतः। सर्वे धर्मार्थकुशलाः सर्वभूतहिते रताः
धृतराष्ट्रोऽथ राजासीत्तस्य पुत्रोऽथ कुण्डिकः। हस्ती वितर्कः क्राथश्च कुण्डिनश्चापि पञ्चमः
हविश्रवास्तथेन्द्राभो भुमन्युश्चापराजितः। धृतराष्ट्रसुतानां तु त्रीनेतान्प्रथितान्भुवि
प्रतीपं धर्मनेत्रं च सुनेत्रं चापि भारत। प्रतीपः प्रथितस्तेषां बभूवाप्रतिमो भुवि
प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ। देवापिः शन्तनुश्चैव बाह्लीकश्च महारथः
देवापिस्तु प्रवव्राज तेषां धर्महितेप्सया। शन्तनुश्च महीं लेभे बाह्लीकश्च महारथः
भरतस्यान्वयास्त्वेते देवकल्पा महारथाः। बभूवुर्ब्रह्मकल्पाश्च बहवो राजसत्तमाः
एवंविधा महाभागा देवरूपाः प्रहारिणः। अन्ववाये महाराज ऐलवंशविवर्धनाः
गङ्गातीरं समागम्य दीक्षितो जनमेजय। अश्वमेधसहस्राणि वाजपेयशतानि च
पुनरीजे महायज्ञैः समाप्तवरदक्षिणैः। अग्निष्टोमातिरात्राणामुक्थानां सोमवत्पुनः
वाजपेयेष्टिसत्राणां सहस्रैश्च सुसंभृतैः। दृष्ट्वा शाकुन्तलो राजा तर्पयित्वा द्विजान्धनैः
पुनः सहस्रं पद्मानां कण्वाय भरतो ददौ। जम्बूनदस्य शुद्धस्य कनकस्य महायशाः
यस्य यूपाः शतव्यामाः परिणाहेऽथ काञ्चनाः। सहस्रव्याममुद्वृद्धाः सेन्द्रैर्देवैः समुच्छ्रिताः
स्वलङ्कृता भ्राजमानाः सर्वरत्नैर्मनोरमैः। हिरण्यं द्विरदानश्वान्महिषोष्ट्रगजाविकम्
दासीदासं धनं धान्यं गाः सुशीलाः सवत्सकाः। भूमिं यूपसहस्राङ्कां कण्वाय बहुदक्षिणाम्
बहूनां ब्रह्मकल्पानां धनं दत्त्वा क्रतून्बहून्। ग्रामान्गृहाणि शुभ्राणि कोटिशोथाददत्तदा
भरताद्भारती कीर्तिर्येनेदं भारतं कुलम्।' भरतस्यान्वये जाता देवकल्पा महारथाः
बहवो ब्रह्मकल्पाश्च बभूवुः क्षत्रसत्तमाः। तेषामपरिमेयानि नामधेयानि सन्त्युत
तेषां कुले यथा मुख्यान्कीर्तयिष्यामि भारत। महाभागान्देवकल्पान्सत्यार्जवपरायणान्
इक्ष्वाकुवंशप्रभो राजासीत्पृथिवीपतिः। महाभिषगिति ख्यातः सत्यवाक्सत्यविक्रमः
सोऽश्वमेधसहस्रेण राजसूयशतेन च। तोषयामास देवेशं स्वर्गं लेभे ततः प्रभुः
ततः कदाचिद्ब्रह्माणमुपासांचक्रिरे सुराः। तत्र राजर्षयो ह्यासन्स च राजा महाभिषक्
अथ गङ्गा सरिच्छ्रेष्ठा समुपायात्पितामहम्। तस्या वासः समुद्धूतं मारुतेन शशिप्रभम्
ततोऽभवन्सुरगणाः सहसाऽवाङ्मुखास्तदा। महाभिषक्तु राजर्षिरशङ्को दृष्टवान्नदीम्
सोपध्यातो भगवता ब्रह्मणा तु महाभिषक्। उक्तश्च जातो मर्त्येषु पुनर्लोकानवाप्स्यसि
यया हृतमनाश्चासि गङ्गया त्वं हि दुर्मते। सा ते वै मानुषे लोके विप्रियाण्याचरिष्यति
यदा ते भविता मन्युस्तदा शापाद्विमोक्ष्यते
प्रतीपं रोचयामास पितरं भूरितेजसम्। सा महाभिषजं दृष्ट्वा नदी दैर्याच्च्युतं नृपम्
तमेव मनसा ध्यायन्त्युपावृत्ता सरिद्वरा। सा तु विध्वस्तवपुषः कश्मलाभिहतान्नृप
ददर्श पथि गच्छन्ती वसून्देवान्दिवौकसः। तथारूपांश्च तान्दृष्ट्वा प्रपच्छ सरितां वरा