तस्मिंस्तु निहते वीरे राक्षसेनार्जुनात्मजे। विशोकाः समपद्यन्त धार्तराष्ट्राः सराजकाः
तस्मिन्महति संग्रामे तादृशे भैरवे पुनः। महान्व्यतिकरो घोरः सेनयोः समपद्यत
गजा हयाः पदाताश्च विमिश्रा दन्तिभिर्हताः । रथाश्वा दन्तिनश्चैव पत्तिभिस्तत्र सूदिताः
तथा पत्तिरथौघाश्च हयाश्च बहवो रणे। रथिभिर्निहता राजंस्तव तेषां च संकुले
अजानन्नर्जुनश्चापि निहतं पुत्रमौरसम्। जघान समरे शूरान्राज्ञस्तान्भीष्मरक्षिणः
तथैव तावका राजन्सृञ्जयाश्च सहस्रशः। जुह्वतः समरे प्राणान्निजघ्रुरितरेतरम्
मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः । बाहुभिः समयुध्यन्त समवेताः परस्परम्
तथा मर्मातिगैर्भीष्मो निजघान महारथान्। कम्पयन्समरे सेनां पाण्डवानां परंतपः
तेन यौधिष्ठिरे सैन्ये बहवो मानवा हताः। दन्तिनः सादिनश्चैव रथिनोऽथ हयास्तथा
तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम् । अत्यद्भुतमपश्याम शक्रस्येव पराक्रमम्
तथैव भीमसेनस्य पार्षतस्य च भारत। रौद्रमासीद्रणे युद्धं सात्यकस्य च धन्विनः
दृष्ट्वा द्रोणस्य विक्रान्तं पाण्डवान्भयमाविशत् । एक एव रणे शक्तो निहन्तुं सर्वसैनिकान्
किं पुनः पृथिवीशूरैर्योधव्रातैः समावृतः। इत्यब्रुवन्महाराज रणे द्रोणेन पीडिताः
वर्तमाने तथा रौद्रे संग्रामे भरतर्षभ । उभयोः सेनयोः शूरा नामृष्यन्त परस्परम्
आविष्टा इव युध्यन्ते रक्षोभूतैर्महाबलैः । तावकाः पाण्डवेयाश्च संरब्धास्तात धन्विनः
न स्म पश्यामहे कंचित्प्राणान्यः परिरक्षति। दैवासुराभे समरे तस्मिन्योधा नराधिप
इरावन्तं तु निहतं दृष्ट्वा पार्था महारथाः । संग्रामे किमकुर्वन्त तन्ममाचक्ष्व सञ्जय
इरावन्तं तु निहतं संग्रामे वीक्ष्य राक्षसः। व्यनदत्सुमहानादं भैमसेनिर्घटोत्कचः
नदतस्तस्य शब्देन पृथिवी सागराम्बरा । सपर्वतवना राजंश्चचाल सुभृशं तदा
अन्तरिक्षं दिशश्चैव सर्वाश्च प्रदिशस्तथा । `चेलुश्च सहसा तत्र तेन नादेन नादिताः
तं श्रुत्वा सुमहानादं तव सैन्यस्य भारत ।। ऊरुस्तम्भः समभवद्वेपथुः स्वेद एव च
सर्व एव महाराज तावका दीनचेतसः ।। सर्वतः समचेष्टन्त सिंहभीता गजा इव
नर्दित्वा सुमहानादं निर्घातमिव राक्षसः ।। ज्वलितं शूलमुद्यम्य रूपं कृत्वा विभीषणम्
नानारूपप्रहरणैर्वृतो राक्षसपुङ्गवैः ।। आजघान सुसंक्रुद्धः कालान्तकयमोपभः
तमापतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम् ।। स्वबलं च भयात्तस्य प्रायशो विमुखीकृतम्
ततो दुर्योधनो राजा घटोत्कचमुपाद्रवत् ।। प्रगृह्य विपुलं चापं सिंहवद्विनदन्मुहुः
पृष्ठतोऽनुययौ चैनं स्रवद्भिः पर्वतोपमैः ।। कुञ्जरैर्दशसाहस्रैर्वङ्गानामधिपः स्वयम्
पुत्रं तव महाराज चुकोप स निशाचरः । ततः प्रववृते युद्धं तुमुलं रोमहर्षणम्
राक्षसानां च राजेन्द्र दुर्योधनबलस्य च। गजानीकं च संप्रेक्ष्य मेघबृन्दमिवोदितम्
अभ्यधावन्त संक्रुद्धा राक्षसाः शस्त्रपाणयः । नदन्तो विविधान्नादान्मेघा इव सविद्युतः