ते संरब्धाः समागम्य द्विसाहस्राः प्रहारिणः। अचिराद्गमयामासुः प्रेतलोकं परस्परम्
तस्मिंस्तु निहते सैन्ये तावुभौ युद्धदुर्मदौ। संग्रामे समतिष्ठेतां यथा वै वृत्रवासवौ
आद्रवन्तमभिप्रेक्ष्य राक्षसं युद्धदुर्मदम् । इरावाथ संरब्धः प्रत्यधावन्महाबलः
समभ्याशगतस्याजौ तस्य खङ्गेन दुर्मदः । चिच्छेद कार्मुकं दीप्तं शरवापं च कञ्चुकम्
स निकृत्तं धनुर्दृष्ट्वा खं जवेन समाविशत्। इरावन्तमभिक्रुद्धं मोहयन्निव मायया
ततोऽन्तरिक्षमुत्पत्य इरावानपि राक्षसम्। विमोहयित्वा मायाभिसत्स्य गात्रामि सायकैः
चिच्छेद सर्वमर्मज्ञः कामरूपो दुरासदः । तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः
संबभूव महाराज समवाप च यौवनम् । माया हि सहराज समवाप च यौवनम्
एवं तद्राक्षसस्याङ्गं छिन्नंछिन्नं व्यरोहत । इरावानपि संक्रुद्धो राक्षसं त महाबलम्
परश्वथेन तीक्ष्णेन चिच्छेद च पुनः पुनः । स तेन बलिना वीरश्छिद्यमान इव द्रुमः
राक्षसो व्यनदद्धोरं स शब्दस्तुमुलोऽभवत्। परश्वथक्षतं रक्षः सुस्राव बहुशोणितम्
ततश्रुक्रोध बलवांश्चक्रे वेगं च संयुगे। आर्श्यशृङ्गिस्ततो दृष्ट्वा समरे शत्रुमूर्चितम्
कृत्वा घोरं महद्रूपं ग्रहीतुमुपचक्रमे । अर्जुनस्य सुतं वीरमिरावन्तं यशस्विनम्
संग्रामशिरसो मध्ये सर्वेषां तत्र पश्यताम्। तां दृष्ट्वा तादृशीं मायां राक्षसस्य दुरात्मनः
इरावानपि संक्रुद्धो मायां स्रष्टुं प्रचक्रमे। तस्य क्रोधाभिभूतस्य समरेष्वनिवर्तिनः
योऽन्वयो मातृकस्तस्य स एनमभिपेदिवान्। स नागैर्बहुभी राजन्निरावान्संवृतो रणे
दधार सुमहद्रूपमनन्त इव भोगवान्। ततो बहुविधैर्नागैश्छादयामास राक्षसम्
छाद्यमानस्तु नागैः स ध्यात्वा राक्षसपुङ्गवः। सौपर्णं रूपमास्थाय भक्षयामास पन्नगम्
मायया भक्षिते तस्मिन्नन्वये तस्य मातृके । विमोहितमिरावन्तं न्यहनद्राक्षसोऽसिना
सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम् । इरावतः शिरो रक्षः पातयामास भूतले
तस्मिंस्तु निहते वीरे राक्षसेनार्जुनात्मजे। विशोकाः समपद्यन्त धार्तराष्ट्राः सराजकाः
तस्मिन्महति संग्रामे तादृशे भैरवे पुनः। महान्व्यतिकरो घोरः सेनयोः समपद्यत
गजा हयाः पदाताश्च विमिश्रा दन्तिभिर्हताः । रथाश्वा दन्तिनश्चैव पत्तिभिस्तत्र सूदिताः
तथा पत्तिरथौघाश्च हयाश्च बहवो रणे। रथिभिर्निहता राजंस्तव तेषां च संकुले
अजानन्नर्जुनश्चापि निहतं पुत्रमौरसम्। जघान समरे शूरान्राज्ञस्तान्भीष्मरक्षिणः
तथैव तावका राजन्सृञ्जयाश्च सहस्रशः। जुह्वतः समरे प्राणान्निजघ्रुरितरेतरम्
मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः । बाहुभिः समयुध्यन्त समवेताः परस्परम्
तथा मर्मातिगैर्भीष्मो निजघान महारथान्। कम्पयन्समरे सेनां पाण्डवानां परंतपः
तेन यौधिष्ठिरे सैन्ये बहवो मानवा हताः। दन्तिनः सादिनश्चैव रथिनोऽथ हयास्तथा
तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम् । अत्यद्भुतमपश्याम शक्रस्येव पराक्रमम्